भारतविभाजनस्य विभीषिका सङ्गीतस्य, रङ्गमञ्चस्य तथा दृश्यचित्राणां माध्यमेन प्रस्तुता
नवदिल्ली, १४ अगस्तमासः (हि.स.)। विभाजन-विभीषिका-स्मृति-दिवसस्य सन्दर्भे डॉ. आंबेडकर-अन्ताराष्ट्रिय-केन्द्रे विशेषकार्यक्रमस्य आयोजनं कृतम्। अस्मिन् अवसरे केन्द्रीयसंस्कृति-पर्यटनमन्त्री गजेन्द्रसिंह-शेखावतः तथा दिल्ली-सर्वकारस्य मन्त्रिमण्डलस्य मन्
इंटरनेशनल सेंटर में एक विशेष कार्यक्रम का आयोजन किया गया। इस अवसर पर केंद्रीय संस्कृति एवं पर्यटन मंत्री गजेंद्र सिंह शेखावत और दिल्ली सरकार के कैबिनेट मंत्री कपिल मिश्रा


नवदिल्ली, १४ अगस्तमासः (हि.स.)। विभाजन-विभीषिका-स्मृति-दिवसस्य सन्दर्भे डॉ. आंबेडकर-अन्ताराष्ट्रिय-केन्द्रे विशेषकार्यक्रमस्य आयोजनं कृतम्। अस्मिन् अवसरे केन्द्रीयसंस्कृति-पर्यटनमन्त्री गजेन्द्रसिंह-शेखावतः तथा दिल्ली-सर्वकारस्य मन्त्रिमण्डलस्य मन्त्री कपिल-मिश्रः पीडितानां सङ्घर्षं, साहसं बलिदानं च नत्वा श्रद्धांजलिं समर्पितवन्तौ। कार्यक्रमस्य माध्यमेन वर्षे १९४७ भारतविभाजनेन सम्बद्धाः पीडायाः, विस्थापनस्य, प्रियजनवियोगस्य च घटनानां स्मृतयः स्मारिताः।

“पार्टिशन हॉरर्स – रिमेंबरेंस डे” इति नाम्ना आयोजिते अस्मिन् विशेषकार्यक्रमे सङ्गीतं, रङ्गमञ्चं तथा दृश्यचित्रं समन्वितरूपेण प्रस्तुत्य विभाजनस्य कालखण्डं प्रदर्शितम्। कार्यक्रमस्य आयोजनं गुरुवासरे देररात्रौ अभवत्। मन्त्री कपिल-मिश्रः उक्तवान् यत् सङ्गीतस्य, रङ्गमञ्चस्य तथा दृश्यचित्रस्य माध्यमेन प्रस्तुतः अयं कार्यक्रमः इतिहासस्य ताः मानवीयकथाः वर्तमानवंशं प्रति प्रापयितुं प्रयत्नः अस्ति, याः विभाजनस्य त्रासद्याः पृष्ठतः निहितं दुःखं सङ्घर्षं च सम्मुखे आनयन्ति।

कपिल-मिश्रः उक्तवान् यत् ‘विभाजनस्य विभीषिका’ इति विषयः बहुवर्षपर्यन्तं स्थित्वा विस्मर्तुं प्रयत्नः कृतः। प्रधानमन्त्री नरेन्द्र-मोदिना नेतृत्वे देशेन एतत् सुनिश्चितं कृतं यत् १९४७ तमस्य वर्षस्य तद् दुःखं, बलिदानं तस्मात् प्राप्ताः शिक्षाः च कदापि विस्मृताः न भवन्तु। विभाजन-विभीषिका-दिवसः केवलं कोटिशः पीडितेभ्यः श्रद्धांजलिं समर्पयितुं अवसरः न, अपितु अग्रिमवंशानां कृते इतिहासात् शिक्षां ग्रहीतुं सङ्कल्पस्य अवसरः अपि अस्ति।

मिश्रः उक्तवान् यत् यदा कश्चित् समाजः स्वस्य इतिहासं, बलिदानानि तेभ्यः प्राप्ताः शिक्षाः च विस्मरति, तदा तस्य भविष्यं दुर्बलतया प्रतिष्ठितं भवति। विकसित-भारत-२०४७ इत्यस्य सङ्कल्पेन सह अस्माभिः पुनः एषः प्रणः कर्तव्यः यत् भारतस्य एकतां, अखण्डतां सामाजिक-समरसतां च दुर्बलयितुं प्रयतमानां मानसिकतां देशे पुनः कदापि प्ररोहयितुं न दास्यामः।

कार्यक्रमे सोनम-कालरा तस्याः च दलस्य सदस्यैः ‘स्टोरीज ऑफ सेपरेशन’ इत्यस्य विशेषसाङ्गीतिकप्रस्तुतिः प्रदत्ता। तस्मिन् वर्षे १९४७ भारतविभाजनस्य समये अभवन् पृथक्करणस्य, सङ्घर्षस्य, स्मृतीनां च सम्बद्धाः कथाः कलात्मकमाध्यमेन प्रस्तुताः। आयोजनस्य सफलतायै कपिल-मिश्रेण केन्द्रीयसंस्कृतिमन्त्रालयस्य कलाकाराणां च आभारः व्यक्तः।

Hindusthan Samachar / Divya Ranjan