Enter your Email Address to subscribe to our newsletters

कोलकाता, १४ अगस्तमासः (हि.स.)। नेता-सुभाषचन्द्रबोसस्य विषये आपत्तिजनकं वक्तव्यं कृतवतः भारतीयजनतापक्षस्य राज्यसभासदस्यस्य नगेन्द्ररायस्य अनन्त-महाराजस्य ‘बङ्गविभूषण’ सम्मानस्य प्रत्याहरणानन्तरमपि विवादः निरन्तरं वर्तते। तस्य विरुद्धं प्राथमिकी पञ्जीकृता अस्ति। विवादस्य मध्ये अनन्तमहाराजः स्ववक्तव्ये कृतायाः त्रुटेः विषये खेदं प्रकटितवान् तथा च भविष्ये सावधानं भविष्यतीति उक्तवान्। मुख्यमन्त्री शुभेन्द्वधिकारी तस्य क्षमायाचनं सकारात्मकं प्रयत्नं वर्णितवान्, तथापि तेन उक्तं यत् सांसदेन अक्षम्यं कृत्यम् आचरितम्।
भवानीपुरे शुक्रवासरे मुख्यमन्त्रिणा उक्तं यत् अनन्तमहाराजस्य क्षमायाचनं सकारात्मकदृष्ट्या अवलोकनीयम्। अनन्तमहाराजेन स्वयमेव स्वीकृतं यत् एतादृशं वक्तव्यं ददता तेन सावधानता पालनीया आसीत्।
मुख्यमन्त्रिणा उक्तं यत् अस्मिन् विषये शासनं स्वकार्यं करिष्यति। तेन सूचितं यत् अनन्तमहाराजस्य विरुद्धं विविधधाराणाम् अन्तर्गतं प्रथमिकी पञ्जीकृता अस्ति। अद्यावधि पञ्च जनाः गृहीताः सन्ति। आरक्षकविभागस्य कार्यवाह्याः अनन्तरं २८२ सामाजिकमाध्यम-सन्देशाः अपसारिताः तथा च सम्बद्धाः फेसबुक इत्यादयः निरोधिताः। मुख्यमन्त्रिणः अनुसारं प्रकरणे सम्पूर्णतया षट् प्रथमिकीः पञ्जीकृताः सन्ति।
विवादस्य वर्धमानतायाः अनन्तरम् अनन्तमहाराजेन सामाजिकमाध्यमे १७-निमेष-परिमितं चलचित्रं प्रकाशितम्। तस्मिन् तेन नेतासुभाषचन्द्रबोसं प्रति सम्मानं प्रकटितं तथा च स्ववक्तव्यस्य विषये खेदः व्यक्तः। तेन उक्तं यत् नेतुः विषये तेन कृताभिः कतिपयाभिः अनिच्छिताभिः टिप्पणिभिः यदि कस्यचित् भावनाः आहताः सन्ति, तर्हि तदर्थं सः मनसा दुःखितः अस्ति।सुभाषचन्द्रबोसस्य विषये कृतस्य विवादास्पदस्य वक्तव्यस्य प्रकरणे अद्यावधि गृहीताः पञ्चापि जनाः कूचबिहारजनपदस्य निवासिनः सन्ति। गृहीतेषु उत्तमबर्मन् नामकः एकः शिक्षकः अपि सम्मिलितः अस्ति। शुक्रवासरे सर्वे गृहीताः अभियुक्ताः न्यायालये उपस्थापिताः।
अस्यैव मध्ये पद्मश्रीसम्मानेन सम्मानितः स्वामी प्रदीप्तानन्दजीमहाराजः कार्तिक-महाराजः वा अपि अनन्तमहाराजस्य वक्तव्यस्य विषये प्रतिक्रियां दत्तवान्। तेन उक्तं यत् नेतुः विषये वक्तव्यं कर्तुं पूर्वम् इतिहासस्य ज्ञानम् आवश्यकम्। तेन काँग्रेसपक्षस्य वाममोर्चायाः च उपरि अपि नेतुः अपमानस्य आरोपः कृतः। अनन्तमहाराजं प्रति व्यङ्ग्यं कुर्वन् तेन उक्तम्— “अनन्तमहाराजः कुत्रत्यः कः?”
राज्यस्य मन्त्री शङ्करघोषः उक्तवान् यत् यदि कश्चित् स्वदोषं स्वीकुरुते, तर्हि समाजेन अपि उदारता प्रदर्शनीया। तेन उक्तं यत् दोषस्वीकारस्य क्षमायाचनस्य च सम्मानं करणीयम्। एषः अहङ्कारस्य संघर्षः नास्ति तथा च केवलं जनानां ग्रहणमेव समाधानं नास्ति। तेन उक्तं यत् अनन्तमहाराजेन स्वदोषं स्वीकृत्य क्षमायाचनं कृतम्। संवेदनशीलविषयेषु एतादृशेभ्यः टिप्पणीभ्यः परिहरणीयम्, येन अनावश्यकः विवादः उत्पद्येत।
Hindusthan Samachar / Divya Ranjan