Enter your Email Address to subscribe to our newsletters

कोलकाता, १५ अगस्तमासः (हि.स.)। भारतस्य अशीतितमे स्वातन्त्र्यदिवसस्य अवसरे मुख्यमन्त्री शुभेन्द्वधिकारी देशवासिभ्यः हार्दिकाः शुभकामनाः अभिनन्दनानि च अयच्छत्। सः शनिवासरे प्रातः सप्तवादने सामाजिकमाध्यमे सन्देशं प्रकाशित्य देशस्य स्वातन्त्र्यार्थं स्वप्राणान् समर्पितवद्भ्यः वीरसुपुत्रेभ्यः श्रद्धापूर्वकं नमनं कृतवान्।
मुख्यमन्त्री स्वसन्देशे अवदत् यत् अद्य अस्मिन् विशेषे दिवसे भारतमातुः तान् सर्वान् वीरसुपुत्रान् स्मर्तव्यम्, येषां जीवनं राष्ट्राय समर्पितम् आसीत् तथा येषां त्यागेन वयं स्वतन्त्रभारतं प्राप्तवन्तः। तेषां त्यागस्य संघर्षस्य च कारणादेव अद्य वयं स्वतन्त्रस्य आकाशस्य अधः स्वातन्त्र्येण श्वासं ग्रहीतुं शक्नुमः।
सः अवदत् यत् स्वातन्त्र्यं केवलं शब्दः न, अपितु दायित्वमपि अस्ति। राष्ट्रं प्रति प्रेम, राष्ट्रियैकता सामाजिकसद्भावश्च संरक्षितुं प्रत्येकस्य नागरिकस्य दायित्वम् अस्ति। सः देशवासिभ्यः मिलित्वा विकसितस्य, सशक्तस्य समृद्धस्य च भारतस्य निर्माणस्य सङ्कल्पं कर्तुम् आह्वानं कृतवान्।
मुख्यमन्त्री शुभेन्द्वधिकारी स्वसन्देशस्य अन्ते सर्वेभ्यः भारतवासिभ्यः अशीतितमस्य स्वातन्त्र्यदिवसस्य हार्दिक्य: शुभकामनाः अभिनन्दनानि च अयच्छत्। सः ‘जय हिन्द्’ ‘वन्दे मातरम्’ इति घोषौ अपि अकरोत्।
मुख्यमन्त्रिणः सन्देशे स्वातन्त्र्यसङ्ग्रामस्य वीराणां बलिदानस्य स्मरणेन सह राष्ट्रस्य एकतायाः, सद्भावस्य सुदृढभारतस्य निर्माणस्य च सङ्कल्पः प्रमुखतया अभिव्यक्तः।
Hindusthan Samachar / Divya Ranjan