Enter your Email Address to subscribe to our newsletters

रायपुरम्, 15 अगस्तमासः (हि.स.)।मुख्यमन्त्री श्रीसायः अवदत् यत् अन्नदातारः अस्माकं भाग्यविधातारः सन्ति तथा तेषां सुखं, सम्मानं समृद्धिं च सर्वकारस्य सर्वोच्चप्राथमिकता अस्ति। कृषकेभ्यः ३,१०० रूप्यकाणां प्रतिक्विण्टलमूल्येन प्रतिएकरं २१ क्विण्टलपरिमित्या धान्यं क्रियते। ‘कृषक उन्नति योजना’ इत्यस्य धनराशेः एकमुष्टिप्रदायनं होलिकोत्सवात् पूर्वं कृतम्।
मुख्यमन्त्री विष्णुदेवसायः ८०तमस्य स्वातन्त्र्यदिवसस्य अवसरे राजधानी रायपुरनगरे पुलिसपरेडमैदाने आयोजिते मुख्यसमारोहे ध्वजारोहणानन्तरं स्वसम्बोधने एताः उक्तीः उक्तवान्। सः अवदत् यत् सर्वकारः फसलविविधीकरणमपि प्रोत्साहयति। धानस्य स्थाने दलहनानि, तिलहनानि, मक्का, कोदो, कुटकी तथा रागी इत्यादीनां फसलानां उत्पादनं कृत्वा ‘कृषक उन्नति योजना’ इत्यस्य अन्तर्गतं १५,००० रूप्यकाणां आदानसहायतां प्रदातुं निर्णयः कृतः। वैश्विकानिश्चिततायाः स्थितावपि कृषकेभ्यः उर्वरकबीजानां च उपलब्धता सुनिश्चिताकृता।
प्रधानमन्त्री श्रीनरेन्द्रमोदिनः ‘सहकार से समृद्धि’ इति संकल्पनायाः अनुरूपं प्रदेशस्य २,०२८ पैक्स्-संस्थानां सङ्गणकीकरणं पूर्णं कृतम् अस्ति तथा एतेषु १,९८८ पैक्स्-संस्थाः सामान्यसेवाकेन्द्ररूपेण अपि सेवाः प्रददति।
मुख्यमन्त्री अवदत् यत् पूर्वप्रधानमन्त्री भारतरत्नम् अटलबिहारीवाजपेयीस्य नदीनां संयोजनस्य विचारं अग्रे नयन् ‘सिकासार-कोडार नहर लिङ्किङ परियोजना’ इत्यस्य कृते ३,०४७ कोटिरूप्यकाणां प्रशासकीयस्वीकृतिः प्रदत्ता अस्ति। प्रदेशे सिञ्चनसुविधानां विस्ताराय ११,००० कोटिरूप्यकेभ्यः अधिकस्य धनराशेः स्वीकृतिः प्रदत्ता अस्ति। ‘अटल सिञ्चन योजना’ इत्यस्य माध्यमेन बन्दाः सिञ्चनपरियोजनाः पुनरुज्जीव्यन्ते। इन्द्रावतीनद्यां प्रायः २,००० कोटिरूप्यकाणां व्ययेन मटनार तथा देउरगांव इत्यत्र बैराज्-निर्माणं करिष्यते, येन ३२,००० हेक्टेयरपरिमिते क्षेत्रे सिञ्चनसुविधा उपलब्धा भविष्यति।
मुख्यमन्त्री तेन्दूपत्त्रसङ्ग्राहकाणां हिताय गृहीतानां पदक्षेपाणाम् उल्लेखं कुर्वन् अवदत् यत् तेभ्यः प्रतिमानकबोरं ५,५०० रूप्यकाणां पारिश्रमिकं प्रदीयते तथा ‘चरणपादुका योजना’ पुनः प्रारब्धा अस्ति।
