जन्मजात बधिरबालानां चिकित्सायै यथासंभवा सहायता-उप मुख्य मंत्री शिन्दे
मुंबई ,15 अगस्तमासः (हि. स.) । ठाणे महानगरपालिकया धनराशेः सहाय्यं प्रदाय डॉ. प्रदीप उप्पलस्य कर्णनासाकण्ठशल्यचिकित्सकस्य निर्देशनं कोक्लियर इम्प्लान्ट् शल्यक्रिया सफलतापूर्वकं सम्पन्ना कृता। शुक्रवासरे १४ अगस्त्-दिनाङ्के उपमुख्यमन्त्री एकनाथशिन्द
टीएमसी के कार्यक्रम में उप मुख्य मंत्री शिन्दे ने जन्मजात बधिर बच्चों के इलाज हेतू मदद के लिए हाथ बढ़ाया


मुंबई ,15 अगस्तमासः (हि. स.) ।

ठाणे महानगरपालिकया धनराशेः सहाय्यं प्रदाय डॉ. प्रदीप उप्पलस्य कर्णनासाकण्ठशल्यचिकित्सकस्य निर्देशनं कोक्लियर इम्प्लान्ट् शल्यक्रिया सफलतापूर्वकं सम्पन्ना कृता। शुक्रवासरे १४ अगस्त्-दिनाङ्के उपमुख्यमन्त्री एकनाथशिन्देः उपस्थितौ हर्षोत्सवः जनजागरणकार्यक्रमश्च आयोजितः।

राज्यस्य उपमुख्यमन्त्री तथा ठाणे-जनपदस्य पालकमन्त्री शिन्देः आश्वासनं दत्तवान् यत् जन्मतः श्रवणविहीनानां बालकानां कोक्लियर इम्प्लान्ट् शल्यक्रियायै धनराशेः अभावं विना सर्वसम्भवसहायता प्रदास्यते। कार्यक्रमे ठाणे-महापौरः शर्मिला पिम्पोलकरः, उपमहापौरः कृष्णा पाटिलः, सभानेता हनमन्त जगदाले, विपक्षनेता अशरफ यू शानू पठानः, शिवसेनासमूहनेता पवन कदमः, अतिरिक्तायुक्तः प्रशान्त रोडे, उपायुक्तः जी.जी. गोडेपुरे, दीपक जिंजडः, मुख्यचिकित्सास्वास्थ्याधिकारी डॉ. प्रसाद पाटिलः, डॉ. रानी शिन्दे, चिकित्सासहायतानिधेः मंगेश चिवटे, ज्यूपिटर-रुग्णालयस्य डॉ. प्रदीप उप्पलः, डॉ. उमा उप्पल, दिव्याङ्गकलाकेन्द्रस्य किरण नकटी तथा येषां बालकानां श्रवणशल्यक्रिया कृता, ते बालकाः तेषां मातापितरश्च उपस्थिताः आसन्।

ठाणे महानगरपालिकया शुक्रवासरे सायंकाले आयोजिते अस्मिन् कार्यक्रमे उपमुख्यमन्त्री शिन्देः कोक्लियर इम्प्लान्ट्-शल्यक्रियया नवजीवनं प्राप्तवन्तः बालकान् तेषां अभिभावकांश्च हृदयपूर्वकं अभिनन्दितवान्। सः अवदत् यत् बालकानां मुखेषु प्रसन्नता तथा मातापितॄणां नेत्रयोः दृश्यते हर्षः एव अस्य कार्यस्य सर्वाधिकं साफल्यम् अस्ति। सः अपि अवदत् यत् शल्यक्रियायै धनराशेः कदापि अभावः न भविष्यति। येषां बालकानां चिकित्सायाः आवश्यकता अस्ति, तेषां सूची सज्जीकरणीया। यदि धनस्य, सुविधानां अथवा अन्यस्य कस्यचित् साहाय्यस्य आवश्यकता भविष्यति, तर्हि सर्वकारः ठाणे महानगरपालिका च दृढतया भवद्भिः सह स्थास्यतः।

सः अवदत् यत् अल्पवयसि एव श्रवणविहीनानां बालकानां चिकित्सा क्रियते चेत् शतप्रतिशतं प्रभावी लाभः प्राप्तुं शक्यते। अतः एतादृशानां बालकानां समये एव परिचयः करणीयः तथा चिकित्सायाः विस्तारः करणीयः इति अत्यावश्यकम् अस्ति।

अस्मिन् अवसरे डॉ. प्रदीप उप्पलेन शल्यक्रियाम् अनुभवितवतां बालकानां विषये एकं नाटकम् अपि प्रस्तुतम्। अस्य नाटकस्य माध्यमेन यदा कश्चित् श्रवणविहीनः बालकः जायते, तदा मातापितरौ तस्य स्थितिं ज्ञात्वा यां मानसिकां समस्यां सम्मुखीकुरुतः, शल्यक्रियायै सहाय्यं प्राप्तुं येषां कठिनतानां सामना कर्तव्यः भवति, तथा सर्वकारात् प्राप्तेन धनेन सफलशल्यक्रियायाः अनन्तरं यदा बालकः सामान्यबालकवत् श्रवणं कर्तुं भाषितुं च प्रारभते, तदा परिवारे उत्पद्यमानः अपरिमितः हर्षः च नाटकरूपेण प्रदर्शितः।

उपमुख्यमन्त्री एकनाथशिन्देः अवदत् यत् चिकित्सोपचारस्य साथं बालकानां प्रतिभायै मञ्चं प्रदातुम् अपि महती समाजसेवा अस्ति। सः दिव्याङ्गकलाकेन्द्रस्य किरण नकटी इत्यस्याः अपि प्रशंसाम् अकरोत्। सः आश्वासनं दत्तवान् यत् भविष्ये अधिकाधिकान् बालकान् प्रति सेवां विस्तारयितुं सर्वकारस्य माध्यमेन सर्वप्रकारस्य आवश्यकसहायता प्रदास्यते।

अस्मिन् अवसरे दिव्याङ्गकलाकेन्द्रस्य ‘कलाकाराणां खोजः, दिव्याङ्गानां कलाकृतिः’ इति पहलस्य उद्घाटनमपि उपमुख्यमन्त्रिणा एकनाथशिन्देन कृतम्।

---------------

Hindusthan Samachar / Dheeraj Maithani