Enter your Email Address to subscribe to our newsletters




रायपुरम्, १५ अगस्तमासः (हि.स.)। राजधानीरायपुरस्य आरक्षक-परेड-प्रांगणे आयोजिते राज्यस्तरीये स्वातन्त्र्य-दिवससमारोहे प्रायः अष्टशताधिकाः पञ्चाशत् शालेयच्छात्राः छत्तीसगढस्य लोककलया संस्कृत्या च ओतप्रोताः प्रस्तुतयः अयच्छन्। एतासां प्रस्तुतिनां मध्ये आयोजितायां स्पर्धायां छत्तीसगढ-उत्तरक्षेत्रस्य सरगुजासम्भागस्य शालेय-च्छात्राः प्रथमस्थानं, छत्तीसगढ-पश्चिमक्षेत्रस्य दुर्गसम्भागस्य छात्राः द्वितीयस्थानं, मध्यक्षेत्रस्य रायपुर-सम्भागस्य छात्राश्च तृतीयस्थानं प्राप्तवन्तः। मुख्यमन्त्रिणा शील्ड-पदकानि प्रदाय सर्वे विजेतारः सम्मानिताः।
छत्तीसगढ-उत्तरक्षेत्रस्य सरगुजासम्भागस्य २८६ शालेयछात्रैः छात्राभिश्च ‘वन्दे मातरम्’, ‘जय हिन्द् हम सबका अभिमान’ इत्यादिगीतानां रिमिक्स-रूपेण देशभक्ति-पूर्णा प्रस्तुति प्रदत्ता। अस्याः नृत्यगीतप्रस्तुतेः माध्यमेन छात्रैः छात्राभिश्च वन्देमातरमस्य १५० वर्षाणां तपस्यायाः मातृभूमेः प्रति अनन्तप्रेमस्य च गाथा प्रदर्शिता। तत्सह युवशक्त्या परिपूर्णं भारतं नूतनानि शिखराणि स्पृशन्तं मनोहररूपेण प्रस्तुत्या प्रदर्शितम्।
पश्चिमक्षेत्रस्य दुर्गसम्भागस्य २७७ विद्यार्थिभिः ‘सजता, सँवरता, निखरता ये देश...’ इति गीतस्य आधारेण मनोहारि नृत्यप्रस्तुतिः प्रदत्ता। अस्याः नृत्यगीत-प्रस्तुतेः माध्यमेन विभिन्नेषु अवसरेषु प्रचलितानां नृत्यानां सुन्दरं रूपमपि दर्शकानां समक्षं प्रस्तुतम्। विद्यालयस्य छात्रैः अस्याः प्रस्तुत्याः माध्यमेन स्वभावान् पादानां लयेन ऊर्जया च संयोज्य राष्ट्रप्रेम्णः अखण्डं दृश्यमपि प्रदर्शितम्।
मध्यक्षेत्रस्य रायपुरसम्भागस्य २८० छात्रैः ‘सङ्कल्पं उक्त्वा वयं तु निर्गताः...’ इति फ्यूजन-गीतस्य आधारेण मनोहारि प्रस्तुति प्रदत्ता। अस्याः नृत्यगीतप्रस्तुतेः माध्यमेन छात्रैः छात्राभिश्च सैनिकानां शौर्यस्य, तेषां त्यागस्य बलिदानस्य च गाथा जीवन्तीकृता।
Hindusthan Samachar / Divya Ranjan