सर्वकारः एकस्मिन्वर्षे 1 कोटिसंख्यकयुवभ्यः एआई कौशलस्य दास्यते प्रशिक्षणम् : प्रधानमंत्री मोदी
नवदिल्ली, 15 अगस्तमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे लालदुर्गस्य प्राचीरतः उद्घोषितवान् यत् सर्वकारः आगामीवर्षे देशस्य एककोटियुवभ्यः कृत्रिमबुद्धिमत्तायाः कौशलप्रशिक्षणं प्रदास्यति। अस्याः योजनायाः उद्देश्यं भारतीययुवानः वैश्विकस्तरे
लालकिले से 80वें स्वतंत्रता दिवस के अवसर देशवासियों को संबोाधित करते प्रधानमंत्री मोदी


नवदिल्ली, 15 अगस्तमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे लालदुर्गस्य प्राचीरतः उद्घोषितवान् यत् सर्वकारः आगामीवर्षे देशस्य एककोटियुवभ्यः कृत्रिमबुद्धिमत्तायाः कौशलप्रशिक्षणं प्रदास्यति। अस्याः योजनायाः उद्देश्यं भारतीययुवानः वैश्विकस्तरे कृत्रिमबुद्धिमत्तायाः नेतृत्वाय सज्जीकर्तुम् अस्ति।

देशस्य अष्टाशीतितमे स्वातन्त्र्यदिवसस्य अवसरे लालदुर्गस्य प्राचीरतः राष्ट्रं सम्बोधयन् प्रधानमन्त्री नरेन्द्रमोदी विकसितभारतस्य संकल्पनायाः साकाररूपप्रदाने देशस्य युवानां भूमिकायां बलं दत्तवान्। मोदी उक्तवान् यत् आगामीवर्षे एककोटियुवभ्यः कृत्रिमबुद्धिमत्तायाः कौशलप्रशिक्षणं प्रदास्यते। युवभ्यः कृत्रिमबुद्धिमत्तायाः प्रशिक्षणेन सह विभिन्नानां प्रतियोगितापरीक्षाणां सज्जतायै निःशुल्कं अन्तर्जालीयप्रशिक्षणमपि प्रदास्यते।

मोदी उक्तवान् यत् सर्वकारस्य अस्याः योजनायाः उद्देश्यं भारतीययुवानः वैश्विकस्तरे कृत्रिमबुद्धिमत्तायाः नेतृत्वाय सज्जीकर्तुम् अस्ति। सः उक्तवान् यत् अस्माकं लक्ष्यं भवेत् यत् पञ्चाशत् भारतीयकम्पन्यः ‘फॉर्च्यून पञ्चशत्’ संस्थासु समाविष्टाः भवेयुः। सः अग्रे उक्तवान् यत् भारतं हरितान्दोलनं सुदृढं कुर्वन् अस्ति।

प्रधानमन्त्री मोदी उक्तवान् यत् भारतस्य स्थिरं राजनैतिकजनादेशः, स्थिरं शासनम्, जीवन्तं लोकतन्त्रम्, सुदृढा न्यायव्यवस्था तथा अस्मान् मार्गदर्शयितुं संविधानं च विद्यन्ते। सः उक्तवान् यत् अस्माभिः रक्षाक्षेत्रे आत्मनिर्भराः भवितव्यम्। आगामीपीढ्याः रक्षाप्रौद्योगिक्याः लाभं स्वीकृत्य अस्माभिः वैश्विकआपूर्तिकर्तृराष्ट्रं भवितव्यम्।

प्रधानमन्त्री उक्तवान् यत् भारतं विश्वस्य कृते स्वकीयां विपणिव्यवस्थां पिधातुं न शक्नोति। अस्माभिः गुणवत्तापूर्णानां वस्तूनां उत्पादनं कर्तव्यम्। सः उक्तवान् यत् विश्वेन अनुभूतं यत् रक्षाक्षेत्रे आत्मनिर्भरस्य भारतस्य अन्यः विकल्पः नास्ति।

प्रधानमन्त्री उक्तवान् यत् डिजिटलसार्वजनिकप्रौद्योगिकीनां लाभः विश्वस्य प्रत्येकस्मिन् कोणे प्रापयितव्यः। भारतनिर्मितं षष्ठपीढीसम्बद्धं सञ्चारतन्त्रं सम्पूर्णविश्वे प्रापयितुं लक्ष्यं भवेत्। सः उक्तवान् यत् भारतं प्रौद्योगिक्याः नवोन्मेषस्य च विषये विशेषं ध्यानं ददाति, यस्य अन्तर्गतं दत्तांशकेन्द्राणि प्रयोगशालाश्च स्थापिताः सन्ति।

मोदी उक्तवान् यत् विश्वस्य विपणयः अस्माकं कृषकेभ्यः उद्घाटिताः सन्ति। भारतीयकृषिउत्पादानां वैश्विकब्राण्डरूपेण प्रतिष्ठा कारयितव्या। गुणवत्तायाः विषये किमपि सम्झौतं न करणीयम्। अस्माकं मन्त्रः भवेद् ‘गुणवत्ता। ’

---------------

Hindusthan Samachar / Dheeraj Maithani