Enter your Email Address to subscribe to our newsletters

-स्वाधीनता दिवसे उत्तरप्रदेश विधान सभायाः समक्षम् आयोजित मुख्य समारोहस्य सांस्कृतिक कार्यक्रमेषु दृष्टा भारतस्य प्रदर्शिनी
लखनऊ, 15 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे उत्तरप्रदेशविधानभवनस्य पुरतः आयोजिते भव्यसमारोहे ध्वजारोहणं कृतवान्। अस्मिन् अवसरे देशस्य अनेकानां राज्यानां कलाकारैः मनोहराः प्रस्तुतयः प्रदर्शिताः। स्वाधीनतासमारोहं सम्बोधयन् मुख्यमन्त्री योगी स्वसर्वकारस्य उपलब्धीनां वर्णनं कुर्वन् उक्तवान् यत् यथा स्वातन्त्र्यसङ्ग्रामस्य कल्पना उत्तरप्रदेशं विना कर्तुं न शक्यते, तथैव विकसितभारतस्य कल्पना अपि उत्तरप्रदेशं विना अपूर्णा अस्ति। अस्मिन् अवसरे मुख्यमन्त्री नवीनयुवानीतिः घोषिता।
मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् सत्यस्य अहिंसायाश्च साधकस्य महात्मनः गान्धिनः, नेताजी सुभाषचन्द्रबोसस्य, सरदारवल्लभभाईपटेलस्य, डॉ. आंबेडकरस्य, भारतस्य प्रथमस्य राष्ट्रपतेः संविधानसभायाः अध्यक्षस्य च डॉ. राजेन्द्रप्रसादस्य तथा भारतस्य महानां स्वातन्त्र्यसेनानीनां क्रान्तिकारिणां च स्मृतीः नत्वा श्रद्धांजलिं समर्पयितुं अस्माकं सर्वेषां कृते अद्य दिवसोऽयं महत्त्वपूर्णः अवसरः अस्ति। तैः स्वजीवनस्य सर्वस्वं राष्ट्राय समर्पितम्। एकभारतश्रेष्ठभारतस्य निर्माणस्य दिशि तैः निरन्तरं स्वदायित्वस्य निर्वहणं कृतम्।
योगी उक्तवान् यत् उत्तरप्रदेशं विना स्वातन्त्र्यसङ्ग्रामः अपूर्णः एव मन्यते। मङ्गलपाण्डेयात् आरभ्य झाँसीराज्ञी लक्ष्मीबाई, वीराङ्गना अवन्तीबाई लोधी, झलकारीबाई, वीराङ्गना उदादेवी पासी वा स्वातन्त्र्यार्थं स्वसर्वस्वं समर्पितवतीनां वीराणां वीराङ्गनानां च दीर्घा शृङ्खला अस्ति। चन्द्रशेखरआजादः, ठाकुररोशनसिंहः, तात्याटोपे, धनसिंहः इत्यादयः अपि स्वसर्वस्वं समर्पितवन्तः। एतेषां क्रान्तिकारिणां प्रयत्नैः उत्तरप्रदेशस्य भूमौ प्रथमस्वातन्त्र्यसमरस्य ज्वाला देशस्य विभिन्नभागेषु प्रसारिता, यस्य परिणामः स्वाधीनता अभवत्। देशस्य रक्षणं कुर्वन्तः ये वीरसुपुत्राः शहीदाः अभवन्, तेभ्यः अस्मिन् अवसरे अहं श्रद्धाञ्जलिं समर्पयामि।
मुख्यमन्त्री योगी आदित्यनाथः उक्तवान् यत् १५ अगस्त १९४७ तमे वर्षे अस्माभिः स्वाधीनता प्राप्ता, किन्तु स्वाधीनतया सह अशिक्षा, असमानता, असुरक्षा, दरिद्रता, पश्चाद्गमनम्, जातिवादः तुष्टीकरणं च इत्यादयः समस्याः अपि अस्मिन् देशे अवशिष्टाः। अतः गतनववर्षेषु एतासाम् असमानतानां दूरीकरणाय सर्वकारेण कतिपयानि महत्त्वपूर्णानि पदानि स्वीकृतानि। उत्तरप्रदेशः विरमितुं न शक्नोति। अद्य सः स्वस्य विकासयात्रां नवीनोन्नतीनां दिशि नेतुं प्रारब्धवान् अस्ति। कृषिक्षेत्रात् उद्योगक्षेत्रपर्यन्तं, रक्षाक्षेत्रात् युवाशक्तिपर्यन्तं नूतनाः कीर्तिमानाः स्थापिताः सन्ति। उत्तरप्रदेशः अद्य केवलं परिवर्तितः न भवति, अपितु देशस्य दिशानिर्धारणे महत्त्वपूर्णं योगदानं ददाति। प्रधानमन्त्री नरेन्द्रमोदिनः ‘सबका साथ, सबका विकास’ इति मन्त्रेण सह उत्तरप्रदेशः अद्य उपद्रवप्रदेशात् परिवर्तितः उत्सवप्रदेशः अभवत्। अधुना उत्तरप्रदेशः रोगग्रस्तराज्यरूपेण न गण्यते। अधुना सः भारतस्य विकासस्य प्रमुखप्रेरकशक्तिरूपेण गण्यते।
उत्तरप्रदेशेन स्वकीयाऽर्थव्यवस्था त्रिगुणिता वर्धिता अस्ति। महिलानां कार्यशक्तिः अपि त्रिगुणिता वर्धिता अस्ति। अधुना उत्तरप्रदेशस्य परिचयः एकजनपदं एकमाफियारूपेण न, अपितु ‘एकजनपदं एकोत्पादः’, ‘एकजनपदं एकं चिकित्सामहाविद्यालयः’ इति रूपेण भवति। सुशासनस्य परिणामस्वरूपं पञ्चाशत् लक्षकोटिरूप्यकाणां निवेशप्रस्तावाः प्राप्ताः सन्ति। तस्य परिणामस्वरूपं पञ्चषष्टिलक्षजनानां रोजगारस्य अवसराः प्राप्ताः। नववर्षेषु नवभ्यः लक्षेभ्यः अधिकेभ्यः युवभ्यः सर्वकारीयसेवा प्राप्ता। षण्णवतिलक्षाणि सूक्ष्मलघुमध्यमोद्यमाः तथा द्वाविंशतिसहस्राणि उद्योगाः प्रदेशस्य विकासे महत्त्वपूर्णां भूमिकां निर्वहन्ति। निवेशस्य नवोन्मेषस्य च नूतनानि द्वाराणि अद्य प्रदेशे उद्घाटितानि सन्ति।
‘ऑपरेशन कायाकल्प’ इत्यस्य माध्यमेन प्राथमिकविद्यालयेषु सुविधानां परिपूर्णता अभवत्। विद्यालयत्यागस्य दरः एकोनविंशतिप्रतिशतात् न्यूनीभूय केवलं त्रिप्रतिशतरूपेण अवशिष्टः अस्ति। शिक्षकाणां शैक्षणिककर्मचारिणां च परिवारजनानां कृते निःशुल्का चिकित्सासुविधा प्रदत्ता अस्ति।
उत्तरप्रदेशसर्वकारः शीघ्रं नवीनां युवानीतिं आनयिष्यति
मुख्यमन्त्री योगी युवभ्यः आह्वानं कुर्वन् उक्तवान् यत् तेषां ऊर्जयैव प्रदेशः अग्रे गच्छति। अस्माकं सर्वकारेण नकलमाफियानां विरुद्धं कठोराः कार्यवाह्यः कृताः सन्ति। युवभ्यः ब्याजरहितऋणं प्रदीयते। प्रत्येकस्मिन् ग्रामे मुक्तव्यायामशालाः उद्घाट्यन्ते। प्रत्येकस्मिन् जनपदे क्रीडाङ्गणानि निर्मीयन्ते। उत्तरप्रदेशसर्वकारः शीघ्रमेव नवीनां युवानीतिं आनयति। अस्याः नीत्याः माध्यमेन प्रदेशस्य युवभ्यः अधिकं सामर्थ्यं प्रदातुं वयं सफलाः भविष्यामः। तथैव मुख्यमन्त्री योगी केन्द्रस्य नरेन्द्रमोदिसर्वकारस्य तथा उत्तरप्रदेशस्य स्वकीयसर्वकारस्य उपलब्धीनां विस्तरेण वर्णनं कृतवान्।
मुख्यमन्त्री योगी उक्तवान् यत् विकसितभारतस्य स्वप्नं तदैव पूर्णं भविष्यति यदा विकसितः उत्तरप्रदेशः भविष्यति। अस्य कृते पञ्चविंशतिकोटिजनाः सामूहिकरूपेण प्रयासं करिष्यन्ति। मुख्यमन्त्री योगी अस्मिन् अवसरे शहीदानां परिवारजनान् अपि सम्मानितवान्। तिरङ्गवर्णैः रञ्जितानां गुब्बाराणां आकाशे उड्डयनस्य अनन्तरं समारोहस्य समापनम् अभवत्।
अस्याः पूर्वं उत्तरप्रदेशविधानभवनस्य पुरतः आयोजिते मुख्यस्वाधीनतासमारोहे उत्तरप्रदेशस्य, उत्तराखण्डस्य, बिहारस्य, छत्तीसगढस्य, महाराष्ट्रस्य, जम्मूकश्मीरस्य, मध्यप्रदेशस्य च तथा अन्येषां बहूनां राज्यानां सांस्कृतिकं दर्शनं प्राप्तम्। विभिन्नराज्यानां कलाकाराणां मनोहराभिः प्रस्तुतिभिः वातावरणं रोमाञ्चपूर्णम् अभवत्।
अस्मिन् अवसरे विधानपरिषदः सभापतिः कुँवरमानवेन्द्रसिंहः, उपमुख्यमन्त्री ब्रजेशपाठकः, लखनऊ-महानगरस्य महापौरः सुषमाखर्कवालः, विधानपरिषदः सदस्यः डॉ. महेन्द्रसिंहः, डॉ. लालजीप्रसादनिर्मलः तथा अन्ये नेतारः प्रदेशस्य वरिष्ठाधिकारिणश्च उपस्थिताः आसन्।
Hindusthan Samachar / Dheeraj Maithani