Enter your Email Address to subscribe to our newsletters


सुपौलम्, 15 अगस्तमासः (हि.स.)।
जनपदे अशीतितमः स्वातन्त्र्यदिवसः शुक्रवासरे हर्षोल्लासेन, उत्साहेन, देशभक्तिभावनया च आचरितः। जनपदस्य मुख्यराजकीयसमारोहः स्थानीये ऐतिहासिके गान्धीमैदानक्रीडांगणे आयोजितः। अत्र जनपदाधिकारी सावनकुमारेण विधिपूर्वकं राष्ट्रध्वजः समुत्तोलितः तथा भव्यपरेडस्य अभिवादनं स्वीकृतम्। समारोहे बहुसङ्ख्याकाः अधिकारिणः, जनप्रतिनिधयः सामान्यजनाश्च उपस्थिताः आसन्।
अस्मिन्नवसरे जनपदस्य सर्वेषु शासकीयेषु अशासकीयेषु च कार्यालयेषु, शिक्षणसंस्थासु, राजनैतिकदलानां कार्यालयेषु तथा विभिन्नेषु सामाजिकसङ्गठनेषु अपि राष्ट्रध्वजः समुत्तोलितः।
गान्धीमैदाने सम्बोधनसमये जनपदाधिकारी सावनकुमारः जनपदे सञ्चालितानां जनकल्याणकारीणां विकासात्मकानां च योजनानां उपलब्धीनां प्रगतेश्च विवरणं प्रस्तुतवान्। जनपदाधिकारिणा उक्तं यत् राष्ट्रियबालस्वास्थ्यकार्यक्रमस्य अन्तर्गतं जन्मजातहृदयरोगेण पीडिताः १२३ बालकाः चिह्निताः। एतेषां बालकानां निःशुल्कोपचाराय शल्यचिकित्सायै च प्रेषणं कृतम्, येषु ६५ बालकानां सफलशल्यक्रिया सम्पन्ना अस्ति।
प्रधानमन्त्रिजनजातीयआदिवासीमहान्यायाभियानस्य अन्तर्गतं जनपदे चयनितेभ्यः ३८ पात्रलाभार्थिभ्यः पक्कगृहाणां निर्माणाय स्वीकृतिः प्रदत्ता अस्ति। हिट् एण्ड् रन क्षतिपूर्तियोजनायाः अन्तर्गतं प्राप्तेषु २७२ स्वीकृतप्रार्थनापत्रेषु ११७ मार्गदुर्घटनापीडितेभ्यः अथवा तेषाम् आश्रितेभ्यः बीमापरिषदः माध्यमेन अनुग्रहानुदानराशेः प्रत्यक्षं भुगतानं कृतम्।
स्वातन्त्र्यदिवसस्य अवसरे जनपदस्य प्रमुखेषु कार्यालयेषु संस्थासु च पदाधिकारिभिः जनप्रतिनिधिभिश्च राष्ट्रध्वजः समुत्तोलितः। समाहरणालये, गान्धीमैदाने, मेलासमित्यां च जनपदाधिकारी सावनकुमारेण ध्वजारोहणं कृतम्। व्यवहारन्यायालये जनपदसत्रन्यायाधीशः डॉक्टरः राकेशकुमारः, जनपदपुलिसकेन्द्रे पुलिसाधीक्षकः शरथ् आर.एस., जनपदपरिषदः कार्यालये अध्यक्षा कमलादेवी तथा सदरअनुमण्डलकार्यालये पटेलसेवासङ्घे च अनुमण्डलाधिकारी मनोहरसाहः ध्वजारोहणं कृतवन्तः।
सदरचिकित्सालये मुख्यचिकित्साधिकारी डॉक्टरः बाबूसाहेबझा, विधिज्ञसङ्घे अध्यक्षः नागेन्द्रनारायणठाकुरः, प्रखण्डपरिसरे प्रखण्डप्रमुखा निरञ्जनादेवी, सदरथाने थानाध्यक्षः रामसेवकरावतः, सार्वजनिकपुस्तकालयक्लबे सचिवः राजेन्द्रप्रसादयादवः, लाइन्स्क्लबे सचिवः डॉक्टरः आर.के.यादवः, सार्थकअकादम्यां निदेशकः राजनचमनः तथा व्यापारसङ्घभवने अध्यक्षः अमरकुमारचौधरी च राष्ट्रध्वजं समुत्तोलितवन्तः।
स्वातन्त्र्यदिवसस्य अवसरे विभिन्नानां राजनैतिकदलानां जनपदकार्यालयेष्वपि कार्यक्रमाः आयोजिताः। भाजपाजनपदकार्यालये नरेन्द्रऋषिदेवेन ध्वजारोहणं कृतम्। जदयूजनपदकार्यालये जनपदाध्यक्षेण राजेन्द्रयादवेन तिरङ्गः समुत्तोलितः। काङ्ग्रेसजनपदकार्यालये जनपदाध्यक्षस्य अनुपमस्य नेतृत्वे ध्वजारोहणकार्यक्रमः सम्पन्नः।
राजदजनपदकार्यालये जनपदाध्यक्षः सन्तोषसरदारः राष्ट्रध्वजं समुत्तोल्य कार्यकर्तॄन् सम्बोधितवान्। तदतिरिक्तं गान्धीस्मारके, आम्बेडकरचतुष्पथे, रेडक्रॉसभवने च सुपौलनगरस्य विभिन्नेषु स्थलेषु अपि राष्ट्रध्वजः समुत्तोलितः।
जनैः देशस्य स्वातन्त्र्यार्थं स्वसर्वस्वं समर्पितवद्भ्यः अमरशहीदेभ्यः श्रद्धाञ्जलिः समर्पिता तथा राष्ट्रियैकतायाः अखण्डतायाश्च संरक्षणस्य संकल्पः कृतः।
Hindusthan Samachar / Dheeraj Maithani