मुख्यमन्त्री श्रीसायः अवदत् यत् ‘मोदी की गारंटी’ इत्यस्य अनुरूपं प्रत्येकस्मै आवश्यकताग्रस्तपरिवाराय पक्कं गृहम् उपलब्धं कर्तुं सर्वकारः तीव्रगत्या कार्यं करोति। मन्त्रिमण्डलस्य प्रथमोपवेशने १८ लक्षगृहाणां स्वीकृतेः अनन्तरम् अधुना यावत् २४ लक्ष ५० सहस्रगृहाणां स्वीकृतिः कृता अस्ति। प्रदेशे प्रतिदिनं सरासरिरूपेण १,६०० गृहाणां निर्माणं क्रियते।
सः अवदत् यत् ‘प्रधानमन्त्री गरीब कल्याण अन्न योजना’ तथा ‘मुख्यमन्त्री खाद्यान्न सहायता योजना’ इत्येतयोः माध्यमेन ७३ लक्षपरिवाराणां कृते निःशुल्कं खाद्यान्नं प्रदीयते।
मुख्यमन्त्री अवदत् यत् ‘महतारी वन्दन योजना’ इत्यस्य माध्यमेन महिलाः आर्थिकरूपेण सशक्ताः कृताः सन्ति। योजनायाः अन्तर्गतं अद्यावधि १९,४४४ कोटिरूप्यकाणि महिलानां खातेषु अन्तरितानि सन्ति। प्रदेशे १३ लक्ष ८५ सहस्रं महिलाः ‘लखपति दीदी’ इति श्रेणीं प्राप्तवत्यः सन्ति।
सः अवदत् यत् ‘प्रधानमन्त्री जनमन योजना’ इत्यस्य माध्यमेन ५६ सहस्राधिकेभ्यः पीवीटीजी-परिवारेभ्यः मूलभूतसुविधाः प्राप्ताः सन्ति, अपरत्र ६,६९१ जनजातिबहुलग्रामेषु ‘धरती आबा जनजातीय ग्राम उत्कर्ष अभियान’ इत्यस्य लाभः प्रदीयते। वनाधिकारपत्रवितरणे छत्तीसगढस्य अग्रणीभूमिकायाः उल्लेखं कुर्वन् मुख्यमन्त्री अवदत् यत् उत्तराधिकारिणां पट्टानां नामान्तरणस्य प्रक्रिया प्रारब्धा अस्ति। पेसा-कानूनस्य प्रभाविप्रवर्तनाय कार्यदलस्य गठनं कृतम् अस्ति।
मुख्यमन्त्री श्रीसायः स्वामीविवेकानन्दस्य युवशक्तौ विश्वासं स्मरन् अवदत् यत् विकसितछत्तीसगढस्य निर्माणे युवानां सहभागितां वर्धयितुं रोजगारस्य, शिक्षायाः, कौशलस्य, क्रीडायाः तथा नवाचारस्य नूतनाः अवसराः सृज्यन्ते। तृतीयचतुर्थश्रेणीपदानां नियुक्त्यर्थं ‘छत्तीसगढ कर्मचारी चयन मण्डल’ इति संस्थायाः गठनं कृतम् अस्ति तथा परीक्षासु नकलं अनुचितसाधनानां प्रयोगं च निवारयितुं कठोरः कानूनः पारितः अस्ति।
मुख्यमन्त्री सूचितवान् यत् पुलिसविभागे ७,००० यूनां नियुक्तिः कृता अस्ति। शिक्षकाणां सहायकशिक्षकाणां च ३,९४६ पदेषु तथा विद्युत्कम्पनीषु १,२३५ पदेषु नियुक्तेः प्रक्रिया अग्रे वर्ध्यते। नीट्, जेईई, क्लैट्, रेल्वे, एसएससी, बैङ्किङ्ग, पीएससी तथा यूपीएससी इत्यादीनां प्रतियोगिपरीक्षाणां सिद्धतायै ‘सीजी असिस्टेन्स फॉर कॉम्पिटिटिव एक्जाम योजना’ प्रारभ्यते। चतुर्वर्षीयां सैन्यसेवां पूर्णवन्तः छत्तीसगढस्य अग्निवीराः पुलिसआरक्षकस्य, वनरक्षकस्य तथा कारागारप्रहरीणां प्रत्यक्षनियुक्तौ १० प्रतिशतं आरक्षणं प्राप्स्यन्ति इति निर्णयः अपि कृतः।
Hindusthan Samachar / Dheeraj Maithani