खड़गपुरे त्रिरङ्गद्विचक्रिकायानशोभायात्रा, रेलकर्मचारिभिः देशभक्तेः एकतायाश्च सन्देशः प्रदत्तः
खड़गपुरम्, १४ अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवसस्य ‘हर घर तिरङ्गा’ इत्यभियानस्य च अन्तर्गतं दक्षिण-पूर्वरेलस्य खड़गपुरमण्डलेन शुक्रवासरे त्रिरङ्गद्विचक्रिकायान-शोभायात्रा आयोजिता। एतत् आयोजनं राष्ट्रीयगीतस्य ‘वन्दे मातरम्’ इत्यस्य १५०तम्याः जयन्त
खड़गपुर में तिरंगा बाइक रैली निकालते रेलवे कर्मचारी


खड़गपुर में तिरंगा बाइक रैली निकालते रेलवे कर्मचारी


खड़गपुर में तिरंगा बाइक रैली निकालते रेलवे कर्मचारी


खड़गपुर में तिरंगा बाइक रैली निकालते रेलवे कर्मचारी


खड़गपुरम्, १४ अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवसस्य ‘हर घर तिरङ्गा’ इत्यभियानस्य च अन्तर्गतं दक्षिण-पूर्वरेलस्य खड़गपुरमण्डलेन शुक्रवासरे त्रिरङ्गद्विचक्रिकायान-शोभायात्रा आयोजिता। एतत् आयोजनं राष्ट्रीयगीतस्य ‘वन्दे मातरम्’ इत्यस्य १५०तम्याः जयन्त्याः तृतीयचरणस्य कार्यक्रमाणाम् अन्तर्गतं कृतः।

शोभायात्रा प्रातः अष्टवादने खड़गपुरस्य सेरसा-क्रीडाङ्गणात् प्रारब्धा खड़गपुररेल-स्थानके समाप्ता च। अस्यां रेलस्य अधिकारिभिः कर्मचारिभिश्च उत्साहपूर्वकं भागः गृहीतः। खड़गपुरस्य अपरमण्डल-रेलप्रबन्धकः सञ्जीव-कुमारसिंहः, वरिष्ठ-मण्डलसुरक्षायुक्तः प्रकाशकुमारपण्डा, रेलसुरक्षाबलस्य सैनिकाः तथा विभिन्नविभागानां कर्मचारिणः हस्तेषु त्रिरङ्गं धृत्वा शोभायात्रायां सम्मिलिताः। अस्यां देशभक्तेः, राष्ट्रियैकतायाः त्रिरङ्गस्य सम्मानस्य च सन्देशः प्रदत्तः।

खड़गपुरमण्डलेन विभाजनविभीषिका-स्मृतिदिवसस्य अवसरेऽपि विविधाः सांस्कृतिककार्यक्रमाः आयोजिताः। खड़गपुर-मेदिनीपुर-झाड़ग्रामादिषु अनेकेषु रेलस्थानकेषु मण्डलीय-सांस्कृतिकसङ्घस्य सदस्यैः सांस्कृतिक-प्रस्तुतयः प्रदत्ताः। कार्यक्रमाणां माध्यमेन विभाजनस्य पीडां तस्मिन् काले जनानां कृतानि बलिदानानि च स्मरन्तः शान्तेः, एकतायाः सौहार्दस्य च सन्देशः प्रदत्तः।

राष्ट्रियगीतस्य ‘वन्दे मातरम्’ इत्यस्य १५०तम्याः जयन्त्याः अवसरे खड़गपुर-मण्डलस्य विभिन्नेषु रेलस्थानकेषु वाद्यरूपेण ‘वन्दे मातरम्’ इति गीतं वाद्यते। रेलप्रशासनेन स्पष्टं कृतं यत् अनेन नियमितरेलघोषणासु किमपि प्रभावः न भविष्यति तथा च यात्रिभ्यः सम्बद्धाः महत्त्वपूर्णाः सूचनाः पूर्ववत् प्रसारिताः भविष्यन्ति।

स्वातन्त्र्यदिवसस्य अवसरे खड़गपुर-मण्डलस्य रेलस्थानकानि, स्थानक-परिसराः तथा मण्डलकार्यालयं त्रिरङ्गप्रकाशेन अलङ्कृतानि सन्ति। अनेन रेलपरिसरेषु उत्सवस्य वातावरणं निर्मितम् अस्ति।

हिन्दुस्थान समाचार / Divya Ranjan