उपराष्ट्रपतिः सी.पी. राधाकृष्णन् अगस्तमासस्य १६-१७ दिनाङ्कयोः तमिलनाडुराज्यस्य यात्रां करिष्यति
नवदिल्ली, १४ अगस्तमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन् अगस्तमासस्य १६-१७ दिनाङ्कयोः तमिल-नाडुराज्यस्य द्विदिवसीययात्रां करिष्यति। अस्यां यात्रायां सः चेन्नई, चेंगलपट्टु, तिरुवरूर तथा तञ्जावूर इत्येतेषु स्थानेषु आयोजितेषु विविधेषु शैक्षणिक
उपराष्ट्रपति सी. पी. राधाकृष्णन (फाइल फोटो)


नवदिल्ली, १४ अगस्तमासः (हि.स.)। उपराष्ट्रपतिः सी.पी. राधाकृष्णन् अगस्तमासस्य १६-१७ दिनाङ्कयोः तमिल-नाडुराज्यस्य द्विदिवसीययात्रां करिष्यति। अस्यां यात्रायां सः चेन्नई, चेंगलपट्टु, तिरुवरूर तथा तञ्जावूर इत्येतेषु स्थानेषु आयोजितेषु विविधेषु शैक्षणिकेषु, स्मृतिकार्यक्रमेषु साहित्यिकेषु च कार्यक्रमेषु भागं ग्रहीष्यति।

उपराष्ट्रपतिसचिवालयेन शुक्रवासरे सूचितं यत् उपराष्ट्रपतिः अगस्तमासस्य १६ दिनाङ्के चेंगलपट्टु-जनपदस्य कट्टन-कुलथुरस्थिते एस.आर.एम.-विज्ञान-प्रौद्योगिकी-संस्थाने आयोजिते २२ तमे दीक्षान्तसमारोहे सम्मिलिष्यति। ततः सः चेन्नईनगरस्य टी. नगरस्थिते वाणीमहले नागालैण्ड्, मणिपुर तथा पश्चिमबङ्गालस्य पूर्वराज्यपालस्य ला. गणेशन इत्यस्य प्रथमपुण्यतिथेः अवसरे आयोजिते कार्य-क्रमे भागं ग्रहीष्यति।

तस्मिन्नेव दिने सः चेन्नईनगरस्य डी.जी. वैष्णव-महाविद्यालयस्य सभागारे हिन्दू-मुन्नानी-सङ्घटनस्य संस्थापकस्य दिवङ्गतस्य के. रामगोपालनस्य विचाराणाम् लेखानां च आधारेण रचितस्य ‘इकोज़ ऑफ् ए नेशनलिस्ट माइण्ड’ इति पुस्तकस्य विमोचनकार्यक्रमे अपि भागं ग्रहीष्यति।

उपराष्ट्रपतिः अगस्तमासस्य १७ दिनाङ्के तिरुवरूरे तमिलनाडु-केन्द्रीयविश्व-विद्यालयस्य ११ तमे दीक्षान्तसमारोहे भागं ग्रहीष्यति। ततः सः तञ्जावूरे सास्त्रा-डीम्ड्-विश्वविद्यालयस्य रजतजयन्त्याः रूबिजयन्त्याश्च समापनसमारोहे भागं ग्रहीष्यति।

Hindusthan Samachar / Divya Ranjan