स्वतंत्रता दिवसस्य एकस्याद् दिनांकात् प्राक् महिला पुलिसकर्मिणां यात्रा दत्तवती देशभक्तेर्नारीसशक्तिकरणयोः संदेशः
कानपुरम्, 14 अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवसस्य अवसरे एकदिनपूर्वं महिलापुलिसकर्मचारिणां निष्कासिता इयं यात्रा देशभक्तेः, राष्ट्रियैकतायाः तथा नारीसशक्तीकरणस्य सन्देशं प्रददाति। एतानि वचनानि शुक्रवासरे यात्रायाः समये अपरपुलिस उपायुक्ता स्नेहात
रैली के दौरान लिया गया छायाचित्र


कानपुरम्, 14 अगस्तमासः (हि.स.)।

स्वातन्त्र्यदिवसस्य अवसरे एकदिनपूर्वं महिलापुलिसकर्मचारिणां निष्कासिता इयं यात्रा देशभक्तेः, राष्ट्रियैकतायाः तथा नारीसशक्तीकरणस्य सन्देशं प्रददाति। एतानि वचनानि शुक्रवासरे यात्रायाः समये अपरपुलिस उपायुक्ता स्नेहातिवारी उक्तवती।

स्वातन्त्र्यदिवसस्य अवसरे कानपुरपुलिसायुक्तालयस्य पक्षतः अद्य महिलापुलिसकर्मचारिणां भव्यबाइक् तथा स्कूटररैली आयोजिता। आरक्षितपुलिसपङ्क्तितः पुलिसायुक्तः रघुबीरलालः हरितध्वजं प्रदर्श्य रैलीं प्रस्थापितवान्। रैल्यां शताधिकाः महिलापुलिसकर्मचारिणः बाइक् तथा स्कूटरयानेषु आरूढाः भूत्वा भागं गृहीतवत्यः।

महिलाथानाप्रभारी कमरसुल्तानायाः सञ्चालनं रैली प्रवृत्ता। रैल्यां महिलापुलिसकर्मचारिणः हस्तेषु तिरङ्गं धृत्वा नगरवासिभ्यः देशभक्तेः, एकतायाः तथा राष्ट्रियगौरवस्य सन्देशं प्रदत्तवत्यः। आरक्षितपुलिसपङ्क्तितः प्रारब्धा रैली नगरस्य विभिन्नमार्गान् अतिक्रम्य अगच्छत्। रैल्याः समये महिलापुलिसकर्मचारिणः अनुशासनपूर्वकं अग्रे अगच्छन्, यं दृष्ट्वा नगरवासिष्वपि उत्साहः दृश्यते स्म।

स्वातन्त्र्यदिवसात् पूर्वम् आयोजिता अनया रैल्या पुलिसविभागेन नारीसशक्तीकरणेन सह राष्ट्रियैकतां तथा देशभक्तेः भावनां सुदृढीकर्तुं सन्देशः प्रदत्तः।यात्रायां महिलापुलिसकर्मचारिणां महती सहभागिता आसीत्। कार्यक्रमे संयुक्तपुलिसायुक्तौ विपिनताडा तथा सङ्कल्पशर्मा, पुलिस उपायुक्तः दिनेशत्रिपाठी, अपरपुलिस उपायुक्ता स्नेहातिवारी इत्यादयः बहुसंख्याकाः पुलिसाधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्।

----------------

Hindusthan Samachar / Dheeraj Maithani