Enter your Email Address to subscribe to our newsletters

भुवनेश्वरम्, १४ अगस्तमासः (हि.स.)। ओडिशाराज्यस्य सम्बलपुरात् सांसदः पूर्वकेन्द्रीयमन्त्री च धर्मेन्द्रप्रधानः शुक्रवासरे ‘हर घर तिरंगा’ अभियानस्य अन्तर्गतं भुवनेश्वरस्थिते स्वकीयावासे राष्ट्रध्वजम् आरोपितवान्। अस्मिन् अवसरे सः ओडिशासहितं देशवासिभ्यः ८०तमस्य स्वातन्त्र्यदिवसस्य शुभकामनाः प्रदत्तवान् तथा च जनान् स्वकीयेषु गृहेषु त्रिवर्ण-ध्वजारोपणाय आहूतवान्।
त्रिवर्णध्वजारोपणानन्तरं प्रधानः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः प्रेरणादायके नेतृत्वे ‘हर घर तिरंगा’ अभियानं सम्पूर्णदेशे राष्ट्रवादस्य, राष्ट्रियैकतायाः आत्म-सम्मानस्य च भावनायै नूतनां शक्तिं प्रददाति। सः अवदत् यत् एतदभियानं प्रत्येकं भारतीयं स्वातन्त्र्यसङ्ग्रामस्य वीरयोद्धॄणां त्यागं, संघर्षं बलिदानं च स्मर्तुं राष्ट्रसेवायै च सङ्कल्पबद्धं भवितुं प्रेरयति।
सः अवदत् यत् त्रिवर्णध्वजः केवलं भारतस्य राष्ट्रध्वजः न, अपि तु देशस्य एकतायाः, गौरवस्य, स्वातन्त्र्यस्य सार्वभौमत्वस्य च प्रतीकः अस्ति। सः नागरिकान् ‘हर घर तिरंगा’ अभियाने उत्साहपूर्वकं भागं ग्रहीतुं तथा च स्वातन्त्र्यदिवसस्य अवसरे देशभक्तेः भावनां अधिकं दृढीकर्तुं च आहूतवान्।
प्रधानः ओडिशासहितं सम्पूर्णदेशस्य जनान् स्वकीयेषु गृहेषु राष्ट्रध्वजारोपणाय अभि-यानस्य च सहभागाय आग्रहं कृतवान्। सः नागरिकान् राष्ट्रीयैकतायाः, शान्तेः सामाजिकसौहार्दस्य च सन्देशं समाजे प्रसारयितुं अपि आहूतवान्।
धर्मेन्द्रप्रधानः अवदत् यत् देशस्य स्वातन्त्र्यं असंख्यस्वातन्त्र्यसेनानीनां त्यागस्य बलिदानस्य च परिणामः अस्ति। अतः राष्ट्रीयपर्व केवलम् उत्सवस्य आयोजनस्य अवसरः न, अपि तु तान् महान् सेनानीन् स्मर्तुं राष्ट्रं प्रति स्वकीयदायित्वानि पुनः स्मर्तुं च अवसरः अस्ति।
सः सर्वान् नागरिकान् देशहितं सर्वोपरि मन्यमानाः एकतया भारतस्य प्रगत्यै योगदानं दातुम् आहूतवान्।
Hindusthan Samachar / Divya Ranjan