Enter your Email Address to subscribe to our newsletters

कठुआ, १५ अगस्तमासः (हि.स.)। कठुआनगरस्य स्पोर्ट्स-स्टेडियम-क्रीडाङ्गणे ८०तमः स्वातन्त्र्यदिवसः देशभक्त्या उत्साहेन च आचरितः। मुख्यातिथिना एफसीएसएण्डसीए, आईटी, युवसेवा-क्रीडाविज्ञान-प्रौद्योगिकीमन्त्रिणा सतीशशर्मणा राष्ट्रध्वजम् आरोपितं तथा परेड इत्यस्य नमनं स्वीकृतम्। आरक्षकबलस्य, सुरक्षाबलानां, वन-विभागस्य, एनसीसी-सङ्घटनस्य तथा शालेयविद्यार्थिनां दलैः भव्यं मार्चपास्ट् इति प्रस्तुतम्।
समारोहे कठुआविधायकः डॉ. भारतभूषणः, उपायुक्तः राजेशशर्मा, एसएसपी मोहिता शर्मा इत्यादयः प्रशासनिकाधिकारिणः, पूर्वसैनिकाः, विद्यार्थिनः बहुसंख्याकाः जनाश्च उपस्थिताः आसन्। स्वसम्बोधने मन्त्रिणा सतीशशर्मणा स्वातन्त्र्य-सेनानिभ्यः शहीदसैनिकैभ्यश्च श्रद्धाञ्जलिः समर्पिता तथा कठुआ राष्ट्रस्य प्रहरीरूपं सीमावर्तिजनपद: इति वर्णितम्। सः अवदत् यत् मुख्यमन्त्रिणः उमर-अब्दुल्ला-महोदयस्य नेतृत्वे सर्वकारः जम्मू-कश्मीरस्य सन्तुलितविकासाय प्रतिबद्धः अस्ति।
सः अवदत् यत् कठुआजिले जनपदस्तरीय-कैपेक्स-वित्तस्य अन्तर्गतं २,०७९ विकासकार्येभ्यः ७० कोटि-रूप्यकाणाम् अधिकस्य धनराशेः प्रावधानं कृतम् अस्ति। क्रीडासु विशेषं बलं दत्त्वा मन्त्रिणा उक्तं यत् कठुआ जम्मू-कश्मीरस्य क्रीडाराजधानीरूपेण विकसितुं पर्याप्तां क्षमतां धारयति। जनपदस्य ४,५०० अधिकानां बालकानां राष्ट्रीयस्तरीय-क्रीडासु सहभागितायाः उल्लेखं कुर्वन् सः युवभ्यः क्रीडा-कौशल-प्रौद्योगिकी-उद्यमिता-क्षेत्रेषु अग्रे वर्धितुं आह्वानं कृतवान्। सः कठुआ-क्रीडाङ्गणस्य उन्नयनस्य, कृत्रिमपथस्य, प्रकाश-व्यवस्थायाः अन्यासां च सुविधानां विकासस्य विषये अपि सूचनां दत्तवान्।
समारोहे शालेयविद्यार्थिनां विविधवर्णाः सांस्कृतिकप्रस्तुतयः विशेषाकर्षणस्य केन्द्रम् आसन्। देशभक्तिगीतैः, नृत्यैः राष्ट्रप्रेमभावनया च ओतप्रोताभिः प्रस्तुतिभिः दर्शकेषु उत्साहः सञ्चारितः तथा सम्पूर्णं क्रीडाङ्गणं करतलध्वनिभिः गुञ्जितम्। अन्ते उत्कृष्टप्रतिभागिनः डीआईपीआर-स्पर्धानां विजेतारश्च सम्मानिताः।
Hindusthan Samachar / Divya Ranjan