Enter your Email Address to subscribe to our newsletters

गुवाहाटी, 15 अगस्तमासः (हि.स.)।राजभाषायाः हिन्दीभाषायाः प्रभावीप्रयोगे, सक्रियप्रचारप्रसारे तथा कार्यालयीयकार्याणां मुख्यतया हिन्दीभाषया निष्पादने उल्लेखनीययोगदानस्य कृते भारतसर्वकारस्य रेलमन्त्रालयेन ‘हिन्दी राष्ट्रियपुरस्कारः’ प्रदत्तः। अयं सम्मानः पूर्वोत्तरसीमान्तरेलवे (पूसीरे) निर्माणसङ्गठनस्य मालीगावस्थानकस्य पूर्वोपवित्तीयसलाहकारवरिष्ठमुख्यलेखाधिकारिणे तथा एम.डी. जेड.टी.आई. अलीपुरद्वारस्य वरिष्ठातिथिव्याख्यात्रे दीपकबिस्वासाय प्राप्तः। अस्मिन् पुरस्कारेण सह तस्मै ३,००० रूप्यकाणां धनराशिरपि प्रदत्ता।
भारतस्य असीतमस्वातन्त्र्यदिवसस्य अवसरे पूसीरे निर्माणसङ्गठने आयोजिते कार्यक्रमे महाप्रबन्धकेन मालीगावेन आशीषबंसलेन दीपकबिस्वासाय अयं सम्मानः प्रदत्तः। अस्मिन् अवसरे मुख्यप्रशासनिकाधिकारी अञ्जनीकुमारः, हितेन्द्रगोयलः, सुरेशकुमारसापडा इत्यादयः कार्यालयस्य अनेके वरिष्ठाधिकारिणः कर्मचारिणश्च उपस्थिताः आसन्।
समारोहे राजभाषायाः हिन्दीभाषायाः प्रति दीपकबिस्वासस्य प्रतिबद्धतायाः, कार्यदक्षतायाः, निष्ठायाः सक्रियसहयोगस्य च प्रशंसा कृता। अयं राष्ट्रियपुरस्कारः भारतीयरेलविभागे राजभाषायाः प्रचारस्य प्रभावीकार्यान्वयनस्य च क्षेत्रे महत्त्वपूर्णोपलब्धिः इति मन्यते।
उल्लेखनीयं यत् दीपकबिस्वासः प्रख्यातस्य पूर्वराष्ट्रियव्यापारसंघनेतुः स्वर्गीयज्योतिर्मयबिस्वासस्य ज्येष्ठपुत्रः अस्ति। तस्य अस्याः सफलतायाः कृते सहकारिभिः शुभचिन्तकैश्च तस्मै अभिनन्दनानि शुभकामनाश्च प्रदत्तानि।
महाप्रबन्धकः आशीषबंसलः तस्य उपलब्धेः प्रशंसां कुर्वन् अवदत् यत् एषा सफलता भविष्ये अन्यान् सर्वकारीयकर्मचारिणः अधिकारिणश्च दैनिककार्येषु हिन्दीभाषायाः प्रयोगं वर्धयितुं प्रेरयिष्यति।
अन्ते दीपकबिस्वासः स्वस्य अस्याः व्यक्तिगतसफलतायाः श्रेयः भारतीयरेलवे-दिल्लीनगरम्, स्वस्य पूर्वकार्यस्थलं पूर्वोत्तरसीमान्तरेलवे निर्माणसङ्गठनं मालीगावम्, रेलमन्त्रालयं भारतसर्वकारं तथा सर्वान् कार्मिकसङ्गठनान् प्रदाय तेषां प्रति हार्दिकं कृतज्ञतां प्रकटितवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani