Enter your Email Address to subscribe to our newsletters

कैथलम्, 15 अगस्तमासः (हि.स.)।
कैथलजनपदस्य कृते अयं स्वातन्त्र्यदिवसः गौरवेण भावुकतया च परिपूर्णः अवसरः अस्ति। भारतीयसेनायाः वीरसैनिकः कैथलनिवासी च शहीदः लान्सनायकः नरेन्द्रसिन्धुः मातृभूमेः रक्षणे अदम्यसाहसस्य, असाधारणवीरतायाः च प्रदर्शनं कृत्वा सर्वोच्चबलिदानं समर्पितवान्। तस्य असाधारणवीरतायाः सम्मानार्थं मरणोपरान्तं शौर्यचक्रेण सम्मानितः अस्ति। वर्षे १९८९ तमे कैथलजनपदस्य स्थापनानन्तरम् अयं जनपदस्य प्रथमः शौर्यचक्रसम्मानः अस्ति, अतः सम्पूर्णस्य जनपदस्य कृते अयं विशेषगौरवस्य विषयः वर्तते।
लान्सनायकः नरेन्द्रसिन्धुः राजपूताना राइफल्स तथा ९ राष्ट्रियराइफल्स इत्यनयोः पराक्रमी योद्धा आसीत्। २०२५ तमस्य वर्षस्य नवम्बरमासस्य अष्टमे दिवसे जम्मूकश्मीरे कुलगामक्षेत्रस्य सघनेषु वनेषु निगूढैः आतङ्कवादिभिः विरुद्धं सञ्चालिते अन्वेषणाभियाने आतङ्कवादिनः सुरक्षाबलेषु अन्धाधुन्धं गोलिकाप्रहारं कृतवन्तः। अस्मिन् आक्रमणे नरेन्द्रसिन्धुः गम्भीररूपेण आहतः अभवत्, किन्तु अदम्यसाहसं प्रदर्शयन् सः आहतावस्थायामपि आतङ्कवादिभिः सह दृढतया युद्धं कृतवान् तथा च तान् निहन्तुं महत्त्वपूर्णां भूमिकां निर्वहितवान्। मातृभूमेः रक्षणं कुर्वन् सः स्वस्य सर्वोच्चं बलिदानं समर्पितवान्।
भारतीयसेनायाः गौरवपूर्णपरम्परानुसारं तस्य असाधारणसाहसस्य, कर्तव्यनिष्ठायाः, राष्ट्रसेवायां समर्पणस्य च सम्मानं कुर्वन् तस्मै मरणोपरान्तं शौर्यचक्रं प्रदत्तम्।
पूर्वसैनिककल्याणसङ्घस्य कैथलस्य अध्यक्षः जगजीतफौजी अवदत् यत् कैथलजनपदस्य कृते अयं ऐतिहासिकः गौरवपूर्णश्च विषयः अस्ति। सः वीरमाता रोशनीदेवीं, वीरपिता दलवीरसिन्धुं, सिन्धुपरिवारं, शहीदस्य जन्मभूमेः रोहेड़ाग्रामस्य समस्तान् नागरिकान्, कैथलजनपदस्य समस्तान् सैनिकपरिवारान्, कैथलवासिनः तथा राजपूताना राइफल्स एवं ९ राष्ट्रीयराइफल्स इत्येतान् अस्य गौरवपूर्णस्य सम्मानस्य कृते अभिनन्दितवान्।
जगजीतफौजी अवदत् यत् हुतात्मा नरेन्द्रसिन्धुः इव वीरसैनिकाः देशस्य युवसंततये प्रेरणास्रोतांसि भवन्ति। सः अवदत् यत् प्रत्येकस्मिन् परिवारे तादृशाः वीरपुत्राः जायेरन्, ये राष्ट्रस्य रक्षणाय स्वजीवनं समर्पयितुं संकल्पं धारयेयुः।हुतात्मनो बलिदानम् आगामिनीभ्यः पीढीभ्यः सदैव देशभक्तेः, साहसस्य, कर्तव्यनिष्ठायाः च प्रेरणां प्रदास्यति।
स्वातन्त्र्यदिवसस्य अवसरे कैथलस्य हरियाणा शहीदस्मारकपार्के पूर्वसैनिकैः शौर्यचक्रविजेतुः शहीदलान्सनायकस्य नरेन्द्रसिन्धोः श्रद्धया स्मरणं कृत्वा श्रद्धाञ्जलिः समर्पिता। अस्मिन् अवसरे स्थलसेना, वायुसेना, नौसेना तथा अर्धसैनिकबलानां पूर्वसैनिकैः सामूहिकरूपेण शहीदं नमनं कृतम् तथा च शासनप्रशासनमपि अस्य ऐतिहासिकस्य गौरवस्य सूचनां प्रदत्ता।
शहीदस्य पैतृकग्रामे रोहेड़ायामपि तस्य स्मारके श्रद्धाञ्जलिं समर्पयितुं जनानां समूहः समागतः। ग्रामवासिभिः, विद्यार्थिभिः, ग्रामप्रधानैः, पञ्चायतसदस्यैः, सैनिकपरिवारैः तथा शहीदस्य परिजनैः स्वस्य वीरसुताय श्रद्धासुमनानि समर्पितानि। ग्रामवासिनः अवदन् यत् नरेन्द्रसिन्धुना ग्रामस्य जनपदस्य च नाम सम्पूर्णे देशे गौरवान्वितं कृतम् अस्ति तथा च तस्य बलिदानं सदैव अमरं भविष्यति।
अस्मिन् अवसरे हरियाणाराज्यस्य सामाजिकन्यायाधिकारितामन्त्री कृष्णकुमारबेदी अपि शौर्यचक्रविजेतुःहुतात्मनः लान्सनायकस्य नरेन्द्रसिन्धोः परिवारं तथा कैथलवासिनः अभिनन्द्य तस्य अदम्यसाहसं सर्वोच्चबलिदानं च प्रति श्रद्धांजलिं समर्पितवान्।
---------------
Hindusthan Samachar / Dheeraj Maithani