Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १४ अगस्तमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन् शुक्रवासरे उक्तवान् यत् भारतस्य विभाजनं मानवेतिहासस्य बृहत्तमेषु सामूहिकप्रवासेषु एकम् आसीत् तथा च तस्य दूरगामीप्रभावाः अद्यापि अनुभूयन्ते। तेन उक्तं यत् विभाजनं केवलं सीमायाः पुनर्निर्धारणं नासीत्, अपितु सहस्रशः वर्षैः सम्बद्धां सभ्यतागत-धरोहरमपि विभक्तवान्।
राधाकृष्णनेन विभाजनविभीषिका-स्मृति-दिवसस्य अवसरे दिल्लीविश्व-विद्यालयस्य स्वातन्त्र्यविभाजन-अध्ययनकेन्द्रस्य भारतीयैतिहासिका-नुसन्धानपरिषदः च संयुक्ततत्त्वावधाने आयोजितायां राष्ट्रियसङ्गोष्ठ्यां एतानि वचनानि उक्तानि। सङ्गोष्ठ्याः विषयः आसीत्— ‘भारतस्य विभाजनम्— उज्जीवनस्य, वियोगस्य, पुनर्वसनस्य च गाथा’।
उपराष्ट्रपतिना उक्तं यत् विभाजनस्य स्मरणस्य उद्देश्यं पुरातनान् क्षतान् कटुतया पुनः उद्घाटयितुं न, अपितु देशे एकतां सौहार्दं च सुदृढं कर्तुम् अस्ति। स्वातन्त्र्यदिवसस्य पूर्वसन्ध्यायां राष्ट्रेण विभाजनकाले पीडां बलिदानं च सोढवद्भ्यः जनेभ्यः स्मरणं कर्तव्यम्।
तेन उक्तं यत् औपनिवेशिकशासनात् मुक्त्या देशः स्वातन्त्र्यं प्राप्तवान्, किन्तु तेन सह अभूतपूर्वा त्रासदी अपि आगता। विभाजनकाले अभवत् व्यापकं विस्थापनं मानवेतिहासस्य बृहत्तमेषु सामूहिकप्रवासेषु एकम् आसीत् तथा च एतत् विभाजनस्य द्वेषस्य च विनाशकारीपरिणामानां विषये गम्भीरा सञ्चेतना अस्ति।
राधाकृष्णनेन उक्तम्— “अस्माकं बालकानां विभाजनस्य सत्यं ज्ञातुं अधिकारः अस्ति।” तेन उक्तं यत् एतादृशीं विशालां मानवीयत्रासदीं पाठ्यपुस्तकस्य कतिपयेषु पङ्क्तिषु एव सीमितुं न शक्यते। अतीतस्य स्मरणम् आवश्यकम् अस्ति, येन तस्य त्रासदीभ्यः पुनरावृत्तेः परिहारं कर्तुं शक्यते।
विभाजनस्य दीर्घकालीकप्रभावानाम् उल्लेखं कुर्वता तेन उक्तं यत् शीघ्रतया निर्धारिताः सीमाः एतादृशान् विवादान् जनितवत्यः, येषाम् प्रभावः अद्यापि दृश्यते। विभाजनस्य प्रभावः भारतस्य रक्षानीतौ, राष्ट्रीयसुरक्षायां तथा च पार्श्ववर्तिदेशैः सह सम्बन्धेष्वपि अभवत्।
उपराष्ट्रपतिना उक्तं यत् विभाजनं केवलं राजनैतिकसीमानां पुनर्निर्धारणं नासीत्, अपितु तेन सहस्रशः वर्षैः परस्परं सम्बद्धं सभ्यतागतं भू-दृश्यं विभक्तम्। तेन सिन्धुनद्याः, करतारपुरसाहिबस्य, नन-कानासाहिबस्य, प्राचीनशक्तिपीठानां तथा हड़प्पा-मोहनजोदड़ो-तक्षशिलादीनां महत्त्वपूर्णानां सांस्कृतिकानां आध्यात्मिकानां पुरातात्त्विकानां च स्थलानां उल्लेखः कृतः, यान् प्रति गमनं विभाजनस्य कारणेन प्रभावितम् अभवत्।सङ्कटकाले नेतृत्वस्य उत्तरदायी-निर्णयस्य च महत्त्वे बलं दत्त्वा तेन उक्तं यत् व्यापकस्य राष्ट्रीयहितस्य कृते कठिननिर्णयान् कर्तुं राजनैतिकनेतृत्वस्य इच्छाशक्तिः दृढसङ्कल्पश्च आवश्यकौ स्तः। तेन उक्तं यत् जनसुरक्षासम्बद्धाः निर्णयाः पर्याप्तया पूर्वसूचनया सह स्वीकरणीयाः तथा च प्रत्येकस्य जनस्य सुरक्षा सर्वोच्चा प्राथमिकता भवेत्।
राधाकृष्णनेन नागरिकेभ्यः संकीर्ण-परिचयात् उपरि उत्थाय राष्ट्रं प्राथमिकतया स्थापयितुं आह्वानं कृतम्। तेन उक्तं यत् न कापि जातिः, न भाषा, न वा क्षेत्रं राष्ट्रात् अधिकं महत्त्वपूर्णम् अस्ति। प्रत्येकं भारतीयः भारतीयत्वेन गौरवं अनुभवेत् तथा च देशं संयोजयन्तीं सभ्यतागतपरम्परां राष्ट्रीयपरिचयं च प्रति जागरूकः भवेत्।
अस्मिन् अवसरे उपराष्ट्रपतिना विभाजनस्य १५ पीडिताः तेषां साहसस्य, दृढतायाः तथा च विभाजनस्य स्मृतिनाम् अनुभवानां च संरक्षणे योगदानस्य कृते सम्मानिताः। तेन विद्यार्थिभ्यः ‘नशा न’ इति शपथमपि दापिता तथा च युवावंशं नशात् दूरं स्थातुं स्वस्थान् उत्तरदायिनः सृजनात्मकान् च विकल्पान् स्वीकर्तुम् आह्वानं कृतम्। तेन उक्तं यत् विभाजनविभीषिकास्मृतिदिवसः देशं स्मारयति यत् स्वातन्त्र्यम् अमूल्यम् अस्ति, एकता आवश्यकी अस्ति तथा च शान्तेः कदापि उपेक्षा न करणीया।
अस्मिन् अवसरे उपराष्ट्रपतिना आई.सी.एच.आर. तथा दिल्लीविश्व-विद्यालयस्य पक्षतः आयोजितायाः प्रदर्शिन्याः अपि अवलोकनं कृतम्। तेन उक्तं यत् प्रदर्शिनी विभाजनस्य महत्या मानवीयमूल्यस्य प्रभावशालिनी स्मृतिः अस्ति। कार्यक्रमे दिल्लीविश्वविद्यालयस्य कुलपतिः प्रो. योगेशसिंहः, आई.सी.एच.आर. इत्यस्य अध्यक्षः प्रो. रघुवेन्द्रतंवरः, महाविद्यालयानां अधिष्ठाता प्रो. बलराम-पाणिः, कुलसचिवः डॉ. विकासगुप्तः इत्येतैः सह शिक्षाविदः, शोधार्थिनः, विद्यार्थिनः तथा च विभाजनपीडिताः उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan