Enter your Email Address to subscribe to our newsletters

— जनपदस्तरीय-समाधानकार्यक्रमे जनसूचनानां निराकरणस्य करिष्यति समीक्षाम्
भोपालम्, १३ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य मुख्यमन्त्री डॉ. मोहन यादवः अद्य शुक्रवासरे बडवानी-जनपदे मुख्यमन्त्रिणः जनविश्वास-अभियाने सहभागं करिष्यति। मुख्यमन्त्री अत्र कलेक्टर-कार्यालयस्य सभागृहे आयोजितस्य जनपदस्तरीय-समाधान-कार्यक्रमस्य अध्यक्षतां कुर्वन् सामान्य-जनस्य विविधशिकायतानाम् आवेदनानां च निराकरणस्य गहनां समीक्षां करिष्यति।
अस्याः सम्पूर्णकार्यवाही सीएम-हेल्पलाइन-पटलस्य माध्यमेन सञ्चालिता भविष्यति। राज्यसर्वकारस्य सर्वोच्चप्राथमिकता सामान्यजनस्य समस्यासु शतप्रतिशतं समाधानं कर्तुम्, शासकीययोजनानां प्रभाविप्रवर्तनं, निरन्तरं निरीक्षणं तथा लोकसेवानां निर्धारितसमयसीमायां प्रदाने च अस्ति।
जनसम्पर्काधिकारिणी प्रियंका रानी इत्यनया सूचितं यत् मुख्यमन्त्री डॉ. यादवः शासकीय-उच्चतर-माध्यमिक-विद्यालयस्य बोरलाय इत्यस्य निरीक्षणं करिष्यति। अत्र सः जनपदस्य प्रथमस्य गणित-उद्यानस्य, आईसीटी-प्रयोग-शालायाः, अटल-टिंकरिङ्ग-प्रयोग-शालायाः तथा स्मार्ट-कक्षस्य अवलोकनं कृत्वा व्यवस्थायाः जायमानां स्थितिं ज्ञास्यति। ततः जिला-कलेक्टर-कार्यालयस्य परिसरे उद्यमिभिः, प्रगतिशील-कृषकैः तथा जनपदस्य विभिन्नक्षेत्रेषु उत्कृष्टप्रदर्शनं कृतवद्भिः विद्यार्थिभिः सह संवादमपि करिष्यति।
प्रगतिशील-कृषकैः सह मुख्यमन्त्रिणः चर्चा
संवादकार्यक्रमे मुख्यमन्त्री डॉ. यादवः जनपदे कृषेः, उद्यानिकी-विषयस्य, पशुपालनस्य तथा मत्स्यपालनस्य क्षेत्रेषु उत्कृष्टकार्यं कुर्वद्भिः प्रगतिशील-कृषकैः सह चर्चां करिष्यति। सः जनपदे एचडीपीएस-प्रविधिना कृतस्य कपास-कृषेः, कस्टम्-हायरिङ्ग-केन्द्राणां, एफपीओ-सङ्घटनानां, शासनस्य विभिन्नयोजनाभ्यः ऋणं गृहीत्वा खाद्यप्रसंस्करणक्षेत्रे उद्योगं स्थापितवद्भिः हितग्राहिभिः सह च संवादं करिष्यति। दुग्धोत्पादनम्, निमाड़ी-गवां संरक्षणम्, मत्स्यबीजं तथा मत्स्यपालनम् इत्यादीनां विषयाणामपि कृषकैः सह चर्चा भविष्यति। मुख्यमन्त्री डॉ. यादवः कृषकसङ्घटनानां पदाधिकारिभिः सह ई-टोकन-व्यवस्थां सहितम् अन्येषां विषयाणामपि चर्चां करिष्यति।
उद्यमिभिः सह अपि भविष्यति संवादः
मुख्यमन्त्री डॉ. यादवः संवादकार्यक्रमे जनपदे खाद्यप्रसंस्करणस्य तथा एग्रो-उद्योगानां, कपासस्य जिनिङ्ग-उद्योगस्य, नवीकरणीय-ऊर्जायाः, अपशिष्ट-प्रबन्धनस्य, पर्यावरणानुकूल-उत्पादानां, विनिर्माणस्य तथा नवाचारस्य, स्टार्ट-अप इत्यस्य च क्षेत्रेषु कार्यं कुर्वद्भिः सफलोद्यमिभिः सह तेषां कार्यक्षेत्र-सम्बद्धान् विषयान् विस्तरेण चर्चयिष्यति।
निर्धारितकार्यक्रमानुसारं मुख्यमन्त्री डॉ. यादवः प्रातः ११.४५ वादने इन्दौर-विमानपत्तने आगमिष्यति। ततः सः ११.५० वादने हेलिकॉप्टर-यानेन बडवानी-जनपदं प्रति प्रस्थास्यति। बडवानी-जनपदे आयोजितेषु विभिन्नकार्यक्रमेषु सहभागं कृत्वा सः सायं ५.३५ वादने प्रस्थाय इन्दौर-विमानपत्तनं प्राप्स्यति। ततः सः सायं ६.२० वादने वायुयानेन भोपालं प्रति प्रस्थास्यति।
Hindusthan Samachar / Divya Ranjan