Enter your Email Address to subscribe to our newsletters

नवदिल्ली, १५ अगस्तमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रमोदी अद्य रक्तदुर्गे आयोजिते स्वातन्त्र्यदिवससमारोहे देशे शक्तेः सप्तधाराणाम् आह्वानं कृतवान्। सः अवदत्— “अद्य रक्तदुर्गस्य प्राचीरात् अहं देशे शक्तेः सप्तधाराणाम् आह्वानं करोमि। यत् पञ्चदशकेषु न अभवत्, तत् पञ्च-सप्तवर्षेषु कर्तुं नूतनशक्तिं प्रदास्यामः। अस्मिन् यूनां शक्तिरपि संयोजिता भविष्यति।”
सः अवदत्— “सप्तधाराणां शक्तिः उत्पादनस्य शक्तिः अस्ति। अस्माभिः विनिर्माणं वर्धयितव्यम्। उत्पादनेन सह अस्माभिः लघूनि लघूनि वस्तुनि अपि निर्मातव्यानि, बृहदुत्पादानि अपि निर्मातव्यानि। सम्पूर्णमूल्यशृङ्खलायाम् अस्माकम् अधिकारः भवेत्। परिकल्पनात् उत्पादनपर्यन्तं भारतं वैश्विकापूर्ति-शृङ्खलायाः केन्द्रं कर्तव्यम्। उत्पादने क्षेत्रे ये जनाः कार्यं कुर्वन्ति, तेषां कृते इदम् अवसरः अस्ति। अतः अस्माभिः गुणवत्तायाः परिमाणस्य च विषये वैश्विकमानदण्डान् पूरयितव्यम्। दोषरहितानि उत्पादनानि अस्माकं परिचयः भवेयुः, इति निश्चितं कर्तव्यम्। वैश्विकविपण्ये अस्माकं परिचयः गुणवत्तायाः आधारेण भविष्यति। गुणवत्तायाः विषये किमपि सन्धि: न भवेत्। अस्माकं लक्ष्यं गुणवत्ता, गुणवत्ता, गुणवत्ता च भवेत्।”
प्रधानमन्त्री मोदी अवदत्— “सुधारान् अग्रे नेतुम् अपि आवश्यकम् अस्ति। एषः अस्माकं दृढविश्वासः अस्ति। अग्रिमेषु दिनेष्वपि वयं सुधाराणां नूतनस्तरस्य दिशि गन्तुं प्रवर्तिष्यामहे। सर्वैः स्वकीयासु पारम्परिकव्यवस्थासु, चिन्तनेषु, लक्ष्येषु च सुधारः करणीयः। अस्माभिः कृषकान् श्रमिकांश्च नूतनदिशायां नेतव्यम्। विकसितभारतस्य निर्माणाय अस्मभ्यं नूतना धारा आवश्यकी अस्ति।”
सः अवदत्— “अस्माकं समुद्रीभोजनस्य वैश्विकस्तरे अग्रे गन्तुं सम्भावना वर्तते। अस्माकं समुद्रतटीयपट्टिका अस्मिन् क्षेत्रे महत् कार्यं कर्तुं शक्नोति। मया भवद्भ्यः पुरतः या भूमिका प्रस्तुता, तस्याः पृष्ठतः २०४७ तमस्य वर्षस्य लक्ष्यं दृढाधारे स्थितम् अस्ति। गतदश-द्वादशवर्षेषु देशवासिभिः या सामर्थ्यशक्तिः प्रदर्शिता, सा आत्मनिर्भर-भारतस्य अङ्गम् अस्ति। तस्य लक्ष्यस्य चतुर्थांशः व्यतीतः अस्ति, अधुना तु अस्माभिः लक्ष्यं प्राप्त्वैव विरन्तव्यम्। अस्माभिः स्वसंस्कृतिं, चिन्तनं कार्यगतिं च परिवर्तयितव्यम्। यानि कार्याणि गतपञ्चदशकेषु न अभवन्, तानि कार्याणि कर्तुं अस्माभिः पञ्च-सप्तवर्षाणि एव लग्नानि। अहं विश्वसिमि यत् वयं स्वप्नमिदं साकारं कर्तुं शक्नुमः।”
