दृढं समृद्धं राष्ट्रम् अग्रे वर्धेत वर्तमानसंततेः दायित्वम् :कृष्ण कुमार बेदी
कैथल, 15 अगस्तमासः (हि.स.)। पुलिसपङ्क्तौ शनिवासरे जनपदस्तरीयस्वातन्त्र्यदिवससमारोहः देशभक्तिभावनया परिपूर्णः दृश्यते स्म। सामाजिकन्यायाधिकारितामन्त्री कृष्णकुमारबेदी राष्ट्रध्वजं समुत्तोल्य परेडस्य अभिवादनं स्वीकृतवान्। अस्मिन् अवसरे सः स्वातन्त्
स्वतंत्रता दिवस के अवसर पर परेड की सलामी लेते कैबिनेट मंत्री कृष्ण कुमार बेदी


स्वतंत्रता दिवस के जिला स्तरीय समारोह में परेड के टुकड़ियों का  निरीक्षण करते कैबिनेट मंत्री कृष्ण कुमार बेदी


कैथल, 15 अगस्तमासः (हि.स.)।

पुलिसपङ्क्तौ शनिवासरे जनपदस्तरीयस्वातन्त्र्यदिवससमारोहः देशभक्तिभावनया परिपूर्णः दृश्यते स्म। सामाजिकन्यायाधिकारितामन्त्री कृष्णकुमारबेदी राष्ट्रध्वजं समुत्तोल्य परेडस्य अभिवादनं स्वीकृतवान्। अस्मिन् अवसरे सः स्वातन्त्र्यसेनानीन् शहीदांश्च नत्वा अवदत् यत् येषां बलिदानैः अस्माभिः स्वातन्त्र्यं प्राप्तम्, तस्य स्वातन्त्र्यस्य संरक्षणं कृत्वा राष्ट्रं सुदृढं समृद्धं च कर्तुं वर्तमानपीढ्याः दायित्वम् अस्ति। हरियाणाभूमिं वीरतायाः, त्यागस्य, देशभक्तेश्च भूमिं वर्णयन् मन्त्री अवदत् यत् २०४७ तमवर्षपर्यन्तं विकसितभारतस्य विकसितहरियाणस्य च लक्ष्यं प्राप्तुं समाजस्य प्रत्येकवर्गेण स्वकीयां भूमिकां निर्वोढव्यम्।

कैथलस्य विकासस्य उल्लेखं कुर्वन् बेदी अवदत् यत् प्रायः एकसहस्रकोटिरूप्यकाणां व्ययेन भगवान्परशुरामवैद्यकीयमहाविद्यालयस्य निर्माणकार्यं प्रायः पूर्णं जातम् अस्ति तथा च तत् शीघ्रमेव प्रारप्स्यते। धेरडूस्थले परिचर्याशिक्षामहाविद्यालयस्य भवनमपि सज्जीकृतम् अस्ति। सः कैथलस्य उत्तमां मार्गसम्पर्कव्यवस्थां जनपदे प्रचलन्तानि विविधविकासकार्याणि च उल्लिखितवान्।

समारोहे सांस्कृतिककार्यक्रमैः अपि वातावरणं विशेषरूपेण रमणीयं कृतम्। एमडीएनग्लोबलविद्यालयस्य विद्यार्थिभिः देशभक्तिगीतस्य प्रस्तुतीकरणेन सम्पूर्णं वातावरणं राष्ट्रप्रेमभावनया परिपूर्णं कृतम्। हिन्दूगर्ल्ससीनियरसेकेण्डरीविद्यालयस्य छात्राभिः पञ्जाबीनृत्यं, आर्यगर्ल्सहाईविद्यालयस्य छात्राभिः बेटीबचाओबेटीपढ़ाओ इति विषयमाधृत्य हरियाणवीप्रस्तुतिः तथा राधाकृष्णनविद्यालयस्य विद्यार्थिभिः व्यसनमुक्तेः देशभक्तेश्च विषये नृत्यनाट्यप्रस्तुतिः प्रदर्शिता।

राजकीयकन्यावरीष्ठमाध्यमिकविद्यालयस्य, गीताभवनस्य, जाखौलीअड्डास्थानस्य च छात्राभिः हरियाणायाः सांस्कृतिकैकतां प्रदर्शयन्तः सामूहिकनृत्यकार्यक्रमाः प्रस्तुताः। सुपार्श्वजैनविद्यालयस्य विद्यार्थिभिः हरियाणायाः स्वातन्त्र्यसेनानीनां बलिदानं स्मरन्तः सामाजिकदुर्व्यसनानां विषये जनजागरणसन्देशः अपि प्रदत्तः।

सांस्कृतिकप्रस्तुतीकरणेषु एमडीएनग्लोबलविद्यालयेन प्रथमस्थानं, सुपार्श्वजैनविद्यालयेन द्वितीयस्थानं तथा आर्यकन्याहाईविद्यालयेन तृतीयस्थानं प्राप्तम्। परेडे जनपदमहिलापुलिसस्य टुकड्या प्रथमस्थानं, एनसीसीबालविद्यालयस्य टुकड्या द्वितीयस्थानं तथा राजकीयकन्यावरीष्ठमाध्यमिकविद्यालयस्य टुकड्या तृतीयस्थानं प्राप्तवती। विविधासु गतिविधिषु भागं गृहीतवद्भ्यः विद्यार्थिभ्यः अपि सम्मानः प्रदत्तः।

मुख्यातिथिना बालकानां कृते द्विलक्षरूप्यकाणां तथा होलीपथविद्यालयस्य मूकबधिरबालकानां कृते एकलक्षपञ्चविंशतिसहस्ररूप्यकाणां धनराशेः प्रदानस्य घोषणा कृता।

समारोहे भाजपाजनपदाध्यक्ष्या ज्योतिसैन्या, पूर्वविधायकेन लीलारामेण, पूर्वविधायकेन फूलसिंहखेड़्या, भाजपाराज्योपाध्यक्षेन अशोकगुर्जरेण, नगरपरिषदः अध्यक्षा सुरभिगर्गया च सह अनेकाः जनप्रतिनिधयः उपस्थिताः आसन्। जनपदप्रशासनस्य पक्षतः जनपदाधिकारी अपराजिता, पुलिसाधीक्षकः मनप्रीतसिंहसूदरः, अपरजनपदाधिकारी डॉ सुशीलकुमारः, डीएमसी कपिलशर्मा, उपमण्डलाधिकारी सञ्जयकुमारः, नगराधिकारी नायकः परमेशसिंहः सहितं विविधविभागानां अधिकारिणः अपि उपस्थिताः आसन्।

---------------

Hindusthan Samachar / Dheeraj Maithani