प्रधानमन्त्री मोदी विभाजन-विभीषिका-स्मृति-दिवसे राष्ट्रभावनां सुदृढां कर्तुम् आह्वानं कृतवान्, सुभाषिते उक्तम्— पुरुषार्थ एव भाग्यस्य निर्माता
नवदिल्ली, १४ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी विभाजन-विभीषिका-स्मृति-दिवसे राष्ट्रभावनां सुदृढां कर्तुम् आह्वानं कृतवान्। सः सुभाषितस्य माध्यमेन उक्तवान् यत् पुरुषार्थ एव भाग्यस्य निर्माता भवति। प्रधानमन्त्री अद्य प्रातः एक्स-माध्यमे ल
प्रधानमंत्री नरेन्द्र मोदी की एक्स पोस्ट।


नवदिल्ली, १४ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी विभाजन-विभीषिका-स्मृति-दिवसे राष्ट्रभावनां सुदृढां कर्तुम् आह्वानं कृतवान्। सः सुभाषितस्य माध्यमेन उक्तवान् यत् पुरुषार्थ एव भाग्यस्य निर्माता भवति। प्रधानमन्त्री अद्य प्रातः एक्स-माध्यमे लिखितवान्— “विभाजन-विभीषिका-स्मृति-दिवसे तेषां सर्वेषां देशवासिनां हृदयपूर्वकं नमनं, ये तस्मात् वीभत्स-कालखण्डात् निर्गत्य देशस्य प्रगतौ अमूल्यं योगदानं दत्तवन्तः। ते स्वसाहसेन सामर्थ्येन च प्रदर्शितवन्तः यत् विपरीत-परिस्थितिष्वपि सङ्कल्पाः कथं सिद्धाः कर्तुं शक्यन्ते। आगच्छन्तु, सद्भावनायाः ऐक्यस्य च राष्ट्रभावनां अधिकं सुदृढां कुर्मः।”

प्रधानमन्त्रिणा सुभाषितमपि सहभाग-कृतम्—

उद्यमस्य प्रसादेन दृश्यन्ते विविधाः कलाः।कातरा एव जल्पन्ति यद् भाव्यं तद् भविष्यति॥

प्रधानमन्त्रिणः एक्स-माध्यमे अस्य अर्थः अपि प्रदत्तः— परिश्रमेण, उद्यमेन पुरुषार्थेन च विविधाः कलाः, विज्ञानं, प्रौद्योगिकी-कौशलं, शिल्पं तथा नवाचारश्च विकसिताः भवन्ति तथा सफलतायाः मार्गः प्रशस्तः भवति। अतः मनुष्यः भाग्यस्य आश्रये न उपविष्टव्यः, अपितु साहसेन, कर्मठतया निरन्तरप्रयत्नेन च स्वलक्ष्यस्य दिशि अग्रे गन्तव्यम्, यतः पुरुषार्थ एव भाग्यस्य निर्माता भवति।

Hindusthan Samachar / Divya Ranjan