स्वास्थ्य सेवानां सुदृढ़ीकरणं प्रदेश सर्वकारस्य सर्वाेच्च प्राथमिकता : स्वास्थ्य मंत्री धनीराम शांडिलः
सोलनम्, 15 अगस्तमासः (हि.स.)। स्वास्थ्यपरिवारकल्याणस्य, सामाजिकन्यायाधिकारितायाः तथा सैनिककल्याणस्य च मन्त्री अवदत् यत् प्रदेशसर्वकारः सर्वेभ्यः नागरिकेभ्यः गुणवत्तापूर्णाः सुलभाश्च स्वास्थ्यसेवाः उपलब्धाः कारयितुं प्रतिबद्धः अस्ति। सः अवदत् यत्
स्वतंत्रता दिवस


सोलनम्, 15 अगस्तमासः (हि.स.)।

स्वास्थ्यपरिवारकल्याणस्य, सामाजिकन्यायाधिकारितायाः तथा सैनिककल्याणस्य च मन्त्री अवदत् यत् प्रदेशसर्वकारः सर्वेभ्यः नागरिकेभ्यः गुणवत्तापूर्णाः सुलभाश्च स्वास्थ्यसेवाः उपलब्धाः कारयितुं प्रतिबद्धः अस्ति। सः अवदत् यत् सर्वकारस्य निरन्तरप्रयत्नैः स्वास्थ्यक्षेत्रे उल्लेखनीया प्रगतिः भवति तथा विभिन्नाः स्वास्थ्यसंस्थाः आधुनिकसुविधाभिः सुदृढाः क्रियन्ते।

डॉक्टरः शाण्डिलः शनिवासरे देशस्य स्वातन्त्र्यस्य अशीतितमवर्षपूर्तेः अवसरे सोलनजनपदस्य ऐतिहासिके ठोडोमैदाने आयोजिते जनपदस्तरीयस्वातन्त्र्यदिवससमारोहे सम्बोधनं कुर्वन् एतत् उक्तवान्। डॉक्टरः शाण्डिलः अस्मात् पूर्वं कृतज्ञप्रदेशवासिनां पक्षतः शहीदस्मारके असंख्येभ्यः वीरभ्यः भावपूर्णां श्रद्धाञ्जलिं समर्पितवान्। स्वास्थ्य मन्त्रिणा तदनन्तरं ठोडोमैदाने ध्वजारोहणं कृत्वा परेडस्य निरीक्षणं कृतं तथा सलामी स्वीकृता। पुलिसनिरीक्षकः सञ्जीवकंवरः परेडस्य नेतृत्वं कृतवान्।

डॉक्टरः शाण्डिलः अवदत् यत् वर्तमानसर्वकारस्य कार्यकाले समाजस्य सर्वेषां वर्गाणां कल्याणाय महत्त्वपूर्णाः निर्णयाः स्वीकृताः सन्ति। प्रदेशसर्वकारेण कृषकेभ्यः, उद्यानपालकेभ्यः, पशुपालकेभ्यः, युवभ्यः तथा महिलाभ्यः अनेकाः नवीनाः कल्याणकारीयोजनाः प्रारब्धाः सन्ति।

स्वास्थ्य मन्त्री अवदत् यत् प्रदेशे इन्दिरागान्धीवैद्यकीयमहाविद्यालये शिमलानगरे, डॉक्टरराजेन्द्रप्रसादसर्वकारीयवैद्यकीयमहाविद्यालये टाण्डानगरे, नेरचौकवैद्यकीयमहाविद्यालये तथा चमियाणाचिकित्सालये च प्रथमवारं रोबोटिकशल्यचिकित्सायाः सुविधा प्रारब्धा अस्ति। अस्याः सुविधायाः उपलब्धतया प्रदेशस्य रोगिभिः उपचाराय बाह्यराज्येषु गन्तुं न भविष्यति।

डॉक्टरः शाण्डिलः अवदत् यत् प्रदेशस्य स्वास्थ्यसंस्थासु आधुनिकचिकित्सोपकरणानां स्वास्थ्याधारभूतसंरचनायाश्च सुदृढीकरणाय त्रिसहस्रकोटिरूप्यकाणि व्ययितानि सन्ति। सः अवदत् यत् स्वास्थ्यसंस्थासु चिकित्सकानां, सहचिकित्साकर्मचारिणां तथा तन्त्रज्ञकर्मचारिणां न्यूनतां दूरीकर्तुं चरणबद्धरूपेण नियुक्तिप्रक्रिया क्रियते। सः अवदत् यत् प्रदेशस्य प्रत्येकस्मिन् विधानसभाक्षेत्रे स्वास्थ्यसंस्थानाम् उन्नयनं कृत्वा सप्ततिः आदर्शस्वास्थ्यसंस्थाः उद्घाटिताः सन्ति।

स्वास्थ्य मन्त्री अवदत् यत् सोलनस्य कथेड़स्थले द्विशतकोटिरूप्यकेभ्यः अधिकव्ययेन बहुउद्देशीयचिकित्सालयस्य तथा सप्तदशकोटिरूप्यकाणां व्ययेन कण्डाघाटे नागरिकचिकित्सालयस्य निर्माणकार्यं च अन्तिमचरणे प्रगतिम् आप्नोति।

सः अवदत् यत् प्रदेशसर्वकारेण ग्रामीणार्थव्यवस्थां सुदृढां कर्तुं ऐतिहासिकाः निर्णयाः स्वीकृताः सन्ति, येन कृषकाणां उद्यानपालकानां च आयवृद्धिः भवेत्। सः अवदत् यत् सर्वकारेण गोदुग्धस्य क्रयमूल्यं प्रतिकिलोग्रामं एकषष्टिरूप्यकाणि तथा महिषीदुग्धस्य मूल्यं प्रतिकिलोग्रामं एकसप्ततिरूप्यकाणि निर्धारितम् अस्ति।

सः अवदत् यत् प्राकृतिककृषेः प्रोत्साहनाय राजीवगान्धीप्राकृतिककृषिस्टार्टअपयोजना प्रारब्धा अस्ति। योजनायाः अन्तर्गतं प्राकृतिककृष्या उत्पादितस्य गोधूमस्य समर्थनमूल्यं प्रतिकिलोग्रामं अशीतिरूप्यकाणि, मक्कायाः समर्थनमूल्यं प्रतिकिलोग्रामं पञ्चाशद्रूप्यकाणि तथा कच्चीहरिद्रायाः समर्थनमूल्यं प्रतिकिलोग्रामं पञ्चाशदधिकैकशतरूप्यकाणि निर्धारितम् अस्ति। सः अवदत् यत् प्रदेशसर्वकारेण प्रथमवारम् आर्द्रकस्य मूल्यं अपि प्रतिकिलोग्रामं त्रिंशद्रूप्यकाणि निर्धारितम् अस्ति।

---------------

Hindusthan Samachar / Dheeraj Maithani