‘हर घर तिरंगा’ आंदोदने टीएमसी शालानां सांस्कृतिकः कार्यक्रमः
मुंबई ,15 अगस्तमासः (हि. स.) । स्वातन्त्र्यदिवसस्य अवसरे केन्द्रसर्वकारस्य ‘हर घर तिरंगा’ अभियानस्य अन्तर्गतं ठाणे महानगरपालिकायाः विद्यालयेषु विद्यार्थिनां सहभागितया देशभक्तिसम्बद्धाः विविधाः सांस्कृतिकाः गतिविधयः आयोजिताः। विद्यार्थिभिः यात्रा,
हर घर तिरंगा यात्रा मुहिम में टीएमसी शालाओं में विविध गतिविधियां की गई


मुंबई ,15 अगस्तमासः (हि. स.) ।

स्वातन्त्र्यदिवसस्य अवसरे केन्द्रसर्वकारस्य ‘हर घर तिरंगा’ अभियानस्य अन्तर्गतं ठाणे महानगरपालिकायाः विद्यालयेषु विद्यार्थिनां सहभागितया देशभक्तिसम्बद्धाः विविधाः सांस्कृतिकाः गतिविधयः आयोजिताः। विद्यार्थिभिः यात्रा, चित्रकला, रङ्गोली तथा निबन्धप्रतियोगितानां माध्यमेन राष्ट्रध्वजं प्रति स्वगौरवं देशभक्तिभावं च प्रदर्शितम्।

विद्यालयक्रमाङ्क ५३, पाटलीपाडा इत्यत्र ‘हर घर तिरंगा’ प्रयाणे आयोजिते पञ्चमीतः अष्टमीकक्षापर्यन्तं विद्यार्थिनः उत्साहेन भागं गृहीतवन्तः। हस्तेषु राष्ट्रध्वजं गृहीत्वा विद्यार्थिनः ‘वन्दे मातरम्’, ‘भारत माता की जय’ तथा ‘हर घर तिरंगा’ इत्यादीन् घोषान् उद्घोषयन्तः क्षेत्रे रैलीम् अकुर्वन्। विद्यार्थिनां स्वेच्छया सहभागितया सम्पूर्णे क्षेत्रे देशभक्तेः वातावरणं निर्मितम्।

विद्यार्थिभ्यः कृते रङ्गोली-गतिविधिरपि आयोजिता। विद्यार्थिभिः राष्ट्रध्वजं, देशभक्तिं तथा स्वातन्त्र्यदिवसस्य संकल्पनां आधृत्य आकर्षकाः रङ्गोल्यः निर्मिताः। विद्यार्थिभिः निर्मिताः रङ्गोल्यः दृष्ट्वा स्थानीयपार्षदः कमल चौधरी विद्यार्थिनां प्रशंसां कृत्वा तेषां उत्साहवर्धनम् अकरोत्।

ठाणे महानगरपालिका विद्यालयक्रमाङ्क ७९, दिवा इत्यत्र ‘हर घर तिरंगा’ अभियानस्य अन्तर्गतं निबन्ध, रङ्गोली तथा चित्रकलाप्रतियोगिताः आयोजिताः। विद्यार्थिभिः बहुसंख्यया सहभागिता कृता तथा स्वप्रतिभां लेखनकौशलं च प्रदर्शितम्। विद्यार्थिभिः राष्ट्रध्वजं, स्वातन्त्र्यदिवसं तथा देशभक्तिं विषयीकृत्य विविधाः कलाकृतयः प्रस्तुताः।

विद्यालयक्रमाङ्क ९७, गायमुख इत्यत्र ‘हर घर तिरंगा’ अभियानस्य अन्तर्गतं विद्यार्थिभ्यः चित्रकलाप्रतियोगिता आयोजिता। विद्यार्थिनः स्वेच्छया प्रतियोगितायां भागं गृहीतवन्तः तथा देशभक्तिं, राष्ट्रध्वजं, स्वातन्त्र्यदिवसं एवं ‘हर घर तिरंगा’ इति संकल्पनां आधृत्य सुन्दराः आकर्षकाः च चित्रकलाकृतयः निर्मितवन्तः।

विद्यालयक्रमाङ्क ८८ इत्यत्र रङ्गोली तथा चित्रकलासम्बद्धाः गतिविधयः आयोजिताः। विद्यार्थिभिः विविधवर्णानां प्रयोगं कृत्वा राष्ट्रध्वजं देशभक्तिसन्देशं च आधृत्य कलाकृतयः निर्मिताः तथा अभियानस्य प्रति उत्साहपूर्वकं सहभागिता प्रदर्शिता।

विद्यालयक्रमाङ्क १३१ इत्यस्य विद्यार्थिभिः ‘हर घर तिरंगा’ अभियानस्य अन्तर्गतं यात्रा आयोजिता। सम्पूर्णं क्षेत्रं देशभक्तिपूर्णैः घोषैः गुञ्जितम्। विद्यार्थिनां सहभागितया राष्ट्रध्वजस्य सम्मानस्य, देशभक्तेः तथा राष्ट्रियैकतायाः सन्देशः प्रसारितः।

---------------

Hindusthan Samachar / Dheeraj Maithani