Enter your Email Address to subscribe to our newsletters

मुरादाबादम्, 15 अगस्तमासः (हि.स.)।
मुरादाबादरेलमण्डले अद्य स्वातन्त्र्यदिवसः हर्षोल्लासेन आचरितः। अस्मिन् अवसरे मण्डलस्य सर्वेषु प्रमुखस्थानकेषु विभिन्नेषु कार्यालयेषु च ध्वजारोहणकार्यक्रमाः आयोजिता। देशभक्तिभावनया ओतप्रोताः सांस्कृतिककार्यक्रमाः अपि प्रस्तुताः।
मुरादाबादस्य रेलक्रीडाङ्गणे आयोजिते समारोहे उपस्थितैः सर्वैः राष्ट्रगीतं वन्देमातरम् इति गीतम् सामूहिकरूपेण गातम्। तदनन्तरं मुरादाबादस्य रेलक्रीडाङ्गणे आयोजिते मुख्यस्वातन्त्र्यदिवससमारोहे मण्डलरेलप्रबन्धिका विनीता श्रीवास्तवा ध्वजारोहणं कृतवती। ततः परेडनायकस्य नेतृत्वे परेडदलस्य सैनिकैः मण्डलरेलप्रबन्धिकायै सलामी प्रदत्ता।
अस्मिन् अवसरे मण्डलरेलप्रबन्धिका विनीता श्रीवास्तवा उपस्थितेभ्यः रेलाधिकारिभ्यः, कर्मचारिभ्यः तेषां परिवारजनेभ्यश्च स्वातन्त्र्यदिवसस्य हार्दिकशुभकामनाः प्रदत्तवती। देशस्य स्वातन्त्र्याय स्वसर्वस्वं समर्पितवद्भ्यः वीरस्वातन्त्र्यसेनानीभ्यः श्रद्धाञ्जलिं समर्पयन्ती सा अवदत् यत् तेषां त्यागस्य, संघर्षस्य, बलिदानस्य च परिणामस्वरूपम् भारतं सशक्तं जीवन्तं च लोकतन्त्रम् इति रूपेण निरन्तरं प्रगतिं करोति।
डीआरएम इत्यनया अग्रे अवदत् यत् राष्ट्रनिर्माणस्य यात्रायां भारतीयरेलस्य महत्त्वपूर्णा भूमिका वर्तते। भारतीयरेलः देशस्य विभिन्नान् प्रदेशान् राज्यानि च परस्परं संयोजयन् राष्ट्रियैकतां राष्ट्रियाखण्डतां च सुदृढीकर्तुं महत्त्वपूर्णं योगदानं ददाति।
कार्यक्रमस्य अन्ते वरिष्ठमण्डलकार्मिकाधिकारी अभिषेकठाकुरः धन्यवादज्ञापनं प्रस्तुतवान्। अस्मिन् अवसरे मण्डलरेलप्रबन्धिकया विनीता श्रीवास्तवया सह मण्डलस्य वरिष्ठाधिकारिभिः मुरादाबादस्य रेलक्रीडाङ्गणपरिसरे वृक्षारोपणमपि कृतम्।
Hindusthan Samachar / Dheeraj Maithani