ग्लास्गो-राष्ट्रमण्डलक्रीडासु भारतीयसेनायाः उत्कृष्टप्रदर्शनस्य रक्षामन्त्रिणा कृता प्रशंसा
नवदिल्ली, १४ अगस्तमासः (हि.स.)। रक्षामन्त्रिणा राजनाथसिंहेन ग्लास्गोनगरे सद्यः सम्पन्नेषु राष्ट्रमण्डलक्रीडासु उत्कृष्टं प्रदर्शनं कृतवद्भ्यः भारतीयसेनायाः क्रीडकेभ्यः प्रशंसा प्रकटिता। तेन उक्तं यत् एते क्रीडकाः शारीरिकं मानसिकं च बलम् अतिक्रम्य द
सेना के खिलाड़ियों के साथ राजनाथ सिंह


नवदिल्ली, १४ अगस्तमासः (हि.स.)। रक्षामन्त्रिणा राजनाथसिंहेन ग्लास्गोनगरे सद्यः सम्पन्नेषु राष्ट्रमण्डलक्रीडासु उत्कृष्टं प्रदर्शनं कृतवद्भ्यः भारतीयसेनायाः क्रीडकेभ्यः प्रशंसा प्रकटिता। तेन उक्तं यत् एते क्रीडकाः शारीरिकं मानसिकं च बलम् अतिक्रम्य देशस्य गौरवं वर्धितवन्तः तथा विशेषतः यूनां कृते प्रेरणायाः स्रोतांसि सन्ति।

रक्षामन्त्री शुक्रवासरे नवदिल्लीस्थिते कर्तव्यभवने राष्ट्रमण्डलक्रीडासु भारतीय-सेनायाः दलस्य सदस्यैः सह मिलितवान्। भारतीयसेनायाः क्रीडकैः ग्लास्गो-राष्ट्रमण्डलक्रीडासु १६ पदकानि—अष्ट सुवर्णपदकानि, सप्त रजतपदकानि, एकं कांस्यपदकं च विजितानि। तदतिरिक्तं भारतीयनौसेनया अपि द्वे पदके विजिते।

भारतदेशेन क्रीडासु समग्रतया ३९ पदकानि प्राप्तानि, येषु १३ सुवर्णपदकानि, १७ रजतपदकानि, ९ कांस्यपदकानि च सन्ति।

राजनाथसिंहेन क्रीडकाणां प्रदर्शनम् ‘असाधारणम्’ इति वर्णयता तेषां दृढसङ्कल्पस्य आत्मविश्वासस्य च प्रशंसा कृता। तेन उक्तं यत् अन्ताराष्ट्रियस्तरे देशस्य प्रतिनिधित्वं कुर्वद्भिः एतैः क्रीडकैः शारीरिकानां मानसिकानां च आव्हानानाम् अतिक्रमणं तेषां प्रतिबद्धतां प्रदर्शयति।

तेन उक्तं यत् एते क्रीडकाः जनानां, विशेषतः युवानां, प्रेरणायाः स्रोतांसि सन्ति, यतः तेषु सैनिकस्य विजेतुः च उत्कृष्टः समन्वयः दृश्यते।

मुष्टियुद्धे भारतस्य सप्तसु सुवर्णपदकेषु षट् सुवर्णपदानि भारतीयसेनायाः मुष्टियोद्धृभिः विजितानि। तेषु चत्वारि सुवर्णपदानि महिला-मुष्टियोद्धृणां नाम्नि सन्ति। रक्षामन्त्रिणा एतत् देशे वर्धमानायाः नारीशक्तेः प्रमाणरूपेण वर्णितम्।

तेन उक्तं यत् महिला-क्रीडकानाम् एषा सफलता अधिकाधिकाः बालिकाः क्रीडां वृत्तिरूपेण स्वीकर्तुं तथा रक्षाबलेषु सम्मिलितुं प्रेरयिष्यति।

रक्षामन्त्रिणा उक्तं यत् देशस्य विभिन्नेभ्यः भागेभ्यः विजेतारः प्रतिभाशालिनश्च उद्भवन्ति। तेन कथितं यत् क्रीडाक्षेत्रस्य लोकतन्त्रीकरणं जातम् अस्ति तथा अधुना क्रीडा कस्यचित् चयनितवर्गस्य विशेषाधिकारः न अवशिष्टः।

तेन क्रीडकाणाम् अग्रिमेभ्यः एशियाई-क्रीडाभ्यः ओलम्पिक-क्रीडाभ्यश्च शुभ-कामनाः प्रदत्ताः।

