Enter your Email Address to subscribe to our newsletters




-आईजी-रामगोपाल-महोदयस्य सहितं 10 अधिकारिभ्यः भारतीयपुलिसपदकम्
रायपुरम्, 15 अगस्तमासः(हि.स.)।स्वतन्त्रतादिवसस्य 80तमे पावने अवसरे अद्य राजधान्यां रायपुरनगरे स्थिते पुलिसपथसंचलनक्षेत्रे आयोजिते गरिमामये राज्यस्तरीये मुख्यसमारोहे मुख्यमन्त्रिणः विष्णुदेवसाय-महोदयस्य करकमलैः छत्तीसगढ़पुलिसस्य नगरसेनायाः च अधिकारिणः जवानाः च तेषां कर्तव्यनिष्ठायै, असाधारणायै कार्यकुशलतायै, विशिष्टाभ्यः सेवाभ्यः च प्रतिष्ठितैः पदकैः राज्यस्तरीयैः पुरस्कारैः च अलङ्कृताः।
समारोहे रक्षितकेन्द्रधमतरी-संस्थायाः सहायकोपनिरीक्षकः रामावतारसिंहराजपूत-महोदयः स्वस्य 36 वर्षेभ्यः अधिकायै निष्ठावत्यै सेवायै, आधारभूतप्रशिक्षणे उत्कृष्टाय योगदानाय च देशस्य सर्वोच्चेन 'राष्ट्रपतेः विशिष्टसेवापदकेन-2026' सम्मानितः।
सराहनीयाभ्यः सेवाभ्यः, अपराधनियन्त्रणाय, कानून-व्यवस्थायै, आधुनिकनवाचारेभ्यः च भारतीयपुलिससेवायाः अधिकारिभिः सहितं कुलं 10 पुलिसकर्मिभ्यः 'सराहनीयसेवायै भारतीयपुलिसपदकम्-2026' प्रदत्तम्। अनेन पदकेन अलङ्कृतेषु पुलिसमहानिरीक्षकः बिलासपुर-रेंज् रामगोपाल-महोदयः (भा.पु.से.), वरिष्ठपुलिसाधीक्षकः रायगढ़ शशिमोहनसिंह-महोदयः (भा.पु.से.), पुलिसाधीक्षिका एटीएस् नवारायपुर राजश्रीमिश्र-महोदया (भा.पु.से.), पुलिसाधीक्षिका रायपुर-ग्रामीण श्वेताश्रीवास्तवसिन्हा-महोदया (भा.पु.से.), सेनानी 7तमवाहिन्याः छ.स.बलस्य भिलाई निवेदितापॉल-महोदया, सेनानी 20तमवाहिन्याः छ.स.बलस्य महासमुन्द मनीषाठाकुररावटे-महोदया, पुलिसोपायुक्तः रायपुर तारकेश्वरपटेल-महोदयः, अतिरिक्तपुलिसाधीक्षिका विशेषासूचनाशाखायाः नवारायपुर उनैजाखातूनअंसारी-महोदया, सहायकसेनानी प्रथमवाहिन्याः छ.स.बलस्य भिलाई जयलालमरकाम-महोदयः, प्लाटून्कमाण्डर् 20तमवाहिन्याः छ.स.बलस्य महासमुन्द हज़ारीलालसाहू-महोदयः च समाविष्टाः सन्ति।
आपदाप्रबन्धने, राहतकार्येषु, जनसेवायां च अद्वितीयां भूमिकां निर्वहणाय नगरसेनायाः राजनांदगांव-नायकः उत्तमकुमारसाहू-महोदयः शिवनाथनद्यां बाढ़बचावकार्यार्थं तथा नगरसेनायाः रायपुर-लांसनायकः जोगेश्वरकुमारधीवर-महोदयः उत्कृष्टाय गोताखोरिप्रशिक्षणकार्याय च 'गृहरक्षकनागरिकसुरक्षासराहनीयसेवापदकेन-2026' सम्मानितौ।
दुर्बलवर्गाणां, अनुसूचितजाति-जनजातेः, महिलाबालसुरक्षायाः च क्षेत्रे उत्कृष्टं कार्यं कुर्वतां पुलिसाधिकारिणां वर्षस्य 2025 राज्यस्तरीयैः पुलिसमहानिदेशकपुरस्कारैः च सम्मानः कृतः। अनेन जांजगीर-चांपा-संस्थायाः सहायकोपनिरीक्षकः श्रीरामेश्वरप्रसादयादव-महोदयः 'गुरुघासीदासपुरस्कारेण' (50 सहस्ररूप्यकाणां नगदं बिलासपुर-रेंज्-कृते रनिंग्-शील्ड् च) सम्मानितः। दुर्बलवर्गाणां महिलाबालसंरक्षणस्य च क्षेत्रे उल्लेखनीयाय योगदानाय रायपुर-निरीक्षिका अर्चनाधुरन्धर-महोदया 'राज्यपालपुरस्कारेण' 'रानीसुबरनकुंवरपुरस्कारेण' च (प्रत्येके 50 सहस्ररूप्यकाणि नगदं रायपुर-रेंज्-कृते रनिंग्-शील्ड् च) अलङ्कृता। गरियाबन्द-अनुविभागीयाधिकारिणी (पुलिस) निशासिन्हा-महोदया पीड़ितेभ्यः त्वरितन्यायदापनाय 'मुख्यमन्त्रिपुरस्कारेण' (50 सहस्ररूप्यकाणि नगदं रायपुर-रेंज्-कृते रनिंग्-शील्ड् च), अजाक्-थाना-बिलासपुर-निरीक्षकः उत्तमसाहू-महोदयः उत्कृष्टाय थानासंचालनाय 'शहीदवीरनारायणसिंहपुरस्कारेण' (50 सहस्ररूप्यकाणि नगदं बिलासपुर-रेंज्-कृते रनिंग्-शील्ड् च) तथा उपपुलिसाधीक्षकः (अजाक्) बिलासपुर डी.आर्.टण्डन्-महोदयः 'पुलिसमहानिदेशकपुरस्कारेण' (25 सहस्ररूप्यकाणि नगदं प्रशंसापत्रं च) सम्मानितः।
समारोहे अतिरिक्तपुलिसमहानिदेशकस्य विवेकानन्द-महोदयस्य (भा.पु.से.) सम्पूर्णप्रभारे नगरपुलिसाधीक्षकस्य दर्री (कोरबा) विमलकुमारपाठक-महोदयस्य (भा.पु.से.) च नेतृत्वे भव्या परेड आयोजिता। परेड्-कार्यक्रमे केन्द्रियार्धसैनिकबलैः, छत्तीसगढ़सशस्त्रबलेन, जनपदपुलिसबलेन, कारागारपुलिसेन, नगरसेनया, एन्.सी.सी. विशेषशाखाभिः च टुकड्याः अनुशासितं आकर्षकं च मार्च्-पास्ट् प्रस्तुतवत्यः।
Hindusthan Samachar / Divya Ranjan