Enter your Email Address to subscribe to our newsletters

राष्ट्रसेवायै, सङ्घटननिर्माणाय जन-कल्याणाय च समर्पितं कुशाभाऊठाकरे-महोदयस्य सम्पूर्णं जीवनम् : मुख्यमन्त्री सायः
रायपुरम्, १५ अगस्तमासः (हि.स.)। मुख्यमन्त्री विष्णुदेवसायः अद्य शनिवासरे राजधानीरायपुरस्थिते मुख्यमन्त्रिनिवासे स्वर्गीयकुशाभाऊठाकरे-महोदयस्य जयन्त्यवसरे तस्य चित्रपटे माल्यार्पणं कृत्वा श्रद्धापूर्वकं नमनं कृतवान्। मुख्यमन्त्री ठाकरे-महोदयस्य व्यक्तित्वस्य कृतित्वस्य च स्मरणं कुर्वन् राष्ट्राय समाजाय च तेन कृतं योगदानं स्मृतवान्।
मुख्यमन्त्री सायः अवदत् यत् स्वर्गीयकुशाभाऊठाकरे-महोदयस्य सम्पूर्णं जीवनं राष्ट्रसेवायै, सङ्घटन-निर्माणाय जनकल्याणाय च समर्पितम् आसीत्। सरलता, अनुशासनम्, निष्ठा सेवाभावश्च तस्य व्यक्तित्वस्य विशिष्टाः परिचयाः आसन्। सः स्वस्य आचरणेन कार्यशैल्या च सार्वजनिक-जीवने उच्चादर्शान् स्थापितवान्।
मुख्यमन्त्री अवदत् यत् सः सङ्घटनं सुदृढं करणेन सह समाजस्य अन्तिमव्यक्ति-पर्यन्तं प्राप्य तस्य सेवां सर्वोच्चप्राथमिकतां दत्तवान्। एतदेव कारणं यत् अद्यापि तस्य जीवनं विचाराश्च सार्वजनिकजीवने कार्यं कुर्वतां जनानां कृते प्रेरणास्रोतांसि सन्ति।
मुख्यमन्त्री अवदत् यत् कुशाभाऊठाकरे-महोदयस्य जयन्ती अस्मभ्यं तस्य आदर्शेभ्यः जीवनमूल्येभ्यश्च प्रेरणां प्राप्तुं अवसरं प्रददाति। राष्ट्रहितं सर्वोपरि स्थापयित्वा जनकल्याणाय समर्पितभावेन कार्यं करणमेव तस्मै सच्चा श्रद्धाञ्जलिः भविष्यति।
मुख्यमन्त्री सायः स्वर्गीयकुशाभाऊठाकरे-महोदयाय विनम्रां श्रद्धाञ्जलिं समर्पयन् प्रदेशवासिभ्यः तस्य सेवायाः, समर्पणस्य राष्ट्रनिष्ठायाश्च आदर्शान् आत्मसात्कृत्य विकसितस्य समृद्धस्य च भारतस्य निर्माणे स्वकीयम् योगदानं दातुम् आह्वानं कृतवान्।
Hindusthan Samachar / Divya Ranjan