Enter your Email Address to subscribe to our newsletters

वाराणसी, 14 अगस्तमासः (हि. स.)।
वाराणस्याः शिवपुरस्थे श्रीअन्नपूर्णाऋषिकुलब्रह्मचर्याश्रमे निवसन्तः बटुकाः शुक्रवासरे आश्रमात् तिरङ्गायात्राम् आयोजयन् तथा ‘भारत माता की जय’, ‘वन्दे मातरम्’ इति घोषान् अकुर्वन्। तिरङ्गायात्रायाः शुभारम्भः विधायकः डॉ नीलकण्ठतिवारी भारतमातुः पूजनेन कृतवान्।
तिरङ्गायात्रायां सम्मिलितः विधायकः डॉ नीलकण्ठतिवारी उक्तवान् यत् प्रधानमन्त्री नरेन्द्रमोदिनः प्रेरणया मुख्यमन्त्री योगी आदित्यनाथस्य मार्गदर्शनेन च तिरङ्गायात्राः आयोज्यन्ते। तस्यैव क्रमस्य अन्तर्गतं बटुकैः अपि एका तिरङ्गायात्रा आयोजिता। बटुकानां तिरङ्गायात्रायां स्थानीयजनाः आश्रमसम्बद्धाः अनुयायिनश्च उपस्थिताः आसन्। तेभ्यः अपि यात्रायां सम्मिलितुं अवसरः प्राप्तः।
तथैव कैण्टविधानसभाक्षेत्रे विद्यालयीयबालकानां तिरङ्गायात्रायां विधायकः सौरभश्रीवास्तवः सम्मिलितः। वीथीभिः गच्छन्त्यां तिरङ्गायात्रायां सर्वप्रथमं देशभक्तिगीतस्य गायनं क्रियमाणम् आसीत्। ततः विभिन्नवेषभूषासु विद्यालयीयबालकाः तेषां मातापितरश्च यात्रायां सम्मिलिताः।
विधायकः सौरभश्रीवास्तवः उक्तवान् यत् तिरङ्गायात्रायां बालकानां उपस्थित्या प्रसन्नमयम् वातावरणम् अभवत्। बालकाः अपि तिरङ्गायात्रायां सम्मिलिताः भूत्वा प्रसन्नाः अभवन्। यात्रायाः समये तेन जनानां मध्ये तिरङ्गध्वजानां वितरणं कृत्वा सर्वेभ्यः स्वेषु गृहेषु तिरङ्गध्वजं अवश्यं स्थापयितुं च आह्वानं कृतम्।
---------------
Hindusthan Samachar / Dheeraj Maithani