Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 15 अगस्तमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी शनिवासरे लालदुर्गस्य प्राचीरात् २०४७ तमे वर्षे विकसितभारतस्य लक्ष्यं पूरयितुं विकासस्य गतिवर्धनाय आह्वानं कृतवान्। तेन अस्य कृते सप्तशक्तीनां वर्धने विशेषः बलः प्रदत्तः। सप्तशक्तिषु उत्पादनम्, कृषिः तथा खाद्यप्रसंस्करणम्, प्रौद्योगिकी तथा नवाचारः, गतिशक्तिः, रक्षाक्षेत्रे आत्मनिर्भरता, हरित-अर्थव्यवस्था तथा भारतस्य सौम्यशक्तिः च अन्तर्भवन्ति। एतदतिरिक्तं सः मानसिकनक्सलवादिभ्यः सावधानं भवितुं जनान् आह्वयन् अवदत् यत् देशस्य युवानः विकसितभारतस्य लक्ष्येन सह संयोजनीयाः सन्ति। राष्ट्रम् अद्य स्वस्य अष्टाशीतितमं स्वातन्त्र्यदिवसम् आचरति। अस्मिन् अवसरे प्रधानमन्त्री लालदुर्गस्य प्राचीरात् राष्ट्रं प्रति सम्बोधने स्वप्नानां सङ्कल्पेषु, सङ्कल्पानां सामर्थ्ये तथा सामर्थ्यस्य सफलतायां परिवर्तनस्य विषयम् उक्तवान्।
प्रायः सार्धैकहोरापर्यन्ते भाषणे प्रधानमन्त्री विगतेषु द्वादशवर्षेषु सर्वकारेण प्राप्तानाम् उपलब्धीनां उल्लेखं कृतवान्। तेन आत्मनिर्भरतायाः दिशि कृतान् प्रयासान् सर्वाधिकमहत्त्वपूर्णान् मन्यमानेन उक्तं यत् एतेषामेव परिणामस्वरूपं पश्चिमेशियायाः सदृशे सङ्कटकालेऽपि देशः सुदृढः स्थितवान्। सः अवदत् यत् अद्य विश्वं वैश्वीकरणस्य मोहजालात् बहिः निर्गत्य आपूर्तिशृङ्खलां शस्त्ररूपेण प्रयुङ्क्ते। अतः देशस्य आत्मनिर्भरता अधिकमावश्यकी भवति। अस्यैव दिशि तैले खनिजभाण्डारेषु च अन्वेषणाय सर्वकारेण पञ्चाशीतिसहस्रकोटिरूप्यकाणां राशिना ‘समुद्रमन्थन’ योजना प्रारब्धा अस्ति। सः अवदत् यत् चिन्तनस्य दरिद्रतायाः कारणादेव अद्यावधि समुद्रस्य नवतिनव प्रतिशतक्षेत्रे खनिजान्वेषणस्य विचारोऽपि न कृतः। सः अवदत्, “सस्तं सुलभतया च प्राप्यमाणं विदेशीयवस्तु तत्कालिकं सौकर्यं दातुं शक्नोति, किन्तु तेन देशस्य स्वकीयसामर्थ्यस्य विकासो न भवति। अतः आत्मनिर्भरभारतस्य सङ्कल्पः आवश्यकः।”
प्रधानमन्त्री विपक्षं प्रति लक्ष्यं कृत्वा अवदत् यत् पश्चिमेशियासङ्कटकाले केचन जनाः देशं भयभीतं कर्तुं आनन्दम् अनुभवन्ति स्म, किन्तु देशेन दृष्टं यत् विगतानां दशद्वादशवर्षाणां सुविचारितयोजनाः कार्यं कुर्वन्ति। अस्यैव कारणेन देशः पेट्रोलस्य, डीजलस्य, यूरियायाः च अभावस्य सङ्कटात् सुरक्षितः अस्ति। सः अवदत् यत् विश्वे यूरियायाः मूल्यं यद्यपि एकस्याः पुटिकायाः प्रायः त्रिसहस्ररूप्यकाणि यावत् प्राप्तम्, तथापि भारतीयकृषकेभ्यः तत् त्रिशतं रूप्यकेषु प्रदीयते।
सः अवदत्, “वैक्सीनं न प्राप्स्यते, कोविडकाले जनाः न रक्षिष्यन्ते, किमपि न भविष्यति… पश्चिमेशियायाः सङ्कटम् आगतम्, पेट्रोलपम्पेषु पेट्रोलं न प्राप्स्यते, गैसं न प्राप्स्यते, डीजलं न प्राप्स्यते, उर्वरकं न प्राप्स्यते… विश्वव्यापिनीः अफवाहाः प्रसार्य भारतस्य जनान् भयभीतान् कर्तुं, त्रासयितुं, चिन्तायां निमज्जयितुं केषाञ्चित् जनानाम् आनन्दः आसीत्। किन्तु देशेन दृष्टं यत् विगतानां दशद्वादशवर्षाणां सुविचारितयोजनाः फलिताः भवन्ति। एतादृशे महति सङ्कटेऽपि ‘नागरिकदेवो भव’ इति मन्त्रं स्वीकृत्य भारतं याः सज्जताः अकरोत्, सङ्कटकाले यानि पदानि क्रमेण स्वीकृतानि, तानि सर्वाणि कार्यं कृतवन्ति। अद्य देशे गैसम् अस्ति, पेट्रोलमपि अस्ति, यूरियमपि अस्ति।”
प्रधानमन्त्री युवानः २०४७ तमे वर्षे विकसितभारतस्य लक्ष्यस्य सर्वाधिकं लाभार्थिनः इति मन्यमानः अवदत् यत् तान् अस्मिन् लक्ष्ये संयोजयितुम् अत्यावश्यकम् अस्ति। एतदतिरिक्तं प्रधानमन्त्री देशवासिभ्यः विशेषतः युवभ्यः मानसिकनक्सलवादिभ्यः सावधानं भवितुम् आह्वानं कृतवान्। सः अवदत् यत् दशकैः सत्तायां स्थितवन्तः एते मानसिकनक्सलवादिनः अधुना अवसरस्य अन्वेषणं कुर्वन्तः अराजकतायाः नवीनमार्गान् अन्विष्यन्ति। एते समाजं विपरीतमार्गे नेतुं नानाविधानि उपायानि प्रयुञ्जते। सः अवदत् यत् देशेन हत्याकारिणां नक्सलवादिनां समूलं निर्मूलयितुं सफलता प्राप्ता, अधुना मानसिकनक्सलवादिनः अभिज्ञाय पृथक् कर्तुं आवश्यकता अस्ति।
सः अवदत्, “२०१४ तमे वर्षे यदा भवन्तः अस्मभ्यं अवसरं दत्तवन्तः, तस्मिन्नेव दिने वयं सङ्कल्पं कृतवन्तः यत् देशं नक्सलवादात् मुक्तं करिष्यामः। अद्य अहं हर्षितोऽस्मि यत् नक्सलीमाओवादीहिंसायां अन्तिमश्वासस्य शक्तिरपि न अवशिष्टा। सशस्त्रनक्सलवादिनः गताः, किन्तु मानसिकनक्सलवादिनः अवसरस्य अन्वेषणं कुर्वन्ति। ते हिंसायाः अराजकतायाश्च मार्गान् अन्विष्यन्ति। समाजं विपरीतमार्गे नेतुं नानाविधानि उपायानि प्रयुञ्जते। एतान् मानसिकनक्सलवादिनः अभिज्ञातुं आवश्यकम्।”
मोदी सर्वकारस्य पक्षतः कतिपयाः घोषणाः अपि कृतवान्। सः अवदत् यत् देशः एकस्मिन् वर्षे एककोटियुवभ्यः कृत्रिमबुद्धिमत्तायाः अर्थात् एआई इत्यस्य प्रशिक्षणं दास्यति। २०३६ तमे वर्षे ओलिम्पिकक्रीडायाः सज्जतायै येषु क्रीडाक्षेत्रेषु भारतस्य सहभागिता नास्ति, तेषु पञ्चवर्षात् पञ्चदशवर्षपर्यन्तानां बालानां कृते प्रतिभान्वेषणकार्यक्रमः सञ्चालयिष्यते। सः अवदत् यत् बहूनि कुटुम्बानि बालानां प्रतियोगिपरीक्षाणां प्रशिक्षणाय महत् धनं व्ययन्ति। भारतः स्वस्य डिजिटलमूलभूतसंरचनायाः उपयोगं कृत्वा विभिन्नानां प्रतियोगिपरीक्षाणां कृते सम्पूर्णं ऑनलाइनप्रशिक्षणवर्गाणां मूलभूतसंरचनां निर्माय बालकेभ्यः प्रशिक्षणं प्रदास्यति। सः एतदपि अवदत् यत् देशस्य आन्तरिकसुरक्षां सुदृढां कर्तुं नागरिकेभ्यः नागरिकसुरक्षायाः प्रशिक्षणं प्रदास्यते।
प्रधानमन्त्री सर्वेभ्यः राजनीतिकदलेभ्यः लोकसभायां राज्यविधानसभासु च महिलानां त्रयस्त्रिंशत्प्रतिशतं आरक्षणं प्रदातुं सम्बद्धस्य विधेयकस्य पारणाय सहयोगं कर्तुम् आह्वानं कृतवान्। सः अवदत् यत् राजनीतौ महिलानां सहभागितायाः वृद्धिः समयस्य आवश्यकता अस्ति तथा सर्वैः दलैः महिलानां सम्मानाय तासाम् अधिकाराय च अग्रे आगन्तव्यम्।
मोदी युवभ्यः जनगणनायां सक्रियभागं ग्रहीतुम् आह्वानं कृतवान्। सः अवदत् यत् जनगणना केवलं सङ्ख्यानां सङ्ग्रहणस्य कार्यं नास्ति, अपितु एतासाम् सूचनानाम् आधारेण नीतयः, योजनाः, देशस्य विकासस्य रूपरेखा च निर्मीयन्ते। अतः सटीकां विस्तृतां च सूचनां प्रदातुं राष्ट्रस्य विकासे महत्त्वपूर्णं योगदानं भविष्यति। प्रौद्योगिक्याः उपलब्धतायाः कारणेन नागरिकाः स्वयमेव चलदूरवाण्या जनगणनासम्बन्धिनीं सूचनां पूरयितुं शक्नुवन्ति। प्रधानमन्त्री युवभ्यः कुटुम्बस्य सदस्यैः सह उपविश्य पूर्वं सूचनां परीक्षितुं ततः डिजिटलमाध्यमेन तां प्रविष्टुं च आग्रहं कृतवान्। तस्य मतानुसारं सम्यक् सूचना सर्वकारीययोजनानां नीतिनां च अधिकं प्रभावपूर्णं निर्माणे सहायकः भविष्यति।
प्रधानमन्त्री अवदत् यत् भारतस्य वैश्विकप्रतिष्ठा निरन्तरं सुदृढा भवति। स्थिरं राजनीतिकजनादेशम्, स्थिरः सर्वकारः, सजीवं लोकतन्त्रम्, सुदृढा न्यायव्यवस्था, संविधानं च भारतस्य शक्तयः सन्ति। विश्वम् अधुना एतासां क्षमतानां परिचयं प्राप्नोति। २०१४ तमवर्षात् परं प्रायः चत्वारिंशता देशैः सह मुक्तव्यापारसम्झौतानां दिशि अग्रे गमनम् अस्य परिवर्तमानस्य वैश्विकस्थितेः सङ्केतः अस्ति।
मोदी मुक्तव्यापारसम्झौतान् भारतीयोद्योगस्य विशेषतः सूक्ष्मलघुमध्यमोद्योगानां कृते महदवसरं मन्यते। सः अवदत् यत् भारतीयवस्त्राणि, यन्त्राणि, औषधानि अन्यानि च उत्पादनानि विश्वविपणिं प्रति गन्तव्यानि। अस्य कृते भारतीयउत्पादानां वैश्विकमानदण्डानुरूपा उत्तमा गुणवत्ता तथा प्रतिस्पर्धात्मकं मूल्यं च भवितव्यम्।
सः अवदत् यत् विकसितभारतस्य लक्ष्याय कार्यसंस्कृतेः, चिन्तनस्य, कार्यगतेः च परिवर्तनम् आवश्यकम् अस्ति। विगतेषु पञ्चसप्ततिदशकेषु ये कार्याः पूर्णाः न अभवन्, तान् आगामिषु पञ्चसप्तवर्षेषु पूर्णं कर्तुं लक्ष्यं भवेत्। युवशक्तेः, महिलाशक्तेः, कृषकाणां, श्रमिकाणां च सामर्थ्ये विश्वासं प्रकटयन् सः सुधाराणां गतिं वर्धयितुम् आह्वानं कृतवान्।
प्रधानमन्त्री भारतस्य कम्पनीभ्यः वैश्विकस्तरे महतीं भूमिकां निर्वोढुं लक्ष्यं निर्धारयितुम् उक्तवान्। सः आगामिदशके फॉर्च्यून पञ्चशते भारतस्य पञ्चाशत् कम्पनयः भवन्तु, विश्वस्य शीर्षपञ्चसु बैंकेषु भारतीयः बैंकः अन्तर्भवतु तथा प्रमुखासु औषधनिर्माणकम्पनीषु भारतीयकम्पनयः स्थानं प्राप्नुवन्तु इति लक्ष्यं स्वीकर्तुम् आह्वानं कृतवान्। वैश्विकविधिक्षेत्रे, परामर्शक्षेत्रे, लेखाङ्कनक्षेत्रे च भारतीयनेतृत्वस्य आवश्यकता अस्ति इत्यपि सः उक्तवान्।
सः अवदत् यत् सुधाराः सर्वकारस्य कृते बाध्यता वा भारो वा न सन्ति, अपितु विश्वासस्य विषयः सन्ति। अस्यैव विश्वासेन भारतः सुधाराणां नवीनदिशि अग्रे गच्छति। सः अवदत् यत् सर्वकारः, समाजः, उद्योगः, कृषकाः तथा सर्वे वर्गाः स्वकीयपरम्परागतव्यवस्थानां, चिन्तनस्य, लक्ष्याणां च सुधारं कर्तव्यं यथा विकसितभारतस्य अनुरूपा नवीनव्यवस्था निर्मातुं शक्येत।
मोदी अवदत् यत् कृत्रिमबुद्धिमत्तायाः, चिपस्य, दत्तांशकेन्द्राणां च विस्तारस्य सह ऊर्जायाः आवश्यकता शीघ्रं वर्धिष्यते। ऊर्जासुरक्षायै परमाणुशक्तिं महत्त्वपूर्णं माध्यमं मन्यमानः सः २०४७ तमवर्षपर्यन्तं शतगीगावाट् परमाणुशक्तिक्षमतायाः लक्ष्यं निर्धारितवान्। सः अवदत् यत् अस्मिन्नेव दशके पञ्च नवीनाः परमाणुप्रतिक्रियकाः प्रारब्धाः भविष्यन्ति।
प्रधानमन्त्री देशवासिभ्यः अष्टाशीतितमस्य स्वातन्त्र्यदिवसस्य शुभकामनाः दत्त्वा अवदत् यत् अद्य प्रत्येकं हृदयं वन्देमातरम् इत्यनेन गुञ्जति तथा प्रत्येकं गृहं प्रत्येकं मनश्च त्रिवर्णध्वजेन सह सम्बद्धम् अस्ति। सः देशस्य केषुचित् भागेषु आगताभिः बाढिभिः अन्याभिः च प्राकृतिकापद्भिः प्रभावितानां परिवाराणां प्रति संवेदनामपि व्यक्तवान्। सः अवदत् यत् देशः तेषां दुःखं वेदनां च अवगच्छति तथा पीडितपरिवारान् विश्वासं ददाति यत् सर्वकारः सम्पूर्णश्च देशः तेषां सह स्थितः अस्ति।
सः विकसितभारतस्य कृते सप्तशक्तीनां धारायाः आह्वानं कृतवान्। सः अवदत् यत् आगामिषु पञ्चसप्तवर्षेषु तानि कार्याणि पूर्णं कर्तुं एतासां सप्तशक्तीनाम् उपयोगः क्रियते, यानि विगतेषु बहुषु दशकाः पूर्णानि न अभवन्। एताभिः शक्तिभिः युवसामर्थ्यमपि राष्ट्रनिर्माणेन सह संयोज्य देशं नवीनगतिं नवीनां च ऊर्ध्वतां नेतुं लक्ष्यं निर्धारितम्।
प्रधानमन्त्री मोदी अवदत् यत् भारतं लघुभ्यः पुर्जेभ्यः आरभ्य बृहदुत्पादपर्यन्तं सम्पूर्णां मूल्यशृङ्खलां विकसितुं अर्हति। रूपाङ्कनात् निर्माणपर्यन्तं भारतं वैश्विकापूर्तिशृङ्खलायाः विश्वसनीयं केन्द्रं भवेत्। व्ययस्य, गुणवत्तायाः, उत्पादनक्षमतायाः च वैश्विकमानदण्डान् पूरयितुं आवश्यकम् अस्ति। सः उद्यमिभ्यः एमएसएमई इत्येतेभ्यश्च वैश्विकविपण्ये विश्वसनीयतया गुणवत्तया च स्वकीयां परिचितिं निर्मातुम् आह्वानं कृतवान्।
सः अवदत् यत् व्यापारसम्झौतानन्तरं भारतीयकृषकाणां कृते वैश्विकविपण्यस्य द्वाराणि उद्घाटितानि भवन्ति। क्षेत्रात् निर्यातविपण्यपर्यन्तं सम्पर्कः स्थापनीयः। श्रीधान्यानि, मसालाः, फलानि, पुष्पाणि, पारम्परिकखाद्यपदार्थाश्च वैश्विकब्राण्डरूपेण विकसितव्याः तथा रसायनमुक्तकृषेः प्रोत्साहनं कर्तव्यम्।
प्रधानमन्त्री कृत्रिमबुद्धिमत्ताम्, क्वाण्टमतन्त्रज्ञानम्, अन्तरिक्षम्, रोबोटिकीतन्त्रज्ञानं, दत्तांशकेन्द्राणि च उदितानवसरान् रूपेण निर्दिष्टवान्। सः अवदत् यत् भारतः केवलं वैश्विकविपणिः न भवेत्, अपितु नवाचारस्य केन्द्रमपि भवेत्। डिजिटलसार्वजनिकमूलभूतसंरचनायाः सफलतायाः अनन्तरं अगलीपीढ्याः सञ्चारप्रौद्योगिक्यां नेतृत्वं तथा भारतविकसितस्य षष्ठपीढी सञ्चारतन्त्रज्ञानस्य विकासः लक्ष्यीकृतः।
मोदी शीघ्रां निर्बाधां च सम्पर्कव्यवस्थां प्रति बलं दत्तवान्। नगराणि उच्चगतिरैलयानैः संयोजयितुं, आधुनिकराजमार्गान्, अन्तर्देशीयजलमार्गान्, विमानपत्तनानि, बहुमाध्यमपरिवहनव्यवस्थां च विकसितुं आवश्यकता निर्दिष्टा। पत्तनानि केवलं मालारोहणावरोहणकेन्द्राणि न भवन्तु, अपितु पत्तनाधारितविकासस्य आर्थिकक्रियाकलापानां च केन्द्राणि भवन्तु इति बलं दत्तम्।
प्रधानमन्त्री अवदत् यत् रक्षाक्षेत्रे आत्मनिर्भरता अधुना भारतस्य आवश्यकता अभवत्। भारतं नवीनपीढ्याः रक्षाप्रौद्योगिकीं विकसित्य वैश्विकापूर्तिकर्ता भवितुं लक्ष्यं धारयेत्। ड्रोन, ड्रोनविरोधीप्रणाली, अतिध्वनिरक्षाप्रौद्योगिकी च क्षेत्रेषु नेतृत्वं कर्तव्यम् तथा साइबरसुरक्षां महत्त्वपूर्णक्षेत्ररूपेण विकसितुं आवश्यकम्।
सः हरितहाइड्रोजनम्, नवीकरणीयऊर्जा, ऊर्जासञ्चयः, हरितगतिशीलता, हरितनिर्माणं च वैश्विकस्तरं प्राप्तुं आह्वानं कृतवान्। भारतस्य दीर्घां समुद्रसीमां नीलार्थव्यवस्थायै महदवसरं मन्यमानः सः मत्स्यपालनम्, तटीयपर्यटनं, समुद्रीतन्त्रज्ञानं च विस्तारयितुं सम्भावनासु बलं दत्तवान्।
प्रधानमन्त्री योगम्, आयुर्वेदम्, समग्रस्वास्थ्यम्, आस्थाकेन्द्राणि, हस्तशिल्पम्, संस्कृतिम्, चलचित्रम्, दृश्यप्रभावम्, सङ्गणकचलचित्रनिर्माणम्, क्रीडाप्रौद्योगिकीं, डिजिटलसामग्रीं च वैश्विकस्तरे भारतस्य परिचयं निर्मातुं माध्यमरूपेण निर्दिष्टवान्। सः रचनात्मक-अर्थव्यवस्थां वैश्विकसामर्थ्ये परिवर्तयितुं तथा भारतस्य सांस्कृतिकशक्तिं विश्वपर्यन्तं नेतुं बलं दत्तवान्। सः अवदत् यत् भारते पर्यटनस्य वैश्विककार्यक्रमाणां च अपाराः सम्भावनाः सन्ति। भारतस्य सौम्यशक्त्या वैश्विकपर्यटकान्, कलाकारान्, विविधकार्यक्रमांश्च देशेन सह संयोजयितुं शक्यते।
सः अवदत् यत् स्टार्टअप-इण्डिया-अभियानस्य अन्तर्गतं देशे सार्धद्विलक्षाधिकाः पञ्जीकृताः नवोद्यमाः अभवन्। युवभ्यः रोजगारं प्रदातुं नवीनावसरान् च सृजितुं नवोद्यमानां महत्त्वपूर्णा भूमिका अस्ति। सर्वकारेण घोषितस्य एकलक्षकोटिरूप्यकाणां नवाचारकोषस्य उल्लेखं कुर्वन् सः युवभ्यः संसाधनानां न्यूनता न भविष्यतीति विश्वासं दत्तवान्।
प्रधानमन्त्री कौशलभारतं, डिजिटलभारतं, अन्तरिक्षक्षेत्रस्य निजिक्षेत्राय उद्घाटनम्, राष्ट्रियड्रोननीतिं, खेलोभारतं च इत्यादीनां योजनानाम् उल्लेखं कृतवान्। नवीनशिक्षानीत्या युवभ्यः नवीनावसराः उत्पद्यन्ते इति सः अवदत्। सः अवदत् यत् २०१४ तमवर्षात् पूर्वापेक्षया विश्वविद्यालयानां सङ्ख्यायां उल्लेखनीया वृद्धिः अभवत् तथा उच्चशिक्षायाः विस्तारः जातः। प्रधानमन्त्री चिकित्साशिक्षायाः विस्तारस्य उल्लेखं कुर्वन् अवदत् यत् २०१४ तमवर्षात् पूर्वं देशे प्रायः चतुःशतं चिकित्सकीयस्थानानि आसन्, अधुना तेषां सङ्ख्या प्रायः अष्टशतपञ्चाशत् अभवत्। विदेशीयविश्वविद्यालयानां भारतागमनं तेषां पदवी भारतदेशे एव प्राप्तुं व्यवस्था च युवभ्यः नवीनावसररूपेण निर्दिष्टा।
मोदी बालकेषु तन्त्रज्ञानस्य नवाचारस्य च रुचिं वर्धयितुं अटल-टिङ्करिङ्ग-प्रयोगशालानाम् उल्लेखं कृतवान्। सः अवदत् यत् दशसहस्राधिकाः एतादृश्यः प्रयोगशालाः बालकेभ्यः उपलब्धाः कृताः सन्ति, येन लघुवयस एव तेषु तकनीकीचिन्तनस्य, प्रयोगस्य, नवाचारस्य च प्रवृत्तिः विकसितुं शक्यते। सः निजी-अन्तरिक्षक्षेत्रे युवानां उपलब्धीनाम् उल्लेखं कृतवान्। सः अवदत् यत् युवोद्यमिभिः अल्पवयसि एव उपग्रहाणां रॉकेटयानानां च प्रक्षेपणक्षेत्रे उल्लेखनीया सफलता प्राप्ता। एतेन अन्तरिक्षक्षेत्रे निजीभागीदारीयै युवप्रतिभायै च नवीनावसराः उद्घाटिताः इति सः अवदत्।
प्रधानमन्त्री जैव-अर्थव्यवस्थायां भारतस्य प्रगतेः उल्लेखं कृतवान्। सः अवदत् यत् २०१४ तमवर्षात् पूर्वं प्रायः षष्टिसहस्रकोटिरूप्यकाणां व्यापारः आसीत्, यः अधुना वर्धित्वा प्रायः विंशतिलक्षकोटिरूप्यकाणि अभवत्। स्पष्टनीतीनां युवानां सामर्थ्यस्य च परिणामरूपेण अस्य विकासं निर्दिश्य जैव-अर्थव्यवस्थां नवीनावसरैः युक्तं क्षेत्रम् इति उक्तवान्।
सः युवानां सम्मुखे मादकद्रव्यसेवनं महतीं चुनौतीं निर्दिश्य नशामुक्तभारतं सामूहिकदायित्वम् इति अवदत्। ‘माय भारत’स्य स्वयंसेवकैः, अशासकीयसंस्थाभिः, सामाजिकसांस्कृतिकसंस्थाभिः, आध्यात्मिकनेतृत्वेन च सहकार्येण शतसप्ताहात्मकम् अभियानं सञ्चालयिष्यते इति सूचितवान्। सः प्रत्येकस्मात् परिवारात् अस्मिन् अभियाने संयोजितुं युवानां सुरक्षितभविष्याय योगदानं दातुम् आह्वानं कृतवान्।
प्रधानमन्त्री नेताजी सुभाषचन्द्रबोसः, डॉ. बी.आर. आम्बेडकरः, जवाहरलालनेहरूः, सरदारपटेलः, भगतसिंहः, सुखदेवः, राजगुरुः, डॉ. श्यामाप्रसादमुखर्जी, भगवान् बिरसामुण्डा, ज्योतिबाफुले इत्येतेषां विभिन्नानां महापुरुषाणां स्वप्नेभ्यः प्रेरणां ग्रहीतुम् आह्वानं कृतवान्। सः अवदत् यत् व्यक्तिगतहितात् उपरि राष्ट्रहितं कर्तव्यं च स्वकीयपरिचयरूपेण स्वीकर्तव्यम्।
