अनेकवंशानाम् आत्मबलिदानेन प्राप्तं स्वातन्त्र्यम्, विकसितभारतस्य निर्माणस्य सङ्कल्पं कुर्मः - दत्तात्रेय-होसबोले
कोलकाता, १५ अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवसस्य अवसरे शनिवासरे कोलकातानगरे स्थिते राष्ट्रीयस्वयं-सेवकसङ्घस्य मुख्यालये केशव-भवने राष्ट्रध्वजः उत्तोलितः। सङ्घस्य सरकार्यवाहः दत्तात्रेय-होसबोले प्रातः प्रायः सार्धसप्तवादने ध्वजारोहणं कृतवान्। अस्म
केशव भवन में ध्वजारोहण के बाद संबोधन करते दत्तात्रेय होशबोले


कोलकाता, १५ अगस्तमासः (हि.स.)। स्वातन्त्र्यदिवसस्य अवसरे शनिवासरे कोलकातानगरे स्थिते राष्ट्रीयस्वयं-सेवकसङ्घस्य मुख्यालये केशव-भवने राष्ट्रध्वजः उत्तोलितः। सङ्घस्य सरकार्यवाहः दत्तात्रेय-होसबोले प्रातः प्रायः सार्धसप्तवादने ध्वजारोहणं कृतवान्। अस्मिन् अवसरे सङ्घस्य स्वयंसेवकैः सामूहिकरूपेण ‘वन्दे मातरम्’ इति घोषः कृतः तथा राष्ट्रगानं प्रस्तुतम्।

कार्यक्रमे सङ्घस्य पूर्वक्षेत्रस्य सङ्घचालकः डॉ. जयन्त-राय-चौधरी, सहसरकार्यवाहः रामदत्त-चक्रधरः, पूर्व-क्षेत्रस्य कार्यवाहः दुर्गाप्रसाद-साहू तथा पूर्वक्षेत्रीयसम्पर्कप्रमुखः डॉ. जिष्णु-बसुः इत्यादयः सङ्घस्य विभिन्नस्तरीयाः पदाधिकारिणः स्वयंसेवकाश्च उपस्थिताः आसन्। राममन्दिर-आन्दोलनस्य समये बलिदानं दत्तवतोः राम-शरद-कोठारी-भ्रात्रोः भगिनी पूर्णिमा-कोठारी अपि कार्यक्रमे उपस्थिताऽभवत्।

स्वीयसम्बोधने दत्तात्रेय-होसबोले स्वातन्त्र्यदिवसं कोटिशः भारतीयानां कृते गौरवस्य प्रेरणायाश्च दिवसः इति वर्णितवान्। तेन उक्तं यत् देशं शतशः वर्षाणां पराधीनतायाः मुक्तं कर्तुं पूर्ववंशै: दीर्घः सङ्घर्षः कृतः तथा अनेकानि बलिदानानि प्रदत्तानि। स्वातन्त्र्यं केवलम् उपलब्धिः नास्ति, अपितु तस्य संरक्षणं सुदृढीकरणं च वर्तमानवंशस्य दायित्वमपि अस्ति।

होसबोले उक्तवान् यत् भारतस्य एकता, अखण्डता सांस्कृतिकवैभवं च अक्षुण्णं भवेत्, एतदर्थं प्रत्येकं नागरिकं सङ्कल्पपूर्वकं कार्यं कर्तव्यम्। तेन देशस्य सांस्कृतिकपरिचयस्य गौरवस्य च संरक्षणेन सह राष्ट्रनिर्माणे सक्रियसह-भागितायाः आह्वानं कृतम्।

तेन प्रधानमन्त्रिणा नरेन्द्र-मोदिना निर्धारितस्य विकसितभारतस्य लक्ष्यस्य उल्लेखं कृत्वा उक्तं यत् विकसितभारतं केवलं प्रधानमन्त्रिणः स्वप्नं न, अपितु कोटिशः भारतीयानां सामूहिकं लक्ष्यं भवेत्। एतत् लक्ष्यं प्राप्तुं समाजस्य प्रत्येकवर्गेण स्वीयां भूमिकां निर्वहता देशस्य विकासाय निरन्तरं कार्यं कर्तव्यम्।

सङ्घस्य सरकार्यवाहेन उक्तं यत् भारतं विश्वपटलस्य वैभवशालिरूपेण सामर्थ्य-सम्पन्नराष्ट्ररूपेण च उदेतुं तथा सम्पूर्णस्य विश्वस्य नेतृत्वस्य क्षमता प्राप्नुयात्, एतदर्थं सर्वैः मिलित्वा प्रयासः करणीयः। तेन उक्तं यत् स्वातन्त्र्यदिवसः देशस्य उपलब्धीनां स्मरणेन सह भविष्याय सङ्कल्पग्रहणस्य अवसरः अपि अस्ति।

स्वीयसम्बोधने होसबोले स्वातन्त्र्य-सङ्ग्रामस्य वीरान् राष्ट्राय स्वजीवनं समर्पितवन्तः बलिदानिनश्च श्रद्धापूर्वकं स्मृतवान्। तेन उक्तं यत् देशस्य एकतां अखण्डतां च सुदृढां स्थापयितुं प्रत्येकस्य नागरिकस्य कर्तव्यम् अस्ति। तेन ऋषेः अरविन्दस्य जयन्त्याः महत्त्वस्य उल्लेखं कृत्वा राष्ट्रनिर्माणे स्वीय-दायित्वानां निर्वहणाय आह्वानं कृतम्।

कार्यक्रमस्य अन्ते दत्तात्रेय-होसबोले राष्ट्रीयस्वयंसेवकसङ्घस्य पक्षतः देशवासिभ्यः स्वातन्त्र्यदिवसस्य शुभ-कामनाः अर्पितवान् तथा सर्वेभ्यः भारतीयेभ्यः एकतया राष्ट्रनिर्माणे सहभागीभवितुम् आह्वानं कृतवान्। तेन उक्तं यत् भारतस्य नीतिः ‘वसुधैव कुटुम्बकम्’ इति एव आसीत् तथा सम्पूर्णस्य विश्वस्य कल्याणाय देशः सङ्कल्पबद्धः भवेत्—एवम् अस्य दिवसस्य लक्ष्यं भवेत्।

Hindusthan Samachar / Divya Ranjan