सेनाक्रीडकैः अनेकानि नूतनानि इतिहास-पृष्ठानि रचितानि

ग्लास्गोराष्ट्रमण्डलक्रीडासु भारतीय-सेनायाः अभियानस्य अन्तर्गतं अनेकाः ऐतिहासिकाः उपलब्धयः अभवन्।नायबसूबेदारः सर्वेशकुशारे उच्चकूर्दने भारताय राष्ट्रमण्डलक्रीडासु प्रथमं रजतपदकं प्राप्तवान्। अपरत्र नायबसूबेदारः गुलवीरसिंहः एकस्मिन्नेव राष्ट्रमण्डलक्रीडास्पर्धायां द्वे एथलेटिक्स-पदके प्राप्तवान् प्रथमः भारतीयः क्रीडकः अभवत्। तेन १०,००० मीटर-धावने रजतपदकं ५,००० मीटर-धावने कांस्यपदकं च विजितम्।

हवलदारः हर्षसिंहः ६० किलोग्राम-जूडो-क्रीडायां भारताय अस्यां क्रीडास्पर्धायां प्रथमं राष्ट्रमण्डलक्रीडासुवर्णपदकं प्राप्तवान्। पैरा-शॉटपुट्-क्रीडायां सूबेदारः सोमनराणा तथा लांसनायकः शुभम्जुयालः क्रमशः सुवर्णपदकं रजत-पदकं च विजित्य इतिहासं रचितवन्तौ।भारोत्तोलने हवलदारः अजयबाबुः ७९ किलोग्राम्-वर्गे १४९ किलोग्राम् भारस्य स्नैच् तथा समग्रतया ३३० किलोग्राम भारम् उत्थाप्य अभिलेखीयं प्रदर्शनं कृतवान्।

मुष्टियुद्धे ऐतिहासिकं प्रदर्शनम्

मुष्टियुद्धे भारतीयसेनायाः क्रीडकैरपि उत्कृष्टं प्रदर्शनं कृतम्। भारतदेशेन एकस्मिन्नेव राष्ट्रमण्डलक्रीडास्पर्धायां मुष्टियुद्धस्य सप्त सुवर्णपदकानि विजित्य नूतनः इतिहासः रचितः। एतेषु सप्तसु सुवर्णपदकेषु त्रिषु रजतपदकेषु च भारतीयसेनायाः मुष्टियोद्धृभिः षट् सुवर्णपदकानि द्वे रजतपदके च प्राप्तानि।एतेषाम् उपलब्धीनां पृष्ठे वर्षाणां यावत् अनुशासितप्रशिक्षणम्, त्यागः, व्यावसायिकप्रशिक्षणम्, क्रीडाविज्ञानस्य सहयोगः तथा क्रीडकाणां प्रशिक्षकाणां सहायककर्मचारिणां च कठिनपरिश्रमः वर्तते। मिशन-ओलम्पिक-विङ्ग तथा तस्य उच्चप्रदर्शनकेन्द्राणामपि क्रीडकाणां सज्जतायां महत्त्वपूर्णा भूमिका आसीत्।

भारतीय-रक्षाबलानां पदकविजेतारः

सुवर्णपदकानि

• हवलदारः साक्षी — मुष्टियुद्धम्, ५१ किलोग्राम।• नायबसूबेदारः प्रीति — मुष्टियुद्धम्, ५४ किलोग्राम।• नायबसूबेदारः चमेली — मुष्टियुद्धम्, ६७ किलोग्राम।• हवलदारः अरुन्धतीचौधरी — मुष्टियुद्धम्, ७० किलोग्राम।• हवलदारः सचिनसेवाचः — मुष्टियुद्धम्, ६० किलोग्राम।• हवलदारः अंकुशः — मुष्टियुद्धम्, ८० किलोग्राम।• हवलदारः हर्षसिंहः — जूडो, ६० किलोग्राम।• सूबेदारः सोमनराणा — पैरा-शॉटपुट्, एफ-५७।

रजतपदकानि

• मानद-लेफ्टिनेंट्-कर्नलः नीरजचोपडा — कुन्तप्रक्षेपणम्।• नायबसूबेदारः सर्वेशः — उच्चकूर्दनम्।• हवलदारः जदुमणिसिंहः — मुष्टियुद्धम्, ५५ किलोग्राम्।• सूबेदारः नरिन्दरः — मुष्टियुद्धम्, ९० किलोग्राम्।• हवलदारः अजयबाबुः — भारोत्तोलनम्, ७९ किलोग्राम्।• नायबसूबेदारः गुलवीरः — १०,००० मीटर्।• लांसनायकः शुभम्जुयालः — पैरा-शॉटपुट्, एफ्-५७।• सीपीओ-कॉम (दूरभाषः) लवप्रीतसिंहः — भारोत्तोलनम्, ११० किलोग्रामात् अधिकम्।• सीपीओ (पीटी) चनमबम्ऋषिकान्तसिंहः — भारोत्तोलनम्, ६० किलोग्राम्।

कांस्यपदकम्

• नायबसूबेदारः गुलवीरः — ५,००० मीटर।

Hindusthan Samachar / Divya Ranjan