Enter your Email Address to subscribe to our newsletters

बेंगलूरु, १५ अगस्तमासः (हि.स.)। कर्णाटकस्य मुख्यमन्त्री डी.के. शिवकुमारः शनिवासरे ८०तमस्य स्वातन्त्र्यदिवसस्य अवसरे राज्यस्य विकासस्य मार्गचित्रं प्रस्तुतवान्। सः उक्तवान् यत् वर्ष २०४७ पर्यन्तं कर्णाटकस्य अर्थव्यवस्थां ३ ट्रिलियन-डॉलर-मितां कर्तुं सर्वकारस्य लक्ष्यम् अस्ति। माणिकशाह-क्रीडाङ्गणे ध्वजारोहणानन्तरं प्रदेशवासिनः सम्बोधयन् सः शिक्षायाः, रोजगारस्य, कृषेः, उद्योगस्य, प्रौद्योगिक्याः, आधारभूत-संरचनायाः, नगरीयविकासस्य तथा जनसेवायाः सम्बन्धे अनेकाः महत्त्वपूर्णाः घोषणाः कृतवान्।
मुख्यमन्त्रिणा उक्तं यत् भविष्यस्य अर्थव्यवस्थायै कर्णाटकं सज्जीकर्तुं कृत्रिमबुद्धिमत्ता तथा प्रौद्योगिकी महत्त्वपूर्णां भूमिकां निर्वक्ष्यतः। अस्याः दिशायाः अन्तर्गतं राज्यस्य सर्वेषु विद्यालयेषु षष्ठीकक्षातः कृत्रिमबुद्धि-मत्तायाः शिक्षणम् आरप्स्यते। एतदर्थं ‘ए.आई. अक्षर-अभियानम्’ तथा ‘कोडिङ्ग-गुरुकुलम्’ इत्येतयोः शुभारम्भः करिष्यते। सः बेंगलूरुनगरे देशस्य प्रथमं सर्वकारस्वामित्वयुक्तम् ए.आई. विश्व-विद्यालयं स्थापयितुं तथा राज्यस्य विभिन्नेषु भागेषु ए.आई. केन्द्राणि विकसितुं घोषणामपि कृतवान्।
युवभ्यः अधिकान् रोजगारावसरान् प्रदातुं ‘मुख्यमन्त्री रोजगार-सङ्कल्पः’ तथा ‘युवा रोजगार-सेतुः’ इति योजनाः प्रारप्स्यन्ते। शिवकुमारेण उक्तं यत् सर्वकारीये क्षेत्रे ७२ सहस्रं प्रमुखरिक्तपदानां कृते नियुक्ति-प्रक्रिया आरब्धा अस्ति। अग्रिमेषु षट्सु मासेषु सर्वकारीयपदेषु नियुक्त्यर्थं अधिसूचना निर्गन्तुं लक्ष्यं निर्धारितम् अस्ति।
सः उक्तवान् यत् अग्रिमेषु द्विवर्षेषु एकलक्षं नवीनरोजगाराः सृज्यन्ते। नवीन-रोजगाराणां कृते प्रतिमासं २५०० रुप्यकाणां प्रोत्साहनराशिं प्रदातुं योजनापि प्रारप्स्यते।
कृषिक्षेत्रे आधुनिकप्रौद्योगिक्याः प्रयोगं प्रोत्साहयितुं ‘मुख्यमन्त्री किसान-चेतना’ इति योजना प्रारप्स्यते। अस्याः योजनायाः अन्तर्गतं ड्रोन्-यन्त्राणां तथा उपग्रहाणां साहाय्येन सस्यसर्वेक्षणं करिष्यते तथा च कृषकेभ्यः वास्तविकसमये कृषिसम्बद्धा सूचना उपलब्धा करिष्यते।
‘किसान-मित्र’ कार्यक्रमस्य अन्तर्गतं त्रिभिः एकड्-मितेभ्यः न्यूनया अथवा तया समया भूम्या युक्तेभ्यः कृषकेभ्यः कृषियन्त्राणां भाटकग्रहणस्य शुल्के ५० प्रतिशतं अनुदानं प्रदास्यते। लघुकृषकाणां कृषिव्ययं न्यूनीकर्तुं तथा तेभ्यः आधुनिककृषियन्त्राणां सुविधा प्रदातुं सर्वकारस्य उद्देश्यम् अस्ति।
