राजनांदगांवनगरे हर्षोल्लासेन आचरितः स्वतन्त्रतादिवसः, विधानसभाध्यक्षः डॉ. रमनसिंह-महोदयेन कृतं ध्वजारोहणम्
राजनांदगांवनगरम्, 15 अगस्तमासः (हि.स.)। राजनांदगांवजनपदे स्वतन्त्रतादिवसस्य पर्व अभूतपूर्वेण उत्साहेन उल्लासेन च आचरितम्। अस्मिन् अवसरे शौर्य पथसंचलनक्षेत्रे, पुलिसप्रशिक्षणविद्यालये आयोजिते जनपदस्तरीये मुख्यसमारोहे मुख्यातिथिः विधानसभाध्यक्षः डॉ.
राजनांदगांव में विधानसभा अध्यक्ष डॉ. रमन सिंह ने ध्वजारोहण कर परेड की सलामी ली


राजनांदगांव में विधानसभा अध्यक्ष डॉ. रमन सिंह ने ध्वजारोहण कर परेड की सलामी ली


राजनांदगांवनगरम्, 15 अगस्तमासः (हि.स.)। राजनांदगांवजनपदे स्वतन्त्रतादिवसस्य पर्व अभूतपूर्वेण उत्साहेन उल्लासेन च आचरितम्। अस्मिन् अवसरे शौर्य पथसंचलनक्षेत्रे, पुलिसप्रशिक्षणविद्यालये आयोजिते जनपदस्तरीये मुख्यसमारोहे मुख्यातिथिः विधानसभाध्यक्षः डॉ. रमनसिंह-महोदयः ध्वजारोहणं कृत्वा पथसंचलनस्य सैन्यप्रणामं गृहीतवान्, उल्लासस्य प्रतीकान् वायुपूरितगोलकान् आकाशे च त्यक्तवान्।

समारोहे राष्ट्रगीतस्य वन्देमातरम् राष्ट्रगानस्य जनगणमन इत्यस्य च गायनानन्तरं कलेक्टर् जितेन्द्रयादव-महोदयः मुख्यमन्त्रिणः विष्णुदेवसाय-महोदयस्य सन्देशस्य वाचनं कृतवान्। अस्मिन् काले विधानसभाध्यक्षः उत्कृष्टं कार्यं कुर्वताम् अधिकारि-कर्मचारिणां सहैव बलिदानिनां जवानानां परिजनान् उत्तरीयेन श्रीफलेन च सम्मानितवान्।

रक्षितनिरीक्षकस्य लोकेशकुमारकंवर-महोदयस्य कुशलेन नेतृत्वेन आयोजितायां भव्ये पथसंचलने 15 प्लाटूनैः भागं गृहीत्वा त्रिवर्णध्वजाय सैन्यप्रणामः दत्तः। पथसंचलनप्रतियोगितायाः आर्म्स्-प्लाटून्-वर्गे 38तमबटालियन् आईटीबीपी-संस्था प्रथमं जनपदपुलिसबलं (पुरुषवर्गः) च द्वितीयं स्थानं प्राप्तवत्। तत्र अन्-आर्म्स्-सीनियर्-बालकवर्गे एनसीसी-दिग्विजयमहाविद्यालयः विजयं प्राप्तवान्। जूनियर्-बालिकावर्गे एनसीसी-बालिका-दिग्विजयमहाविद्यालयः प्रथमं तथा एनसीसी-बालिका-कमला-कॉलेज् द्वितीयं स्थानम् आप्तवत्। जूनियर्-बालकवर्गे एनसीसी-बालक-स्टेट्-हाईस्कूल्-संस्था प्रथमं एनसीसी-नेवल्-डॉ.बल्देवप्रसादमिश्र-विद्यालयः च द्वितीयं स्थानं प्राप्तवन्तौ।

ध्वजारोहणस्य पथसंचलनस्य च अनन्तरं विविधानां विद्यालयानां छात्र-छात्राः आकर्षकं व्यायामप्रदर्शनं देशभक्तिगीतेषु आधारिताः मनमोहकाः सांस्कृतिकाः प्रस्तुतीः च दत्तवन्तः। सांस्कृतिककार्यक्रमाणां प्रतियोगितायां हरियर्-छत्तीसगढ़-गीते उत्कृष्टप्रदर्शनाय पीएम्श्री-सर्वेश्वरदास्-नगरपालिकानिगमोच्चतरमाध्यमिकविद्यालयाय प्रथमपुरस्कारः प्रदत्तः। तत्र मिट्टीकेबेटे-गीते प्रस्तुतिं ददतः पदुमलालपुन्नालालबख्शी-कन्याउच्चतरमाध्यमिकविद्यालयाय द्वितीयः हमाराविकसितभारत-गीते प्रस्तुतिं ददतः युगांतर्-पब्लिक्-स्कूल्-संस्थायै च तृतीयः पुरस्कारः प्रदत्तः।

अस्मिन् भव्ये आयोजने पुलिसाधीक्षिका अंकिताशर्मा-महोदया, जनप्रतिनिधयः, वरिष्ठाः प्रशासनिकाः अधिकारिणः, बृहत्संख्यया च स्थानीयाः नागरिकाः उपस्थिताः आसन्।

Hindusthan Samachar / Divya Ranjan