बिहपुरे तिरंगा यात्रा, जनसंमर्देन गूंजितो 'भारत माता की जय',इत्यस्मिन् उद्घोषे राष्ट्रप्रेम्णो वर्णे निमग्नं क्षेत्रम्
भागलपुरम्, 14 अगस्तमासः (हि.स.)।शुक्रवासरे जनपदस्य बिहपुरप्रखण्डे राष्ट्रभक्तेः एकम् अनन्यं भव्यं च दृश्यं दृष्टिगोचरम् अभवत्। राज्यस्य पथनिर्माणमन्त्री स्थानीयविधायकश्च अभियन्ता शैलेन्द्रस्य नेतृत्वे तिरङ्गायात्रायाः आयोजनं कृतम्। प्रायः सार्धद्वि
तिरंगा रैली में शामिल मंत्री, एसपी और अन्य


भागलपुरम्, 14 अगस्तमासः (हि.स.)।शुक्रवासरे जनपदस्य बिहपुरप्रखण्डे राष्ट्रभक्तेः एकम् अनन्यं भव्यं च दृश्यं दृष्टिगोचरम् अभवत्। राज्यस्य पथनिर्माणमन्त्री स्थानीयविधायकश्च अभियन्ता शैलेन्द्रस्य नेतृत्वे तिरङ्गायात्रायाः आयोजनं कृतम्। प्रायः सार्धद्विकिलोमीटरपरिमिता इयं यात्रा एसडीमहाविद्यालयस्य गौरीपुरात् प्रारभ्य बभनगामास्थितवैष्णवीदुर्गामन्दिरप्राङ्गणपर्यन्तं गता। सम्पूर्णयात्राकाले समग्रः मार्गः देशभक्तेः भावनया परिपूर्णः दृश्यते स्म।

यात्रायां सम्मिलितानां जनानां हस्तेषु गौरवेण तिरङ्गध्वजः लहरति स्म, तेषां मुखे च भारतमाताकी जय तथा वन्दे मातरम् इत्यादीनि गगनभेदीनि घोषवाक्यानि आसन्। देशभक्तिगीतानां मधुरध्वनिभिः सम्पूर्णं वातावरणं राष्ट्रप्रेम्णा परिपूर्णम् अभवत्।

अस्यां यात्रायाम् प्रशासनिकाधिकारिभ्यः आरभ्य विद्यालयीयबालकाः, शिक्षकाः, जीविकादीद्यः, एनसीसीप्रशिक्षणार्थिनः, विभिन्नराजनैतिकदलानां कार्यकर्तारः सामान्यग्रामीणाश्च उत्साहपूर्वकं भागं गृहीतवन्तः।

अस्मिन् अवसरे मुख्यातिथिः पथनिर्माणमन्त्री अभियन्ता शैलेन्द्रः जनसामान्यं सम्बोधयन् अवदत्, तिरङ्गः केवलं वस्त्रखण्डः नास्ति, अपितु अस्माकं देशस्य मानस्य गौरवस्य च प्रतीकः अस्ति। सः प्रत्येकं नागरिकम् आहूतवान् यत् ते स्वस्य राष्ट्रियगौरवं अक्षुण्णं स्थापयितुं देशस्य प्रति सम्मानं प्रकटयितुं च स्वस्वगृहेषु तिरङ्गध्वजं अवश्यं आरोहयन्तु।

अवसरे उपस्थितः पुलिसाधीक्षकः वैभवशर्मा अवदत् यत् तिरङ्गयात्रा केवलम् एकम् अभियानं नास्ति, अपितु देशस्य प्रति अस्माकं सम्मानस्य, गौरवस्य, कर्तव्यस्य दायित्वस्य च सामूहिकी अभिव्यक्तिः अस्ति। एतादृशैः आयोजनेः अस्माकं युवा-सन्ततिषु राष्ट्रप्रेम्णः भावना अधिकतरा दृढा भवति।

अस्य आयोजनस्य सफलतायै क्षेत्रस्य अनेकानाम् प्रशासनिकाधिकारिणां गणमान्यजनानां च गरिमामयी उपस्थितिः अभवत्। तेषु डीसीएलआर शैलेन्द्रसिंहः, प्रभारीकुलपतिः प्रो. (डॉ.) रञ्जनाझा, एसडीमहाविद्यालयस्य (भागलपुर) प्राचार्यः प्रो. (डॉ.) अरविन्दसिंहः, गौरीपुरस्य एसडीमहाविद्यालयस्य प्राचार्यः धनञ्जयमिश्रः, एसडीपीओ अनिकेतअमरः, बीडीओ अभिनवभारती, सीओ अदितिरञ्जनश्च सम्मिलिताः आसन्। तथा च इन्स्पेक्टर महेशकुमारसिंहः, बिहपुरथानाध्यक्षः सन्तोषशर्मा, झण्डापुरथानाध्यक्षः प्रशान्तकुमारः, कार्यक्रमस्य संयोजकः प्रभुनन्दनचौधरी, प्रो. गौतमः, अजयसिंहः, मुकेशराणा, अरुणसिंहः, प्रो. प्रेरणाप्रियदर्शिनी, प्रो. उषामिश्रा तथा कुन्दनकुमारः इत्यादयः बहुसंख्यकाः शिक्षकाः, अभिभावकाः सामान्यजनाश्च उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani