केंद्रीय मंत्रिणःअस्मरन् 1947 विभाजनस्य त्रासताम्, एकतासामाजिकसद्भावस्य दत्तस्तैः संदेशः
नवदिल्ली, 14 अगस्तमासः (हि.स.)।विभाजनविभीषिकास्मृतिदिवसस्य अवसरे केन्द्रीयमन्त्रिभिः विभिन्नराज्येषु मुख्यमन्त्रिभिश्च १९४७ तमे वर्षे देशविभाजनस्य समये प्राणान् त्यक्तवद्भ्यः जनेभ्यः तथा विस्थापनस्य हिंसायाश्च पीडां सोढवद्भ्यः परिवारेभ्यः श्रद्धाञ्
विभाजन विभीषिका स्मृति दिवस (प्रतिकातमक चित्र)।


नवदिल्ली, 14 अगस्तमासः (हि.स.)।विभाजनविभीषिकास्मृतिदिवसस्य अवसरे केन्द्रीयमन्त्रिभिः विभिन्नराज्येषु मुख्यमन्त्रिभिश्च १९४७ तमे वर्षे देशविभाजनस्य समये प्राणान् त्यक्तवद्भ्यः जनेभ्यः तथा विस्थापनस्य हिंसायाश्च पीडां सोढवद्भ्यः परिवारेभ्यः श्रद्धाञ्जलिः समर्पिता। केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः, रक्षामन्त्री राजनाथसिंहः एवं केन्द्रीयमन्त्रिभिः सह विभिन्नराज्यानां मुख्यमन्त्रिभिः विभाजनस्य त्रासदीं भारतीयेतिहासस्य दुःखदतमं पर्व इति वर्णयित्वा तस्मात् शिक्षां गृहीत्वा राष्ट्रियैकतां, अखण्डतां सामाजिकसौहार्दं च सुदृढं कर्तुम् आह्वानं कृतम्।

केन्द्रीयगृहमन्त्री सहकारितामन्त्री च अमितशाहः उक्तवान् यत् १४ अगस्त १९४७ दिनाङ्कः इतिहासस्य तस्य क्रूरतमस्य अध्यायस्य साक्षी अस्ति, यस्मिन् लक्षशः जनाः प्राणान् त्यक्तवन्तः तथा कोटिशः जनाः गृहं, सम्पत्तिं स्वजनांश्च त्यक्त्वा विस्थापिताः अभवन्। तेन विभाजनस्य कृते तत्कालीनस्य काङ्ग्रेसनेतृत्वस्य नीतयः उत्तरदायिन्यः इति कथयित्वा उक्तं यत् अस्य दंशस्य स्मरणं इतिहासः कदापि न विस्मरिष्यति। शाहः उक्तवान् यत् नरेन्द्रमोदीसर्वकारः ‘विभाजनविभीषिकास्मृतिदिवसस्य’ माध्यमेन अस्याः त्रासद्याः स्मृतीः युवापीढ्यै प्रापयति, येन देशं विभाजयितुं प्रयतमानाः शक्तयः सफलाः न भवन्तु तथा ‘एकं भारतं श्रेष्ठं भारतम्’ इति सङ्कल्पः सुदृढः भवेत्।

रक्षामन्त्री राजनाथसिंहः उक्तवान् यत् विभाजनविभीषिकास्मृतिदिवसः लक्षशः परिवाराणां दुःखस्य, विस्थापनस्य अनिश्चिततायाश्च स्मरणं कारयति। तेन उक्तं यत् अयं दिवसः तेषां जनानां सङ्घर्षस्य, साहसस्य, त्यागस्य धैर्यस्य च स्मरणस्य अवसरः अपि अस्ति, ये गृहं परिवारं सम्पत्तिं च त्यक्त्वापि जीवनं पुनः सुव्यवस्थितं कर्तुं सङ्कल्पं कृतवन्तः।

कृषिमन्त्री शिवराजसिंहचौहानः १९४७ तमे वर्षे अभवत् देशविभाजनं विश्वेतिहासस्य बर्बरतया विभीषिकया च परिपूर्णं कृष्णाध्यायम् इति वर्णितवान्। तेन उक्तं यत् द्वेषस्य हिंसायाश्च कारणेन लक्षशः जनाः विस्थापनस्य पीडां सोढवन्तः तथा अनेके जनाः प्राणान् त्यक्तवन्तः। चौहानः देशस्य एकतां सामाजिकसौहार्दं च सुदृढं कर्तुं सङ्कल्पं कर्तुम् आह्वानं कृतवान्।