स्वकीयसम्बोधने प्रधानमन्त्री स्वसर्वकारस्य उपलब्धीनां गणनां कृत्वा अवदत् यत् विगतेषु द्वादशवर्षेषु देशवासिनां सामूहिकप्रयासस्य परिणामरूपेण पञ्चविंशतिकोटिजनाः दरिद्रतायाः बहिः आगताः। भारतः कदाचित् विश्वस्य दुर्बलमन्यमानानां देशानां समूहस्य अन्तर्गतः गण्यते स्म, किन्तु विगतेषु द्वादशवर्षेषु देशेन तीव्रा आर्थिकप्रगतिः कृता।
प्रधानमन्त्री अवदत् यत् विकासेन सह सामान्यनागरिकाणां सुविधासु अपि ध्यानं दत्तम्। नलजलसम्पर्कप्रदानस्य गतिः, गैससम्पर्कः, दरिद्रेभ्यः शौचालयनिर्माणम्, आवासनिर्माणस्य च वेगः निर्दिश्य सः अवदत् यत् सर्वकारेण मूलभूतसुविधानां व्यापकस्तरे वितरणस्य कार्यं कृतम्।
सः शासनव्यवस्थायां परिवर्तनस्य उल्लेखं कुर्वन् अवदत् यत् सहस्राणि अनुपालनानि समाप्तानि तथा शतशः प्राचीनाः विधयः निरस्ताः। सः अवदत् यत् गतशताब्द्याः विधीनाम् आधारेण एकविंशतितमशताब्द्याः प्रगतिः सम्भवा नास्ति। आधुनिकमूलभूतसंरचना, मेट्रोरेलयानानि, सार्वजनिकपरिवहनस्य विस्तारश्च एतस्य परिवर्तनस्य भागरूपेण निर्दिष्टाः।
प्रधानमन्त्री अर्धचालकं आधुनिकस्य डिजिटलस्य तान्त्रिकस्य च जगतः अनिवार्यावश्यकता इति निर्दिष्टवान्। सः अवदत् यत् विद्युतीयवस्तूनां, चिकित्सोपकरणानां, परिवहनस्य च अनेकासु क्षेत्रेषु चिप् इत्यस्य आवश्यकता भवति। भारतदेशे त्रयः अर्धचालकसंयन्त्राः प्रारब्धाः तथा तेषां उत्पादनस्य निर्यातः प्रारब्धः इति सूचयन् आगामीषु वर्षेषु बहूनि अन्यानि संयन्त्राणि प्रारप्स्यन्ते इति उक्तवान्।
सः महत्त्वपूर्णखनिजाणि आधुनिकतन्त्रज्ञानाय आवश्यकानि इति निर्दिश्य भारतस्य रणनीतेः उल्लेखं कृतवान्। राष्ट्रियमहत्त्वपूर्णखनिजपहलस्य तथा महत्त्वपूर्णखनिजगलियारस्य घोषणया सह विभिन्नैः देशैः सम्झौताः क्रियन्ते। सः अवदत् यत् बहवः देशाः अधुना महत्त्वपूर्णखनिजक्षेत्रे भारतं प्रति विश्वासं कर्तुं प्रारब्धवन्तः।
मोदी ऊर्जाक्षेत्रे विगतानां द्वादशवर्षाणां गतिवर्धनस्य उल्लेखं कृतवान्। नलिकामार्गेण गैससुविधां प्राप्यमाणानां नगराणां सङ्ख्या सप्ततितः सप्तशतं यावत् वर्धिता तथा नलिकामार्गेण गैसप्राप्तानां गृहाणां सङ्ख्या प्रायः द्विकोटिपर्यन्तं प्राप्ता इति सः अवदत्। सौरऊर्जाक्षमता द्विगिगावाटतः षोडशाधिकशतगिगावाट् यावत् वर्धिता इत्यपि निर्दिष्टम्। सामान्यपरिवारं मध्यमवर्गं च ऊर्जापरिवर्तनस्य लाभं दातुं प्रधानमन्त्रीसूर्यगृहः निःशुल्कविद्युत् योजना प्रारब्धा। अस्याः योजनायाः अन्तर्गतं पञ्चाशल्लक्षगृहेषु सौरऊर्जासम्बन्धी कार्यं पूर्णम् अभवत् इति सूचितम्।
