Enter your Email Address to subscribe to our newsletters

नवदिल्ली, 15 अगस्तमासः (हि.स.)।
स्वातन्त्र्यदिवसस्य अवसरे जनकपुरीविधानसभाक्षेत्रस्य विधायकः दिल्लीशिक्षामन्त्री च आशीषसूदः शनिवासरे जनकपुर्याम् आयोजिते ‘तिरङ्गासाइक्लोथॉन२०२६’ इति कार्यक्रमे प्रतिभागिभिः सह साइकिलचालनं कृत्वा सहभागितां कृतवान्। साइकिलयात्रा जनकपुर्याः सेन्टमार्क्सविद्यालयात् प्रारभ्य तत्रैव समाप्ता। अस्यां साइक्लोथॉनयात्रायां द्विसहस्राधिकाः साइकिलचालकाः हस्तेषु तिरङ्गं गृहीत्वा सहभागितां कृतवन्तः तथा देशभक्तेः, एकतायाः, स्वास्थ्यस्य च उत्कृष्टं सन्देशं प्रदत्तवन्तः।
अस्मिन् अवसरे शिक्षामन्त्री अवदत् यत् अद्य तिरङ्गस्य सहायतया दिल्लीस्य सर्वबृहत्तमा साइक्लोथॉनयात्रा आयोजिता अस्ति। द्विसहस्राधिकाः साइकिलचालकाः अद्य हस्तेषु तिरङ्गं गृहीत्वा अस्यां साइकिलयात्रायां भागं गृहीतवन्तः। तिरङ्गस्य अधः एकतया साइकिलचालनं कुर्वन्तः नागरिकाः देशभक्तेः, राष्ट्रियैकतायाः तथा राष्ट्राय समर्पणस्य भावनां प्रदर्शयन्ति।
सः अवदत् यत् एषा साइक्लोथॉन केवलं स्वातन्त्र्यदिवसस्य उत्सवः नास्ति, अपितु स्वास्थ्यस्य, स्वस्थजीवनशैल्याः तथा सक्रियनागरिकसहभागितायाः सन्देशमपि प्रददाति। सर्वकारस्य प्रयासः अस्ति यत् दिल्ली एकं स्वस्थं, सुदृढं सक्रियञ्च राजधानीनगरं भवेत्।
सूदः अवदत् यत् जनकपुर्याः वीथीषु लहरमाणः तिरङ्गः राष्ट्रप्रेम्णः राष्ट्रियैकतायाश्च गौरवपूर्णं प्रतीकम् अस्ति। सः जनकपुरीवासिनां प्रति कृतज्ञतां प्रकटयन् अवदत् यत् जनकपुरीनिवासिनां साइक्लोथॉनकार्यक्रमे उत्साहपूर्णसहभागितया अशीतितमस्वातन्त्र्यदिवसस्य अयं कार्यक्रमः स्मरणीयः समारोहः अभवत्।
---------------
Hindusthan Samachar / Dheeraj Maithani