Enter your Email Address to subscribe to our newsletters

हाथरसः, १५ अगस्तमासः (हि.स.)। सादाबादे शनिवासरे स्वातन्त्र्यदिवसस्य अवसरे शहीदस्मारकसमित्या रोडवेजबस-स्थानकस्य समीपे एकः कार्यक्रमः आयोजितः। अस्मिन् अवसरे राष्ट्राय आत्मबलिदानं कृतवद्भ्यः वीरबलि-दानिभ्यः श्रद्धाञ्जलिः समर्पिता तथा सैन्यात् सेवानिवृत्ताः सैनिकाः सम्मानिताः।
कार्यक्रमे भाजपानेता धर्मेन्द्रगौतमः, अशोकचौधरी इत्यादयः अन्ये च गणमान्यजनाः सैन्यात् सेवानिवृत्तान् सैनिकान् त्रिवर्णध्वजाङ्कितपट्टिकां परिधाय शाटिकां च आच्छाद्य सम्मानितवन्तः। वक्तारः अवदन् यत् राष्ट्रस्य रक्षायै जीवनं समर्पितवतां बलिदानिनां स्मृतिनां भाविवंशपर्यन्तं प्रेषणं समाजस्य सामूहिकं दायित्वम् अस्ति। भाजपानेता सुधीरगर्गः अस्मिन् अवसरे अवदत् यत् सादाबादे बलिदानिनां स्मृत्यर्थं स्थायिस्मारकस्थलस्य दीर्घ-कालतः अभावः अनुभूयते। तेन प्रस्तावितं यत् यदि शहीदस्मारकसमित्यै नगरे उपयुक्ता भूमिः उपलब्ध्यते, तर्हि अत्र भव्यस्मारकस्य निर्माणं सम्भवति। प्रस्ताविते अस्मिन् स्मारके क्षेत्रस्य शहीदानां चित्राणि तेषां वीरगाथाश्च प्रदर्शयिष्यन्ते। अस्य उद्देश्यं यत् जनाः शहीददिवसे अन्येषु च महत्त्वपूर्णेषु अवसरेषु तेभ्यः श्रद्धाञ्जलिं समर्पयितुं शक्नुयुः। गर्गः इदमपि अवदत् यत् एतादृशेन स्मारकेन शहीदपरिवारेषु गौरवस्य अनुभूतिः भविष्यति तथा तेषां प्रियजनानां स्मृतयः सदैव जीविताः स्थास्यन्ति।
कार्यक्रमे उपस्थितायाः एसडीएम् ऋतु-सिरोही-महोदयायाः समीपे भाजपानेत्री प्रीति चौधरी शहीदस्मारकस्य निर्माणाय भूमेः उपलब्धतां कर्तुम् आग्रहं कृतवती। शहीदस्मारकसमितेः पदाधिकारिणः अपि नगरपञ्चायतं स्थानीयप्रशासनं च एतत्सम्बन्धे भूमेः चयनं कृत्वा शीघ्रमेव तस्याः उपलब्धतां कर्तुम् आग्रहं पुनरुक्तवन्तः। कार्यक्रमस्य समाप-नानन्तरं भाजपानेता धर्मेन्द्र-गौतमस्य नेतृत्वे सेवानिवृत्तसैनिकैः अन्यैः जनैश्च एकः त्रिवर्णध्वजयात्रा निष्कासिता। अस्यां यात्रायां राष्ट्रभक्तिपरैः घोषैः सह वीरबलिदानिभ्य: नमनं कृतम्। कार्यक्रमे उपस्थितानां शहीदपरिवाराणां सदस्याः अपि समितेः पदाधिकारिभिः सम्मानिताः।
Hindusthan Samachar / Divya Ranjan