Enter your Email Address to subscribe to our newsletters



महोबा, 15 अगस्तमासः (हि.स.)।
उत्तरप्रदेशस्य महोबाजनपदे अशीतितमस्वातन्त्र्यदिवसस्य शुभावसरे शनिवासरे जनपदे हर्षोल्लासेन विविधाः कार्यक्रमाः आयोजिताः। जनपदाधिकारिणी गजलभारद्वाजया समाहरणालयपरिसरे ध्वजारोहणं कृत्वा राष्ट्रगानेन सह परेडस्य अभिवादनं स्वीकृतम्। अस्मिन् अवसरे अधिकारिभिः कर्मचारिभिश्च देशभक्तिगीतैः सह तिरङ्गाय सलामी प्रदत्ता। तदनन्तरं जनपदाधिकारिण्या अनाथालयस्य बालकेभ्यः फलानि उपहाराश्च वितरितानि।
स्वातन्त्र्यस्य राष्ट्रियपर्वणि जनपदमुख्यालयस्थिते समाहरणालये ध्वजारोहणानन्तरं जनपदाधिकारिणी गजलभारद्वाजा रामनगरस्थितं राजकीयकन्याअन्तर्महाविद्यालयं प्राप्तवती तथा तत्र वृक्षारोपणं कृतवती। सा छात्राभिः सह वृक्षान् आरोप्य पर्यावरणसंरक्षणस्य सन्देशं प्रदत्तवती। तदनन्तरं सा नगरस्य वरिष्ठैः सम्मानितैश्च नागरिकैः सह प्रान्तीयबालसेवासदनं गत्वा राष्ट्रपितुः महात्मागान्धिनः प्रतिमायां माल्यार्पणं कृत्वा श्रद्धाञ्जलिं समर्पितवती।
अनाथालये निवसद्भिः बालकैः सह मिलित्वा सा तेषां कुशलक्षेमं ज्ञातवती तथा तेभ्यः फलानि उपहारांश्च वितरितवती। राष्ट्रियपर्वणि फलानां उपहाराणां च प्राप्त्या बालकानां मुखेषु प्रसन्नता दृश्यते स्म। जनपदाधिकारिणी बालकैः सह संवादं कृत्वा तेषां उज्ज्वलभविष्याय शुभकामनाः प्रदत्तवती।
सा अवदत् यत् आङ्ग्लशासनात् देशं स्वतन्त्रं कर्तुं देशस्य क्रान्तिकारिभिः महापुरुषैश्च स्वसर्वस्वं बलिदत्तम्, तदनन्तरमेव अस्माभिः स्वातन्त्र्यं प्राप्तम्। सा अवदत् यत् स्वातन्त्र्यदिवसः अस्मान् स्वातन्त्र्यसेनानीनां त्यागं बलिदानं च स्मर्तुं तथा समाजस्य सर्वेभ्यः वर्गेभ्यः समानाधिकारं सम्मानं च प्रदातुं प्रेरयति।
सा बालकेभ्यः सदैव राष्ट्रहिते कार्यं कर्तुं आह्वानं कृतवती। अस्मिन् अवसरे वरिष्ठनागरिकैः अपि बालकैः सह स्वातन्त्र्यदिवसस्य हर्षः साझा कृतः।
अस्मिन् अवसरे अपरजनपदाधिकारी, मुख्यविकासाधिकारी बलरामकुमारः, सदरअनुमण्डलाधिकारी शिवध्यानपाण्डेयः, भाजपानेता सुलभसक्सेना, आशीषअवस्थी सहितम् अन्ये गणमान्याः जनाः उपस्थिताः आसन्।
---------------
Hindusthan Samachar / Dheeraj Maithani