प्रधानमन्त्री रेलविद्युतीकरणस्य गतौ परिवर्तनस्य उल्लेखं कृतवान्। सः अवदत् यत् १९२५ तमवर्षात् प्रारब्धे कार्ये नवतिवर्षेषु केवलं त्रिंशत्प्रतिशतं रेलमार्गजालस्य विद्युतीकरणं जातम् आसीत्, किन्तु विगते दशके अवशिष्टं सप्ततिप्रतिशतं कार्यं पूर्णम् अभवत्। हाइड्रोजनशक्त्या चाल्यमानस्य देशस्य प्रथमस्य रेलयानस्य प्रारम्भमपि महत्त्वपूर्णोपलब्धिरूपेण निर्दिष्टम्।
मोदी राज्येभ्यः स्थानीयस्वशासनसंस्थाभ्यश्च सुधाराणां गतिं वर्धयितुम् आह्वानं कृतवान्। सः अवदत् यत् केन्द्रसर्वकारः, राज्यसर्वकाराः, उद्योगः, समाजश्च मिलित्वा अग्रे गन्तव्यम्। प्रधानमन्त्री विद्युत्वाहनक्षेत्रस्य वृद्धेः उल्लेखं कुर्वन् अवदत् यत् २००९-१० तमे वर्षे प्रायः सार्धैकलक्षं विद्युत्वाहनानि विक्रीतानि आसन्, किन्तु २०२५-२६ तमे वर्षे तेषां सङ्ख्या प्रायः पञ्चविंशतिलक्षं प्राप्ता। विमाननक्षेत्रे नवीनविमानपत्तनानां, मार्गाणां, रोजगारावसराणां च उल्लेखं कृतवान्। विमानरक्षणस्य मरम्मतायाश्च तथा भारतनिर्मितस्य रक्षापरिवहनविमानस्य च नवीनावसरैः सह सम्बन्धं स्थापितवान्।
सः ड्रोनतन्त्रज्ञानस्य उपयोगस्य उदाहरणं दत्त्वा स्वामित्वयोजनायाः उल्लेखं कृतवान्। सः अवदत् यत् ग्रामेषु ड्रोनमाध्यमेन सम्पत्तीनां सर्वेक्षणं कृतम् तथा प्रायः पञ्चकोटिपरिवाराः तस्य लाभं प्राप्तवन्तः। एतेन विशालमात्रायां सम्पत्तेः आर्थिकक्षमता उद्घाटिता तथा जनानां कृते बैंकऋणस्य व्यवसायस्य च नवीनावसराः उत्पन्नाः।
प्रधानमन्त्री मोदी अवदत् यत् विकसितभारतस्य लक्ष्यं तदैव पूर्णं भविष्यति यदा विकासस्य लाभः समाजस्य अन्तिमव्यक्तिपर्यन्तं प्राप्स्यति। सामाजिकसुरक्षायाः विस्तारं तेन अस्यैव दिशि महत्त्वपूर्णं पदम् इति निर्दिष्टम्। तस्य अनुसारं २०१४ तमवर्षात् पूर्वं प्रायः पञ्चविंशतिकोटिजनानां समीपे सामाजिकसुरक्षायाः कवचम् आसीत्, किन्तु विगते एकदशके तस्य कवचस्य विस्तारः प्रायः शतकोटिजनानां यावत् अभवत्। मोदी आयुष्मानभारतयोजनया वृद्धेभ्यः दरिद्रपरिवारेभ्यश्च स्वास्थ्यसुरक्षायाः प्राप्तेः उल्लेखं कृतवान्। सः अवदत् यत् सप्ततिवर्षीयाणां वृद्धानामपि निःशुल्कचिकित्सा औषधानि च प्रदीयन्ते।
सः स्वस्य पूर्वोक्तस्य पञ्चप्राणानाम् आह्वानस्य उल्लेखं कुर्वन् अवदत् यत् एते सङ्कल्पाः देशं आत्मगौरवस्य दिशि अग्रे गन्तुं सामर्थ्यं प्रदत्तवन्तः। सः दास्यमानसिकतायाः निरन्तरं परित्यागं तथा भारतस्य स्वातन्त्र्यस्य राष्ट्रनिर्माणस्य च स्वप्नं दृष्टवद्भ्यः महानायकेभ्यः क्रान्तिकारिभ्यश्च प्रेरणां ग्रहीतुम् उक्तवान्।
---------------
Hindusthan Samachar / Divya Ranjan