Enter your Email Address to subscribe to our newsletters



जौनपुरम्,14 अगस्तमासः (हि.स.)। यूपी के जौनपुरनगरे ‘सर्वेषु गृहेषु त्रिवर्णध्वजः’ अभियानस्य अन्तर्गतं शुक्रवासरे आरक्षीपङ्क्तिपरिसरे प्रशासकीयाधिकारिभिः, शिक्षकैः, कर्मचारिभिश्च विशालां मोटरसाइकिल त्रिवर्णध्वजयात्रां आयोजितम्। क्रीडा एवं युवकल्याण राज्यमन्त्रिणा गिरीशचन्द्रयादवेन हरितध्वजं प्रदर्श्य यात्रा प्रस्थापिता।
यात्रा आरक्षीपङ्क्तिपरिसरात् प्रारभ्य नगरस्य विभिन्नमार्गैः गच्छन्ती समाहरणालयपरिसरे स्थितस्य सरदारवल्लभभाईपटेलस्य प्रतिमायाः समीपे समापिता। समापनसमये राज्यमन्त्रिणा गिरीशचन्द्रयादवेन विधानपरिषदः सदस्येन च बृजेशसिंहेन ‘प्रिंसू’ इत्यनेन सरदारवल्लभभाईपटेलस्य प्रतिमायां माल्यार्पणं कृतम्। ततः शहीदस्तम्भे देशस्य कृते बलिदानं कृतवद्भ्यः वीरशहीदेभ्यः पुष्पाञ्जलिः समर्पिता तथा ते श्रद्धया नमस्कृताः।
राज्यमन्त्री गिरीशचन्द्रयादवः अवदत् यत् ‘सर्वेषु गृहेषु त्रिवर्णध्वजः’ अभियानस्य अन्तर्गतं अधिकाधिकाः जनाः स्वगृहेषु त्रिवर्णध्वजं फहरयेयुः। शासनप्रशासनयोः पक्षतः निरन्तरं त्रिवर्णध्वजानां वितरणं क्रियमाणम् अस्ति। ये जनाः त्रिवर्णध्वजस्य क्रयणे समर्थाः सन्ति, ते स्वयमेव त्रिवर्णध्वजं क्रीत्वा पूर्णसम्मानेन स्वगृहेषु फहरयेयुः।
विधानपरिषदः सदस्यः बृजेशसिंहः त्रिवर्णध्वजस्य सम्मानं मर्यादां च संरक्षितुं नागरिकान् आह्वयन् अवदत् यत् प्रत्येकस्य नागरिकस्य दायित्वम् अस्ति यत् सः त्रिवर्णध्वजस्य आनं बानं शानं च संरक्षेत्। त्रिवर्णध्वजः अनुचितस्थाने न स्थापनीयः। निर्धारितनियमानुसारं समये ध्वजः उन्नेयः तथा सम्मानपूर्वकं अवतारणीयः। सः अवदत् यत् अद्य सम्पूर्णं राष्ट्रं त्रिवर्णमयं भवति। जनपदस्य ग्रामेषु, वीथिषु, चतुष्पथेषु च त्रिवर्णध्वजयात्राः आयोज्य जनाः राष्ट्रप्रेम्णः राष्ट्रियैकतायाश्च विषये जागरूकाः क्रियन्ते।
कार्यक्रमस्य समापनसमये मुख्यविकासाधिकारिणा सर्वेषां प्रतिभागिनां प्रति कृतज्ञता प्रकटिता। तेन जनाः स्वगृहेषु, कार्यालयेषु, प्रतिष्ठानेषु च अधिकाधिकं त्रिवर्णध्वजं फहरयेयुः इति आहूताः। तत्सह त्रिवर्णध्वजस्य गरिम्णः सम्मानस्य च संरक्षणार्थं जनान् जागरूकान् कर्तुं आग्रहः कृतः।
Hindusthan Samachar / Dheeraj Maithani