Enter your Email Address to subscribe to our newsletters

रायपुरम्, 15 अगस्तमासः (हि.स.)।मुख्यमन्त्री विष्णुदेव सायः ८०तमस्य स्वातन्त्र्यदिवसस्य अवसरे राजधानी रायपुरनगरे पुलिसपरेडमैदाने आयोजिते मुख्यसमारोहे ध्वजारोहणं कृत्वा प्रदेशवासिभ्यः स्वातन्त्र्यदिवसस्य हार्दिकान् अभिनन्दनान् शुभकामनाः च अयच्छत्। मुख्यमन्त्री सायः अवदत् यत् प्रधानमन्त्री नरेन्द्रमोदिनः साहसिकेन नेतृत्वेन तथा केन्द्रीयगृहमन्त्रिणः अमितशाहस्य दृढेन सङ्कल्पेन नक्सलवादस्य विरुद्धे ऐतिहासिकं साफल्यं प्राप्तम् अस्ति। माओवादात् मुक्ते बस्तरे अधुना तिरङ्गायात्राभिः स्वातन्त्र्योत्सवः आचर्यते।
सः देशस्य स्वातन्त्र्यार्थं स्वसर्वस्वं समर्पितवन्तः महान् स्वातन्त्र्यसेनानीन् अमरशहीदान् च श्रद्धापूर्वकं नत्वा अवदत् यत् स्वातन्त्र्यदिवसः मातृभारत्याः वन्दनायाः, अस्माकं गौरवशालिनः इतिहासात् प्रेरणाग्रहणस्य तथा विकसितभारतस्य निर्माणार्थं सङ्कल्पं दृढतरं कर्तुं पावनः अवसरः अस्ति। मुख्यमन्त्री श्रीसायः महात्मागान्धिनः, नेताजीसुभाषचन्द्रबोसस्य, डॉ. भीमराव अम्बेडकरस्य तथा वीरसावरकरस्य सहितं स्वातन्त्र्यसङ्ग्रामस्य असंख्यानां सेनानीनां त्यागं बलिदानं च स्मृतवान्। सः छत्तीसगढस्य भूमौ स्वातन्त्र्यस्य स्वाभिमानस्य च जागरणं कृतवन्तः धरतीआबा भगवान् बिरसामुण्डा, शहीदवीरनारायणसिंहः, वीरगुण्डाधुरः, गेन्दसिंहः, धुरवारावः, यादव रावः, वेङ्कटरावः, डेबरीधुरः तथा आयतुमाहरः इत्यादीन् जननायकान् अपि श्रद्धापूर्वकं नत्वा अभिवादनम् अकरोत्।
मुख्यमन्त्री अवदत् यत् गोस्वामितुलसीदासस्य सन्देशः—‘पराधीन सपनेहुँ सुख नाहीं’, सन्तकबीरस्य वाणी तथा बाबागुरुघासीदासस्य ‘मनखे-मनखे एक समान’ इति उद्घोषः अस्मान् स्वातन्त्र्यस्य, समानतायाः तथा मानवीयगरिमायाः मूल्यानां निरन्तरं प्रेरणां ददाति। सः डॉ. श्यामाप्रसादमुखर्जीणः १२५तमस्य जयन्तीवर्षस्य उल्लेखं कुर्वन् तस्य राष्ट्रियैकतायाः सङ्कल्पं स्मृतवान्।
मुख्यमन्त्री श्रीसायः अवदत् यत् येषु क्षेत्रेषु कदाचित् हिंसाभयाभ्यां प्रभावितानि आसन्, तत्र अधुना शान्तेः, विश्वासस्य तथा विकासस्य नूतनः प्रभातः अभवत्। सः अवदत् यत् बस्तरस्य सर्वाङ्गीणप्रगतिः डबलइञ्जिनसर्वकारस्य सर्वोच्चप्राथमिकतासु अस्ति। जगदलपुरे राष्ट्रियस्तरस्य मध्यक्षेत्रीयपरिषदः २६तमस्य उपवेशनस्य आयोजनं परिवर्तमानस्य बस्तरस्य नूतनपरिचयस्य प्रतीकम् अस्ति। अधुना बस्तरस्य नवनिर्माणस्य स्वर्णिमः कालः अस्ति।
मुख्यमन्त्री सूचितवान् यत् ‘नियद नेल्ला नार २.०’ तथा ‘बस्तर मुन्ने अभियान’ इत्येतयोः माध्यमेन ३१ योजनानां तथा १४ सामुदायिकसुविधानां शतप्रतिशतं सेचुरेशनं सुनिश्चित्य बस्तरसम्भागस्य ३९ लक्षाधिकेभ्यः जनभ्यः योजनानां लाभः प्रदीयते। नक्सलहिंसायाः कारणेन बन्दानि विद्यालयानि पुनः प्रारभ्य ३६ नवीनविद्यालयानां स्वीकृतिः कृता अस्ति। ओरछा तथा जगरगुण्डा इत्यादिषु सुदूरक्षेत्रेषु शिक्षानगराणि विकसितानि क्रियन्ते।
‘मुख्यमन्त्री स्वस्थ बस्तर अभियान’ इत्यस्य अन्तर्गतं ३४ लक्षाधिकानां जनानां स्वास्थ्यपरीक्षणं कृत्वा स्वास्थ्यविवरणं सज्जीकृतम् अस्ति। प्रायः १० लक्षपरिवाराणाम् आयं वर्धयितुं ४,८२४ कोटिरूप्यकाणां ‘आजीविका उन्नयन योजना’ सज्जीकृता अस्ति। सुरक्षाशिबिराणि अधुना सेवायाः विकासस्य च केन्द्राणि भवन्ति तथा वीरगुण्डाधुरस्य ग्रामात् नेतानारतः प्रारब्धस्य ‘सेवा डेरा’ इत्यस्य माध्यमेन नागरिकसुविधानां, कौशलविकासस्य तथा उद्यमितायाः प्रोत्साहनं क्रियते।
मुख्यमन्त्री अवदत् यत् बस्तरे मार्गाणां, विद्युतः, परिवहनस्य तथा सञ्चारस्य सुदृढा आधारभूतसंरचना निर्मीयते। सौरशक्त्या ऊर्जीकृतानां ४६१ ग्रामाणां ग्रिड्-आधारितविद्युत्प्रणाल्या सह संयोजनस्य तथा २३४ आन्तरिकबस्तीनां मुख्यैः मार्गैः सह संयोजनस्य दिशि कार्यं प्रचलति। ‘मुख्यमन्त्री ग्रामीण बस सेवा’ इत्यस्य माध्यमेन बस्तरस्य तथा सरगुजासम्भागस्य ८१४ ग्रामेभ्यः सार्वजनिकपरिवहनस्य सुविधा प्राप्यते।
Hindusthan Samachar / Dheeraj Maithani