Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १५ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र-मोदिना देशवासिनः, विशेषतः युववंशं, अद्य सावधानं कृतम् यत् देशात् सशस्त्रनक्सलवादिनः यद्यपि प्रायः समाप्ताः सन्ति, तथापि मानसिक-नक्सलवादिनः अद्यापि अवसरस्य प्रतीक्षां कुर्वन्ति तथा हिंसायाः अराजकतायाश्च साहाय्येन भारतं विपरीतम् मार्गं प्रति नेतुं प्रयतन्ते। तेन आह्वानं कृतं यत् एतादृशान् मानसिक-नक्सलवादिनः अभिज्ञाय तान् समाजात् पृथक् कर्तुं आवश्यकम् अस्ति।
मोदिना अत्र रक्तदुर्गस्य प्राचीरात् देशस्य असीतितमे स्वातन्त्र्यदिवसस्य अवसरे राष्ट्रं सम्बोधयता एतत् उक्तम्। प्रधानमन्त्री उक्तवान् यत् एकविंशतितमे शतके दशकैः पुरातनानि यानि आव्हानानि सन्ति, तेषां निवारणम् अत्यावश्यकम्। नक्सलवादेन लक्षशः यूनां भविष्यं विनष्टम्।
तेन उक्तं यत् एतेन नक्सलवादेन चत्वारि दशकानि यावत् भारतस्य विशालः भूभागः विशालश्च जनसमुदायः पीडितः आसीत्। भूषुण्डिकाया: बलात् जनाः भयभीताः कृताः, संविधानस्य मर्यादाः उल्लङ्घिताः तथा सामान्यनागरिकाणां रक्षणाय ३५०० अधिकाः अस्माकं आरक्षक-सुरक्षाबलस्य सैनिका: वीरगतिं प्राप्तवन्तः। युद्धे यावन्तः सैनिकाः मृत्युमुपयान्ति, ततोऽपि अधिकं बलिदानं अस्माकं आरक्षक-सुरक्षा-कर्मिभिः दत्तम्, येन देशस्य सामान्य-जनानां सुरक्षा सुनिश्चितं भवेत्। नक्सलवादेन धरित्री रक्तरञ्जिता कृता।
प्रधानमन्त्रिणा उक्तं यत् २०१४ तमे वर्षे जनतया अस्मभ्यं अवसरः प्रदत्तः, तस्मिन्नेव दिने वयं सङ्कल्पं कृतवन्तः यत् देशं नक्सलवादात् मुक्तं करिष्यामः। अद्य अहं प्रसन्नः अस्मि यत् नक्सली-माओवादी-हिंसायाः अन्तिमं बलमपि प्रायः समाप्तप्रायम् अस्ति। तस्य पूर्णसमाप्तेः दिशि देशः अग्रे गच्छति। यत्र कदाचित् नक्सलवादिनां गुटिकाः प्रचलन्ति स्म, यत्र धरित्री रक्तरञ्जिता भवति स्म, तेष्वेव नक्सलप्रभावितेषु क्षेत्रेषु अद्य नक्सल-वादमुक्तेः कारणेन विकासस्य, विश्वासस्य प्रयासस्य च त्रिरङ्गः प्रसरति।
तेन उक्तं यत् तथापि अस्य आव्हानस्य महत्त्वं न्यूनीकर्तुं न शक्यते। अस्माभिः अस्मात् आव्हानात् अधिकं सावधानैः भवितव्यम्। दीर्घकालं यावत् देशस्य सत्ताकेन्द्रेषु माओवादीविचारधारायाः जनाः विभिन्नेषु मार्गेषु स्वस्थानानि निर्माय स्थितवन्तः। सर्वकारीयसमितिषु परामर्श-दातरः भूत्वा अपि माओवादी-विचारधारायाः जनाः नीतिनिर्माणं प्रभावितवन्तः।
मोदिना उक्तं यत् वनेषु सशस्त्र-नक्सलवादिनां समाप्तौ तथा देशं तस्मात् सङ्कटात् मुक्तं कर्तुं सफलता प्राप्ता अस्ति। किन्तु सशस्त्रनक्सलवादिनः गताः, मानसिक-नक्सलवादिनः तु अद्यापि अवसरस्य प्रतीक्षां कुर्वन्ति। ते हिंसायाः अराजकतायाश्च मार्गान् अन्विष्यन्ति तथा समाजं विपरीतमार्गे नेतुं विविधाः उपायाः प्रयुञ्जते। अतः एतान् मानसिक-नक्सलवादिनः अभिज्ञातव्यम्। तान् समाजात् पृथक् कर्तव्यम् तथा राष्ट्रं विकसितराष्ट्रं कर्तुं मुख्यधारायां देशस्य युववंशं संयोजितव्यम्।
Hindusthan Samachar / Divya Ranjan