Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १४ अगस्तमासः (हि.स.)। राष्ट्रपतिः द्रौपदी मुर्मू शुक्रवासरे राष्ट्रपतिभवनस्थितस्य अमृतोद्यानस्य ग्रीष्मकालीनवार्षिकोत्सव-२०२६ इत्यस्य उद्घाटनम् अकरोत्। अमृतोद्यानम् अगस्तमासस्य १६ दिनाङ्कतः सितम्बरमासस्य १५ दिनाङ्कपर्यन्तं सामान्यजनानां कृते उद्घाटितं भविष्यति। अस्मिन् अवधौ उद्यानं प्रतिदिनं प्रातः १० वादनतः सायं ६ वादनपर्यन्तं उद्घाटितं भविष्यति तथा च अन्तिमप्रवेशः सायं ५ वादनपर्यन्तं भविष्यति।
राष्ट्रपतिभवनस्य पक्षतः निर्गतस्य विवरणस्य अनुसारं अनुरक्षणकार्याय अमृतोद्यानं प्रत्येकं सोमवासरे निरुद्धं भविष्यति। उद्याने प्रवेशः निःशुल्कः भविष्यति, किन्तु आगन्तुकानां कृते केवलं अन्तर्जालीय-पूर्व-पञ्जीकरणम् अनिवार्यं भविष्यति। स्थले पञ्जीकरणस्य कापि सुविधा उपलब्धा न भविष्यति। कस्मिन् अपि दिने प्रवेशाय अन्तर्जालीय-पञ्जीकरणं तद्दिनात् एकदिनपूर्वं प्रातः १० वादने समाप्तं भविष्यति।
राष्ट्रीयक्रीडादिवसस्य अवसरे अगस्त-मासस्य २९ दिनाङ्के क्रीडकाणां कृते तथा शिक्षकदिवसस्य अवसरे सितम्बरमासस्य ५ दिनाङ्के शिक्षकाणां कृते अमृतोद्यानस्य विशेषः विशेषाधिकार-युक्तश्च प्रवेशः व्यवस्थापितः अस्ति।
आगन्तुकानां प्रवेशः निर्गमनं च नॉर्थ एवेन्यू रोड इत्यस्य समीपे स्थितेन ३५ क्रमाङ्कितद्वारेण भविष्यति। आगन्तुकाः स्वसहितं चलदूरवाणीं, वैद्युतिककुंजीं, पर्सं, हस्तधार्यं पुटकं, जलपात्रं, शिशूनां कृते दुग्धस्य पात्रं तथा छत्रं च आनेतुं शक्नुवन्ति। एतेभ्यः अतिरिक्तं कस्यापि अन्यस्य वस्तुनः अन्तः नयनस्य अनुमतिः न भविष्यति।
आगन्तुकानां सुविधायै भ्रमणमार्गे पेयजलस्य, प्राथमिकचिकित्साकेन्द्रस्य, वर्षाश्रयस्य तथा शौचालयस्य च व्यवस्था भविष्यति। केन्द्रीयसचिवालय-मेट्रो-स्थानकात् अमृतोद्यानस्य प्रवेशद्वार-पर्यन्तं प्रातः ९:३० वादनतः सायं ६ वादनपर्यन्तं प्रत्येकं त्रिंशत् निमेषानन्तरं निःशुल्क-यानसेवा अपि उपलब्धा भविष्यति।
उद्यानभ्रमणस्य अवधौ आगन्तुकाः बालवाटिकां, प्लूमेरियाउद्यानं, वटोपवनं, बोनसाई-उद्यानं, बबलिङ्ग-ब्रुक्स, केन्द्रीयप्राङ्गणं, दीर्घोद्यानं तथा वृत्ताकार-उद्यानम् इत्यादीन् विविधरमणीयस्थलान् अवलोक्य आनन्दं प्राप्तुं शक्नुवन्ति।
Hindusthan Samachar / Divya Ranjan