विभाजनविभीषिकायां सुधांशुत्रिवेदिना योगेन्द्रनाथमण्डलस्य प्रसङ्गः कथितः
नवदिल्ली, १४ अगस्तमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रीयप्रवक्ता तथा सांसदः डॉ. सुधांशुत्रिवेदी विभाजन-विभीषिकास्मृतिदिवसस्य उपलक्ष्ये आयोजिते कार्यक्रमे विभाजनसम्बद्धस्य इतिहासस्य एकस्य महत्त्वपूर्णस्य प्रसङ्गस्य उल्लेखं कृत्वा योगेन्द्रनाथ-मण्
दिल्ली यूनिवर्सिटी के इंद्रप्रस्थ कॉलेज फॉर वुमेन में 'विभाजन विभीषिका स्मृति दिवस' पर शुक्रवार को कार्यक्रम को संबोधित करते भाजपा के राज्यसभा सदस्य डॉ. सुधांशु त्रिवेदी।


दिल्ली यूनिवर्सिटी के इंद्रप्रस्थ कॉलेज फॉर वुमेन में 'विभाजन विभीषिका स्मृति दिवस' पर शुक्रवार को कार्यक्रम को संबोधित करते भाजपा के राज्यसभा सदस्य डॉ. सुधांशु त्रिवेदी।


नवदिल्ली, १४ अगस्तमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रीयप्रवक्ता तथा सांसदः डॉ. सुधांशुत्रिवेदी विभाजन-विभीषिकास्मृतिदिवसस्य उपलक्ष्ये आयोजिते कार्यक्रमे विभाजनसम्बद्धस्य इतिहासस्य एकस्य महत्त्वपूर्णस्य प्रसङ्गस्य उल्लेखं कृत्वा योगेन्द्रनाथ-मण्डलस्य राजनैतिकयात्रां तस्य अनुभवान् च प्रस्तुतवान्। त्रिवेदिना सिलहटस्य जनमतसंग्रहात् आरभ्य पाकिस्तानदेशस्य प्रथमस्य विधिमन्त्री-रूपेण मण्डलस्य भूमिकां १९५० तमे वर्षे तस्य त्यागपत्रपर्यन्तं च घटनानां उल्लेखः कृतः।

डॉ. त्रिवेदिना इन्द्रप्रस्थमहिलामहाविद्यालये शुक्रवासरे ‘विभाजनविभीषिका-स्मृतिदिवसस्य’ उपलक्ष्ये आयोजिते कार्यक्रमे उक्तं यत् १९४७ तमे वर्षे तत्कालीनस्य असमस्य सिलहटक्षेत्रे जनमतसंग्रहः आयोजितः आसीत्। तत्र एतत् निर्धारयितुम् आसीत् यत् तत् क्षेत्रं भारतस्य भागः भवेत् अथवा पाकिस्तानदेशे सम्मिलितं भवेत्। जनमतसंग्रहस्य अनन्तरं सिलहटस्य अधिकांशः भागः पाकिस्तानदेशे सम्मिलितः अभवत्। अनन्तरं तत् क्षेत्रं पूर्वपाकिस्तानदेशस्य तथा वर्तमानस्य बाङ्ग्लादेशस्य भागः अभवत्।

अस्मिन् सन्दर्भे तेन योगेन्द्रनाथमण्डलस्य उल्लेखं कुर्वता उक्तं यत् सः अनुसूचितजातीनां प्रमुखः नेता आसीत् तथा च तेन मुस्लिमलीगपक्षेण सह राजनैतिकं सहयोगं कृतम् आसीत्। पाकिस्तानदेशस्य निर्माणानन्तरं मण्डलं तत्रत्य प्रथमसर्वकारे विधिमन्त्री नियुक्तः। सः पाकिस्तानदेशस्य प्रारम्भिक-शासनव्यवस्थायां सम्मिलितेषु प्रमुखेषु अमुस्लिमनेतृषु अन्यतमः आसीत्, येभ्यः अल्पसंख्याकानां अधिकाराणां संरक्षणस्य अपेक्षा आसीत्। किन्तु कतिपयेषु एव वर्षेषु मण्डलस्य पाकिस्तानदेशस्य शासन-व्यवस्थायां विश्वासः नष्टः अभवत् तथा च ८ अक्टुबर १९५० तमे वर्षे तेन तत्कालीन-प्रधानमन्त्रिणे लियाकत-अलीखानाय स्वत्यागपत्रं समर्पितम्।

त्यागपत्रे तेन पूर्वबङ्गाले हिन्दूनाम् अनुसूचितजातीयजनान् च प्रति क्रियमाणस्य भेदभावस्य तथा अल्पसंख्याकानां सुरक्षां प्रति गम्भीराः प्रश्नाः उत्थापिताः। ऐतिहासिकस्रोतस्स्वपि तस्य त्यागपत्रं पाकिस्तानदेशस्य तत्कालीनस्य प्रशासनिकस्य राज-नैतिकस्य च व्यवस्थां प्रति तस्य असन्तोषेन सम्बद्धमिति वर्णितम्।

डॉ. त्रिवेदिना उक्तं यत् मण्डलस्य त्यागपत्रं केवलं मन्त्रीपदत्यागस्य घटना नासीत्, अपि तु तेन पाकिस्तानदेशस्य नूतन-व्यवस्थायां प्रवेशसमये यः राजनैतिकः विश्वासः आसीत्, तस्य भङ्गस्य प्रतीकम् आसीत्। मण्डलस्य प्रसङ्गस्य माध्यमेन तेन रेखाङ्कितं यत् विभाजनस्य प्रभावः केवलं सीमापरिवर्तन-पर्यन्तं सीमितः नासीत्, अपि तु तेन लक्षशः जनानां राजनैतिकजीवनं सामाजिक-जीवनं व्यक्तिगतजीवनं च गभीररूपेण प्रभावितम्।

मण्डलस्य त्यागपत्रस्य अनन्तरं तस्य भारतप्रत्यागमनमपि विभाजनस्य त्रासद्याः एकः महत्त्वपूर्णः अध्यायः इति मन्यते। परवर्तिकाले तेन पूर्वपाकिस्तानात् आगतानां हिन्दुशरणार्थिनां पुनर्वासस्य प्रयासेषु भूमिका निर्वुढा।

Hindusthan Samachar / Divya Ranjan