प्रधानमन्त्री मोदी अवदत्— “भारतं सम्प्रति विश्वे स्थिरसर्वकारेण सह अग्रे वर्धते। विश्वे अस्माकं सम्मानं वर्धमानम् अस्ति। सर्वेषां दिशानिर्देशकः अस्माकं भारतस्य संविधानम् अस्ति। अद्य विश्वं भारतस्य सामर्थ्यं परिचिनोति। अधुना पश्यन्तु, कियत् महत् अवसरः प्राप्तः। व्यापारसन्धि: अभवत्। अतः अहं सूक्ष्मलघुमध्यमोद्योगेभ्यः वक्तुम् इच्छामि यत् अस्माभिः एतान् अवसरान् न परित्यक्तव्यम्। अस्माकं यन्त्राणि भवन्तु, वस्त्राणि भवन्तु, औषधानि भवन्तु— अस्माभिः अवसरः न त्यक्तव्यः। अस्माभिः गुणवत्तया सह अग्रे गन्तव्यम्। वैश्विकमानदण्डानुसारं चलितव्यम्।”
प्रधानमन्त्री नरेन्द्रमोदी अवदत्— “एकस्मिन् काले यदा अहम् आत्मनिर्भरतायाः विषये कथयामि स्म, तदा वातानुकूलितकक्षेषु उपविश्य चर्चां कुर्वन्तः केचन जनाः अस्मान् कथयन्ति स्म यत् वैश्वीकरणस्य किं भविष्यति। यस्मात् स्थानात् वैश्वीकरणस्य स्वरः आगच्छति स्म, तत् स्थानमेव वक्तुं विरतम्। सः अवदत्— ‘वयं न चिन्तितवन्तः आस्म यत् अस्माभिः केषाञ्चित् समस्यानां सम्मुखिनं कर्तव्यं भविष्यति। द्वादशवर्षेषु वयं कोरोनासदृशीं महामारीम् अनुभूतवन्तः, यया सम्पूर्णे विश्वे चिन्ता उत्पन्ना। कोरोनानन्तरं क्वचित् यूक्रेनदेशे, क्वचित् पश्चिम-एशियायां च तनावस्य वातावरणम् अस्ति। केषाञ्चित् जनानां तु केवलं देशं भयभीतं कर्तुं, जनान् त्रासयितुं च आनन्दः भवति। कोरोना-प्रतिषेधकं न प्राप्स्यते, इदं न भविष्यति, इति कथितम्। पेट्रोलस्थले पेट्रोलतैलं न प्राप्स्यते, वाति: न प्राप्स्यते, डीजलतैलं न प्राप्स्यते, उर्वरकं न प्राप्स्यते— इति कथयित्वा केचन जनाः देशं भयभीतं कर्तुं आनन्दम् अनुभवन्ति स्म। किन्तु देशेन दृष्टं यत् वयं ‘नागरिकदेवो भवः’ इति मन्त्रं स्वीकृत्य याः योजनाः अग्रे नीतवन्तः, ताभिः देशस्य कापि समस्या न अभवत्। अद्य देशे पेट्रोलतैलम् अपि अस्ति, वाति: अपि अस्ति, डीजलतैलम् अपि अस्ति। वयं स्वगत्या अग्रे वर्धामहे।’”
सः अवदत्— “वयं पञ्च परमाणु-प्रतिक्रिया: प्रारब्धुं लक्ष्यं स्वीकृत्य अग्रे वर्धामहे। सम्प्रति देशः अपक्वे तैले निर्भरः भवितुं बाध्यते, एतत् अस्माकं मिथ्या-चिन्तनस्य कारणेन अस्ति। अस्माभिः समुद्रतटस्य नवतिनवप्रतिशतं क्षेत्रं ‘निषिद्धक्षेत्रम्’ इति घोषितं कृत्वा स्थापितम् आसीत्। समुद्रस्य अन्तः गत्वा अन्वेषणं न करणीयम् इति निर्णयः अपि अस्माभिरेव कृतः आसीत्। ये नवतिनवप्रतिशतं क्षेत्राणि ‘निषिद्धक्षेत्राणि’ आसन्, तानि अस्माभिः उद्घाटितानि। अधुना वयं समुद्रस्य अन्तर्भागे अन्वेषणस्य प्रयासं कृतवन्तः। तस्यैव दिशि अस्माभिः ‘समुद्रमन्थनम्’ इति योजनायाः घोषणा कृता आसीत्। अधुना एव वयं पञ्चाशीतिसहस्रकोटिरूप्यकाणि विनियोज्य तस्य कार्यस्य अग्रे सञ्चालनं कृतवन्तः।”
Hindusthan Samachar / Divya Ranjan