औद्योगिकनिवेशं प्रोत्साहयितुं दोड्डबल्लापुरे उन्नतविनिर्माणसमूहो स्थापितः भविष्यति। अस्य माध्यमेन प्रायः २० सहस्रकोटि-रुप्यकाणां निवेशम् आकर्षयितुं तथा प्रायः एकलक्षं रोजगारावसरान् सृजितुं सर्वकारस्य लक्ष्यम् अस्ति।
तथैव ‘बियॉन्ड बेंगलुरु’ इत्यस्य उपक्रमस्य अन्तर्गतं राज्ये पञ्च वैश्विकप्रौद्योगिकी-केन्द्राणि स्थापितानि भविष्यन्ति। अनेन बेंगलूरुतः बहिः अपि तकनीकी-औद्योगिकक्रियाकलापानां प्रोत्साहनस्य सम्भावना अस्ति।
ग्रामीणक्षेत्राणां विद्यार्थिभ्यः उच्चशिक्षायाः कौशलविकासस्य च उत्तमावसरान् प्रदातुं ‘सहाय-हस्त’ इति योजना प्रारप्स्यते। अस्याः अन्तर्गतं ग्रामीणसर्वकारीय-विद्यालयानां विद्यार्थिभ्यः व्यावसायिक-पाठ्यक्रमेषु ७.५ प्रतिशतं आरक्षणं प्रदास्यते।
नगरीयपरिवहनव्यवस्थां तथा आधारभूत-संरचनां सुदृढां कर्तुं राज्यस्य सर्वेषु कस्बेषु नगरेषु च वलयमार्गाः तथा गतिशील-ताजालानि विकसितानि करिष्यन्ते। बेंगलूरुनगरे ११७ किलोमीटर्-दीर्घस्य वलयमार्गयुक्ता ‘बेंगलुरु बिजनेस कॉरिडोर’ इति परियोजना प्रारप्स्यते।
मुख्यमन्त्रिणा बेंगलूरुनगरे पञ्च नूतना: आरक्षक-आयुक्तालया: स्थापयितुं घोषणापि कृता। कलहकारिणः उपद्रव-कारिणश्च तत्त्वान् विरुद्धं कार्यवाहीं कर्तुं विशेषदलस्य गठनं करिष्यते। तदतिरिक्तं नगरे पञ्च विशालानि वृक्षोद्यानानि विकसितानि करिष्यन्ते तथा सप्तप्रमुख-सरोवराणां विकासकार्यं करिष्यते।
वाहनस्वामिभ्यः सरलां सुविधाजनकां च बीमासुविधां प्रदातुं कर्णाटक-राज्य-मोटर-वाहन-बीमासंस्था स्थापयिष्यते। सामान्यजनानां समस्याः शिकायताश्च समाधानं कर्तुं प्रजासेवा-विभागस्य गठनं करिष्यते।
मुख्यमन्त्रिणा मेकेदाटु-परियोजनां प्रारम्भयितुं घोषणां कुर्वता उक्तं यत् राज्ये ११२ प्रमुखजलसंसाधनपरियोजनाभ्यः १६ सहस्रकोटिरुप्यकाणि स्वीकृतानि सन्ति। सः उक्तवान् यत् जलसंसाधनानां विकासः तेषां च उत्तमप्रबन्धनं सर्वकारस्य प्राथमिकतायां वर्तते।
सम्पत्तिस्वामित्वसम्बद्धानां समस्याणां समाधानाय भू-गारण्टी-व्यवस्था कार्या-न्विता करिष्यते। तथैव ई-खाता-व्यवस्थया सम्पत्तिकर्गदानां अङ्कीकरणं प्रोत्साहयिष्यते।
स्वातन्त्र्यदिवसस्य सम्बोधने शिवकुमारेण उक्तं यत् सर्वकारः शिक्षा, प्रौद्योगिकी, रोजगारः, कृषिः, उद्योगः तथा आधारभूत-संरचना इत्यादिषु सर्वेषु क्षेत्रेषु समग्रविकासे केन्द्रितः अस्ति। सः उक्तवान् यत् वर्ष २०४७ पर्यन्तं कर्णाटकं सुदृढं समृद्धं च वैश्विकस्तरे प्रतिस्पर्धाक्षमायाः अर्थव्यवस्थायाः रूपेण विकसितुं सर्वकारस्य प्राथमिकता अस्ति। एतदर्थं प्रौद्योगिकी, निवेशः, रोजगारः तथा आधारभूतसंरचना इत्येते विकासस्य प्रमुखाधाराः क्रियन्ते।
Hindusthan Samachar / Divya Ranjan