Enter your Email Address to subscribe to our newsletters

जबलपुरम्, १४ अगस्तमासः (हि.स.)। मध्यप्रदेशस्य जबलपुरे स्वातन्त्र्यदिवसस्य पूर्वसन्ध्यायां शुक्रवासरे सायंकाले मानस-भवने नगरनिगमस्य विभिन्न-समितीनां च संयुक्ततत्त्वावधाने ‘याद-ए-वतन’ इति राष्ट्रीयस्तरीयस्य सांस्कृतिक-कार्यक्रमस्य आयोजनं कृतम्।
कार्यक्रमे लोकनिर्माणमन्त्रिणा राकेश-सिंहेन सह जनप्रतिनिधयः गणमान्य-नागरिकाश्च सहभागितां कृतवन्तः। देशस्य विभिन्नभागेभ्यः आगतैः कलाकारैः संस्कारधानी-जबलपुरस्य स्थानीय-कलाकारैश्च देशभक्तिगीतानां, भजनानां नृत्य-प्रस्तुतीनां च माध्यमेन अमरहुतात्मभ्यः सुरमयी भावाञ्जलिः समर्पिता।
कार्यक्रमस्य शुभारम्भः भारतमातुः पूजनार्चनेन दीपप्रज्वलनेन च अभवत्। लोकनिर्माणमन्त्री राकेशसिंहः अवदत् यत् वीरहुतात्मनां बलिदानं स्मर्तुं नूतनवंशं तेषां योगदानस्य विषये परिचितां कर्तुं च अस्माकं सर्वेषां दायित्वम् अस्ति। सः ‘याद-ए-वतन’ कार्यक्रमं ऐतिहासिकं वर्णयित्वा आयोजनसम्बद्धाभ्यः सर्वाभ्यः समितिभ्यः शुभकामनाः अयच्छत्।
कार्यक्रमे ‘के फॉर किशोर’ इत्यस्य अनिलश्रीवास्तवः, ‘सारेगामापा’-विजेत्री तथा ‘इण्डियाज गॉट टैलेण्ट’-कार्यक्रमस्य प्रथम-उपविजेत्री इशिताविश्वकर्मा, ‘इण्डियाज गॉट टैलेण्ट’-कार्यक्रमस्य अन्तिमचरणस्य प्रतिभागी ‘रेनबो डान्स ग्रुप’-समूहो कोलकाता-नगरात् तथा स्थानीयकलाकाराश्च प्रस्तुतिं कृतवन्तः।
अस्मिन् अवसरे सांसदः आशीषदुबे, राज्यसभासांसदा सुमित्राबाल्मीकि, विधायकः अजयविश्नोई, विधायकः डॉ. अभिलाषपाण्डे, मध्यप्रदेशतीर्थस्थान-मेलाविकासप्राधिकरणस्य अध्यक्षः विनोदगोटिया, जेडीए-अध्यक्षः सन्दीपजैनः, नगरनिगमाध्यक्षः रिकुञ्जविजः, प्रदेशकोषाध्यक्षः अखिलेशजैनः, भाजपा-नगराध्यक्षः रत्नेशसोनकरः, जिलाधिकारी राघवेन्द्रसिंहः, आरक्षकाधीक्षकः सम्पत-उपाध्यायः, नगरनिगमायुक्तः रामप्रकाश-अहिरवारः इत्यादयः गणमान्यनागरिकाश्च उपस्थिताः आसन्।
Hindusthan Samachar / Divya Ranjan