Enter your Email Address to subscribe to our newsletters


चम्पावतम्, 14 अगस्तमासः (हि.स.)।अशीतितमे स्वातन्त्र्यदिवसस्य अवसरे क्रीडानिदेशालयस्य उत्तराखण्डस्य सौजन्येन जनपदक्रीडाकार्यालयेन चम्पावत् जनपदस्य टनकपुरनगरे स्थिते स्वर्गीयकैलाशगहतोड़ीक्रीडाङ्गणे जनपदस्तरीयस्य क्रॉसकण्ट्रीक्रीडाप्रतियोगितायाः आयोजनं कृतम्। प्रतियोगितायां जनपदस्य विभिन्नेभ्यः क्षेत्रेभ्यः आगताः शताधिकाः क्रीडकाः उत्साहपूर्वकं प्रतिभागं कृत्वा स्वकीयां क्रीडाप्रतिभां प्रदर्शितवन्तः।
प्रतियोगितायाः शुभारम्भः मुख्यातिथिना टनकपुरकोतवालः चेतनरावत् तथा उपनिरीक्षकः भूपेन्द्रसिंहधामी इत्येताभ्यां हरितध्वजं प्रदर्श्य कृतः। अस्मिन् अवसरे ताभ्यां युवकेभ्यः क्रीडां जीवनस्य अभिन्नं भागं कर्तुम् आह्वानं कृतम्। ताभ्यां कथितं यत् क्रीडाभिः शारीरिकस्य मानसिकस्य च विकासेन सह अनुशासनस्य नेतृत्वक्षमतायाश्च अपि विकासः भवति।
प्रतियोगितायाः अधः चतुर्दशवर्षीयबालकवर्गे मोहितकुमारः प्रथमस्थाने, मयङ्कगुप्तः द्वितीयस्थाने, अंशुकुमारः तृतीयस्थाने, आदर्शकुमारः चतुर्थस्थाने, प्रकाशनेगी पञ्चमस्थाने तथा आयुषएरी षष्ठस्थाने अभवत्। अधः चतुर्दशवर्षीयबालिकावर्गे सीमाबोहरा प्रथमस्थानं प्राप्तवती। दिया द्वितीयस्थाने, नैनाचोराकोटी तृतीयस्थाने, पूजा चतुर्थस्थाने, नन्दनी पञ्चमस्थाने तथा दिशा षष्ठस्थाने अभवत्।
वरिष्ठबालकवर्गे सौरभः प्रथमस्थानं प्राप्तवान्। पवनरेशवालः द्वितीयस्थाने, सौरभबिष्टः तृतीयस्थाने, आयुषखनका चतुर्थस्थाने, मनीषपाण्डे पञ्चमस्थाने तथा राजूबिष्टः षष्ठस्थाने अभवन्। वरिष्ठबालिकावर्गे वंशिका प्रथमस्थाने, सरिता द्वितीयस्थाने, प्रियङ्का तृतीयस्थाने, सिया चतुर्थस्थाने, प्रीति पञ्चमस्थाने तथा दिशाबिष्टः षष्ठस्थाने अभवन्।
समापनावसरे उत्कृष्टं प्रदर्शनं कृतवद्भ्यः क्रीडकेभ्यः सम्मानं प्रदत्तम्। कार्यक्रमे शिक्षाविभागस्य ललितमोहनभट्टः, रचितवल्दिया तथा चन्द्रसिंहखोलिया उपस्थिताः आसन्। क्रीडाविभागस्य पक्षतः फुटबॉलप्रशिक्षकः गौरवखोलिया, बॉक्सिङ्गप्रशिक्षकः ललितमोहनकुँवरः तथा सूरजपाण्डे, हॉकीप्रशिक्षकः प्रकाशसिंहः, क्रिकेटप्रशिक्षकः मनोजटकवालः, वॉलीबॉलप्रशिक्षिका आशापाण्डे, हैंडबॉलप्रशिक्षकः महेशचुफालः, ताईक्वाण्डोप्रशिक्षकः इमरानः तथा एथलेटिक्सप्रशिक्षकाः आकाशः, हीरा, दीपकः राकेशजोशी च सहिताः अनेके अधिकारिणः प्रशिक्षकाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani