Enter your Email Address to subscribe to our newsletters

रायपुरम्, १४ अगस्तमासः (हि.स.)। भारतस्य विभाजनस्य विभीषिकायां असंख्यपरिवारैः अनुभूतां पीडां, विस्थापनं सङ्घर्षं च स्मर्तुं तथा नववंशम् इतिहासस्य अस्मिन् महत्त्वपूर्णे अध्याये परिचितां कर्तुम् उद्दिश्य छत्तीसगढ-सर्वकारस्य संस्कृति-विभागेन अद्य शुक्रवासरे (१४ अगस्तमासे) ‘विभाजन-विभीषिका-स्मृति-दिवसस्य’ अवसरे राज्यस्तरीय-कार्यक्रमस्य आयोजनं करिष्यते।
राजधान्यां रायपुरस्य मुक्ताकाशीमञ्चे, लोकभवनस्य समीपे सिविल-लाइन्स्-स्थिते पुरातत्त्व-सञ्चालनालयस्य परिसरे मध्याह्ने १२.३० वादने आयोजितस्य समारोहस्य मुख्यातिथिः मुख्यमन्त्री विष्णुदेव-सायः भविष्यति।
समारोहस्य अध्यक्षतां संस्कृतिमन्त्री राजेश-अग्रवालः करिष्यति। वन-जलवायुपरिवर्तनमन्त्री केदार-कश्यपः अतिविशिष्टातिथिरूपेण उपस्थितः भविष्यति। प्रख्यातः चलचित्रनिर्माता अभिनेता च डॉ. चन्द्रप्रकाश-द्विवेदी समारोहस्य मुख्यवक्ता भविष्यति।
समारोहस्य मुख्यवक्ता डॉ. चन्द्रप्रकाश-द्विवेदी भारतीयेतिहासं, संस्कृतिं साहित्यं च चलचित्रस्य दूरदर्शनस्य च माध्यमेन प्रभावशालिरूपेण प्रस्तुत्य प्रसिद्धः अस्ति। लोकप्रियेन ‘चाणक्य’ इति धारावाहिकेन देशव्यापिनं विशिष्टं परिचयं प्राप्तवान् डॉ. द्विवेदी भारतविभाजनस्य पृष्ठभूमिम् आधारीकृत्य चर्चितस्य ‘पिञ्जर’ इति चलचित्रस्य निर्देशनमपि कृतवान् अस्ति। सः समारोहं प्रति विभाजनस्य ऐतिहासिक-सामाजिक-पृष्ठभूमिं, तस्य मानवीयां त्रासदीं तया सम्बद्धाः स्मृतीः च अधिकृत्य स्वविचारान् प्रस्तोष्यति।
कार्यक्रमे पण्डित-रविशङ्कर-शुक्ल-विश्वविद्यालयस्य, रायपुरस्य कुलपतिः सच्चिदानन्द-शुक्लः अपि स्वविचारान् प्रकटयिष्यति। आयोजने प्रबुद्ध-नागरिकाणां, जनप्रतिनिधीनां, साहित्य-काराणां, शिक्षाविदां, विभिन्नसमाजानां प्रतिनिधीनां तथा सञ्चारमाध्यमानां प्रतिनिधीनां च उपस्थितिः भविष्यति।
Hindusthan Samachar / Divya Ranjan