Enter your Email Address to subscribe to our newsletters

— कार्यशालायां स्वदेशीवस्तुभिःसूत्रं निर्मातुं लक्ष्यम्
वाराणसी, 14 अगस्तमासः (हि.स.)।उत्तरप्रदेशस्य धार्मिकनगरे काश्यां ग्रामीणाञ्चलस्य छात्राः वीरसैनिकेभ्यः पूर्णभावनया रक्षाबन्धनसूत्राणि निर्मान्ति। सामाजिकसंस्था आशाट्रस्टस्य प्रयत्नेन चौबेपुर-कैथीक्षेत्रस्य भन्दहाकला-ग्रामे स्थिते आशापुस्तकालये शुक्रवासरे आयोजितायां कार्यशालायां प्रायः षष्टिः किशोरीभिः सहभागः कृतः।
प्रशिक्षिका मीनाक्षीदुबेः गृहसामग्रीभिः विविधप्रकारकाणां रक्षाबन्धनसूत्राणां निर्माणस्य तकनीकिं छात्राभ्यः अशिक्षयत्। छात्राः एभिः सामग्रीभिः अत्यन्तोत्साहेन रक्षाबन्धनसूत्राणि निर्मातुं अशिक्षन्त।
अवसरेऽस्मिन् समितेः समन्वयकः वल्लभाचार्यपाण्डेयः उक्तवान् यत् एतादृशेन प्रशिक्षणेन बालिकानाम् आत्मविश्वासे वृद्धिः भवति। कार्यशालायां निर्मितानि रक्षाबन्धनसूत्राणि डाकमाध्यमेन सेनामुख्यालयं प्रेषयिष्यन्ते, येन देशस्य सीमासु सुरक्षां कुर्वतां अस्माकं सेनाजवानानां कलाइः रक्षासूत्ररहिताः न भवन्तु।
कार्यशालायाः आयोजने श्वेतासिंहः, सरोजसिंहः, साधनापाण्डेयः, प्रदीपसिंहः, सौरभचन्द्रः च विशेषसहयोगं प्रदत्तवन्तः।
Hindusthan Samachar / Dheeraj Maithani