Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 15 अगस्तमासः (हि.स.)। देशस्य अष्टाशीतितमे स्वातन्त्र्यदिवसस्य अवसरे भारतीयजनतापक्षस्य राष्ट्रियाध्यक्षः नितिन नबीनः अद्य नवदिल्ल्यां स्थिते पक्षस्य मुख्यालये राष्ट्रियध्वजम् आरोहितवान्। अस्मिन् अवसरे पक्षस्य वरिष्ठाः नेतारः कार्यकर्तारश्च उपस्थिताः आसन्। ध्वजारोहणानन्तरं राष्ट्रभक्तिपूर्णे वातावरणे ‘वन्दे मातरम्’ इत्यस्य सामूहिकगानमपि अभवत्। कार्यक्रमे देशस्य एकतायाः अखण्डतायाश्च स्मरणं कुर्वद्भिः स्वातन्त्र्यसेनानीनां योगदानं स्मृतम् तथा राष्ट्रस्य प्रति समर्पणस्य सन्देशः प्रदत्तः।
---------------
Hindusthan Samachar / Dheeraj Maithani