केन्द्रीयसड़कपरिवहनराजमार्गमन्त्री नितिनगडकरी धर्मस्य आधारेण अभवत् विभाजनं भारतीयेतिहासस्य अमानवीयं कृष्णं च पर्व इति वर्णितवान्। तेन विभाजनस्य समये प्राणान् त्यक्तवद्भ्यः जनेभ्यः श्रद्धाञ्जलिं समर्पयता उक्तं यत् देशः अस्यां त्रासद्यां कदापि न विस्मरिष्यति।

केन्द्रीयमन्त्री जेपी नड्डा उक्तवान् यत् विभाजनस्य समये असङ्ख्यजनाः विस्थापनस्य पीडायाश्च सम्मुखीनाः अभवन्। तेन उक्तं यत् राजनैतिकाभिलाषाभिः सङ्कीर्णविचारधाराभिश्च अभवत् विभाजनं रक्तपातेन द्वेषेण विस्थापनेन च समाजं गभीररूपेण आहतवत्।

केन्द्रीयमन्त्री ज्योतिरादित्यसिन्धिया विभाजने गृहं मूलानि स्वजनांश्च त्यक्तवद्भ्यः नागरिकेभ्यः तेषां साहसं सङ्घर्षं च नत्वा श्रद्धां समर्पितवान्।

भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिननवीनः विभाजनपीडितेभ्यः श्रद्धाञ्जलिं समर्पयन् उक्तवान् यत् तत्कालीनस्य काङ्ग्रेसनेतृत्वस्य नीतिगतदोषाणां सत्ताराजनैतिकस्य च परिणामरूपेण कोटिशः जनाः नरसंहारस्य, विस्थापनस्य स्वजनवियोगस्य च पीडां सोढवन्तः। तेन उक्तं यत् अयं स्मृतिदिवसः राष्ट्रहितं सर्वोपरि स्थापयितुं ‘एकं भारतं श्रेष्ठं भारतम्’ इति सङ्कल्पं सुदृढं कर्तुं च प्रेरणां ददाति।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् १९४७ तमे वर्षे केवलं सीमायाः विभाजनं न अभवत्, अपितु असङ्ख्यपरिवाराणां स्वप्नानां सम्बन्धानां संवेदनानां च अपि विघटनम् अभवत्। तेन उक्तं यत् विभाजनविभीषिकास्मृतिदिवसः अस्मान् तस्याः पीडायाः शिक्षां गृहीत्वा राष्ट्रस्य एकताम् अखण्डतां च सर्वोच्चं मानयितुं सन्देशं ददाति।

दिल्लीप्रदेशस्य मुख्यमन्त्री रेखागुप्ता विभाजनपीडितेभ्यः लक्षशः निर्दोषनागरिकेभ्यः श्रद्धाञ्जलिं समर्पयित्वा उक्तवती यत् १४ अगस्त १९४७ दिनाङ्के केवलं देशस्य सीमाः न परिवर्तिताः, अपितु जनानां जन्मभूमिः गृहं स्वजनाश्च तेभ्यः विलगिताः। तया उक्तं यत् विभाजनस्य पीडां सोढवद्भ्यः परिवाराणां सङ्घर्षस्य देशस्य पुनर्निर्माणे च तेषां योगदानस्य सदैव स्मरणं कर्तव्यम्।

उत्तराखण्डस्य मुख्यमन्त्री पुष्करसिंहधामी उक्तवान् यत् विभाजनस्य त्रासदी असङ्ख्यपरिवारान् स्वजनेभ्यः पृथक् अकरोत् तथा लक्षशः जनान् स्वजन्मभूमिं आजीविकां सम्पत्तिं च त्यक्तुं विवशान् अकरोत्। तेन उक्तं यत् एतत् दुःखम् अद्यापि सामूहिकस्मृतौ जीवितम् अस्ति तथा अस्मान् मानवतायाः, एकतायाः भ्रातृत्वस्य च महत्त्वं स्मारयति।

---------------

Hindusthan Samachar / Dheeraj Maithani