ऊर्जायाः महत्त्वं वर्धितम्, भारतस्य २०४७ पर्यन्तं १०० गीगावाट्-लक्ष्यम् — रक्तदुर्गस्य प्राचीरात् प्रधानमन्त्री मोदी
नवदिल्ली, १५ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी सम्प्रति स्वातन्त्र्यदिवससमारोहस्य अवसरे रक्तदुर्गस्य प्राचीरात् देशं सम्बोधयति। सः अवदत् यत् अद्य ऊर्जायाः महत्त्वं वर्धितम् अस्ति। ऊर्जां विना विश्वस्य कार्यव्यवस्था न चलति। अस्मभ्यं विपु
2f522db0fd60540c4d7d973a69893e0b_81387568.jpg


नवदिल्ली, १५ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी सम्प्रति स्वातन्त्र्यदिवससमारोहस्य अवसरे रक्तदुर्गस्य प्राचीरात् देशं सम्बोधयति। सः अवदत् यत् अद्य ऊर्जायाः महत्त्वं वर्धितम् अस्ति। ऊर्जां विना विश्वस्य कार्यव्यवस्था न चलति। अस्मभ्यं विपुलमात्रायां विद्युत् आवश्यकम् अस्ति। ऊर्जासुरक्षा अस्माकं समयस्य आवश्यकता अस्ति। अस्मिन् दिशि सर्वकारेण दृढानि पदानि गृहीतानि सन्ति। वयं संसदः माध्यमेन ‘शान्ति-अधिनियमं’ पारितवन्तः। २०४७ तमं वर्षं पर्यन्तं १०० गीगावाट्-ऊर्जायाः लक्ष्यं स्वीकृत्य वयं अग्रे वर्धामहे।

प्रधानमन्त्री अवदत् यत् ‘मेक इन इण्डिया’, स्वदेशी ‘वोकल फॉर लोकल’ इत्येतेषु सर्वेषु क्षेत्रेषु अद्य प्रत्येकं भारतीयस्य मनः सम्बध्यते। देशस्य स्वातन्त्र्यप्राप्तेः अनन्तरं भारते अर्धचालकानां विषये चर्चा भवति स्म, किन्तु अस्माकं देशे कश्चन उत्पादनसंयन्त्रः न निर्मितः। अद्य वयं अर्धचालकस्य महत्त्वं जानीमः। प्रत्येकस्मिन् क्षेत्रे अर्धचालकः आवश्यकः अस्ति। अर्धचालकं विना विश्वस्य कार्यव्यवस्था स्थगिता भविष्यति। भारतं आत्मनिर्भरतायाः दिशि स्वकीयम् अर्धचालक-उत्पादनसंयन्त्रं स्थापितवान्। त्रयः उत्पादनसंयन्त्राः प्रारब्धाः सन्ति तथा तेभ्यः निर्यातः अपि प्रारब्धः अस्ति।

सः अवदत् यत् द्वादशवर्षेषु रक्षा-उत्पादनं चतुर्गुणितं जातम्। खादीग्रामोद्योगस्य उत्पादनं पञ्चगुणितं तथा विद्युत्-उपकरणनिर्माणं सप्तगुणितं जातम्। रेलयानानां डिब्बानां निर्माणं एकविंशतिगुणितं जातम्। चलदूरभाषस्य उत्पादनं त्रयस्त्रिंशद्गुणितं वर्धितम्। अन्तर्जालप्रयोक्तॄणां संख्या चतुर्गुणिता अभवत्। अङ्कीयव्यवहारः शतगुणितं वर्धितम्। प्रतिवर्षं औसततया पञ्चदश-गुणितया अधिकगत्या नलिकामार्गेण जलसम्बन्धाः प्रदत्ताः। षड्गुणितया अधिकगत्या वातिसम्बन्धाः प्रदत्ताः। दरिद्रेभ्यः गृहनिर्माणस्य कार्यमपि प्रतिवर्षं त्रिगुणितया अधिकगत्या कृतम्।

प्रधानमन्त्री नरेन्द्रमोदी अवदत् यत् अद्य भारतं दृढसङ्कल्पेन महत् स्वप्नं दृष्टवान् अस्ति। तत् स्वप्नम् अस्ति यत् यदा स्वातन्त्र्यस्य शतवर्षाणि पूर्णानि भविष्यन्ति, तदा २०४७ तमे वर्षे वयं भारतं विकसितराष्ट्रं कृत्वैव विरमिष्यामः। यदा विश्वस्य सर्वाधिकजनसंख्यायुक्तः देशः विकसितराष्ट्रस्य सङ्कल्पं करोति, तदा विश्वस्य भारतं प्रति दृष्टिकोणः परिवर्तितुं बाध्यते। कश्चिदपि देशः तदैव महान् भवति, यदा सः स्वप्नानि साकारयति तथा सङ्कल्पानां सामर्थ्येन च अग्रे वर्धते। देशः अधुना लघुस्वप्नैः सञ्चालितः न भविष्यति। बृहद्स्वप्नानि अस्माकं चिन्तनस्य विस्तारं कुर्वन्ति। अस्माकं सङ्कल्पाः दृढाः भवेयुः।

Hindusthan Samachar / Divya Ranjan