प्रधानमन्त्री मोदी रक्तदुर्गं प्रति गमनात् पूर्वं देशवासिभ्यः स्वातन्त्र्यदिवसस्य शुभकामनाः प्रदत्तवान्
नवदिल्ली, १५ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः सर्वप्रथमं देशवासिभ्यः स्वातन्त्र्यदिवसस्य शुभ-कामनाः अयच्छत्। तस्य शुभकामना-सन्देशः तस्य रक्तदुर्गे आगमनात् पूर्वम् ‘एक्स’-माध्यमस्य हस्तलिखिते प्रसारितः। प्रधानमन्त्री अवदत्—
332ba0cfb2eff0967f4a6e6c2cec5df2_271918641.jpg


नवदिल्ली, १५ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य प्रातः सर्वप्रथमं देशवासिभ्यः स्वातन्त्र्यदिवसस्य शुभ-कामनाः अयच्छत्। तस्य शुभकामना-सन्देशः तस्य रक्तदुर्गे आगमनात् पूर्वम् ‘एक्स’-माध्यमस्य हस्तलिखिते प्रसारितः। प्रधानमन्त्री अवदत्— “सर्वेभ्यः देश-वासिभ्यः स्वातन्त्र्य-दिवसस्य अनन्ताः शुभकामनाः। इदं राष्ट्रीयपर्व अस्मान् देशस्य वीर-स्वातन्त्र्यसेनानां अद्भुत-साहसं, अथकसंघर्षं मातृभूमिं प्रति अतुलनीय-समर्पणं च स्मारयति। आगच्छन्तु, तेषाम् आदर्शान् स्वीकृत्य विकसितभारतस्य सङ्कल्पं साकारं कुर्मः।”

रक्तदुर्गे आयोजितस्य मुख्यराजकीय-कार्यक्रमस्य सम्भावित-कार्यक्रमानुसारं लाहौरीद्वारे प्रधानमन्त्री मोदी प्रातः सपादसप्तवादने आगमिष्यति। तस्मात् पूर्वं रक्षामन्त्रालयस्य सर्वेऽपि अधिकारिणः तत्र समागमिष्यन्ति। रक्षामन्त्री राजनाथसिंहः अपि तस्य आगमनात् पूर्वमेव तत्र उपस्थितः भविष्यति। अस्मिन् अवसरे चीफ् ऑफ् डिफेन्स स्टाफ जनरल् एन. एस. राजासुब्रमणिः, स्थलसेना-वायुसेना-नौसेनानां प्रमुखाश्च उपस्थिताः भविष्यन्ति। समारोहं स्मरणीयं कर्तुं प्रतिवर्षमिव अस्मिन् वर्षेऽपि रक्षामन्त्रालयेन रक्तदुर्गस्य सज्जायां त्रिवर्णध्वजस्य वर्णयुक्तानि पुष्पाणि प्रयुक्तानि सन्ति।

प्रधानमन्त्री मोदी असीतितमे स्वातन्त्र्यदिवसस्य अवसरे राष्ट्रियधान्यां देहल्यां आयोजिते मुख्यसमारोहे रक्तदुर्गस्य प्राचीरात् देशं सम्बोधयिष्यति अपि। स्वनिवासस्थानात् प्रस्थानानन्तरं सः राष्ट्रियसमरस्मारकं गमिष्यति। बलि-दानिनां सैनिकान् प्रति श्रद्धाञ्जलिं समर्प्य रक्तदुर्गे आयोजिते समारोहे सम्मिलिष्यते। सः अनवरतं त्रयोदशमवारं रक्तदुर्गे ध्वजारोहणं करिष्यति। प्रधानमन्त्री-कार्यालयेन भाषणस्य विषयान् प्रति विचारा: आमन्त्रिताः आसन्। प्रथमवारं रक्तदुर्गे आयोजिते स्वातन्त्र्य-दिवससमारोहे राष्ट्रगीतम् वन्दे मातरम्’ राष्ट्रगानात् ‘जन गण मन’ इत्यस्मात् पूर्वं गास्यते।

Hindusthan Samachar / Divya Ranjan