Enter your Email Address to subscribe to our newsletters

-मुख्यमंत्रिणा योगिना आदित्यनाथेन स्वीयसर्वकारी-आवासे कृतं ध्वजारोहणम्
लखनऊ, 15 अगस्तमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः शनिवासरे स्वकीयस्य सर्वकारीयस्य आवासस्य पञ्चकालिदासमार्गस्य परिसरे स्वातन्त्र्यदिवसस्य अवसरे ध्वजारोहणं कृतवान्। अस्मिन् अवसरे स्वसम्बोधने सः उक्तवान् यत् वयं सर्वे जानीमः यत् अद्यैव १९४७ तमे वर्षे दीर्घस्य सङ्घर्षस्य त्यागस्य बलिदानस्य च परिणामस्वरूपं भारतदेशेन स्वाधीनता प्राप्ता। स्वाधीनतायाः यमिदम् अनुभवनं प्रत्येकः भारतवासी अद्य यस्मिन् उन्मुक्ते वातावरणे करोति, तत् भारतमातुः तेषां महानां सपूतानां बलिदानिनां त्यागस्य तपस्यायाः बलिदानस्य च परिणामः अस्ति।
मुख्यमन्त्री योगी उक्तवान् यत् सत्यम् अस्ति यत् अन्तर्विरोधैः षड्यन्त्रैश्च देशः परतन्त्रः अभवत्, किन्तु अस्माकं देशेन मनसा मस्तिष्केन च कदापि एषा परतन्त्रता स्वीकृता न। देशस्य विभिन्नेषु क्षेत्रेषु अस्याः परतन्त्रतायाः विरुद्धं विभिन्नेषु कालेषु सङ्घर्षाः आन्दोलनानि च अभवन्। १८५७ तमे वर्षे प्रथमस्वातन्त्र्यसमरः सामूहिकरूपेण देशस्य स्वाधीनतायै कृतस्य प्रयासस्य महत्त्वपूर्णं सोपानम् आसीत्।
यदा बैरकपुरे शहीदमङ्गलपाण्डेयस्य नेतृत्वे, झाँसीनगरे झाँसीराज्ञी लक्ष्मीबाय्याः नेतृत्वे, मेरठनगरे धनसिंहकोतवालस्य नेतृत्वे च प्रत्येकस्मिन् ग्रामे, प्रत्येकस्मिन् जनपदे, प्रत्येकस्मिन् प्रान्ते स्वाधीनतायाः एषा ज्वाला प्रज्वलिता दृश्यते स्म। सर्वेषां मनसि एक एव विश्वासः भावश्च आसीत् यत् स्वदेशं विदेशीयदासत्वात् मुक्तं कर्तव्यम्।
स्वाधीनतायाः अर्थः केवलं राजनैतिकस्वाधीनता नास्ति। स्वाधीनतायाः अर्थः तस्याः अराजकतायाः, पश्चाद्गतेः, दरिद्रतायाः, अशिक्षायाः असमानतायाश्च सम्पूर्णरूपेण मुक्तिः अस्ति, याभिः कारणैः अयं देशः निरन्तरं दुर्बलः अभवत्। महानां सपूतानां त्यागस्य कारणेन अद्य वयं सर्वे स्वाधीनतायाः एकोनाशीतिवर्षाणि पूर्णानि कृतवन्तः। अष्टाशीतितमे स्वाधीनतादिवसस्य कार्यक्रमेन वयं सर्वे सम्बद्धाः स्मः।
अयं दिवसः केवलं समारोहपर्यन्तं सीमितः भवितुं न अवसरं ददाति। अपितु सम्पूर्णस्वाधीनतायाः तान् लक्ष्यांस्तु प्राप्तुं दिशि क्रियमाणेषु प्रयासेषु नागरिकरूपेण स्वकर्तव्यानां निर्वहणाय अस्मभ्यं नवीनां प्रेरणामपि प्रददाति।
देशे बहवः प्रयासाः कृताः सन्ति। तेषामेव परिणामस्वरूपं देशस्य पञ्चविंशतिकोटिजनाः दरिद्रतारेखायाः बहिः निष्क्रान्ताः सन्ति। अद्य देशः प्रगतिपथे अग्रे गच्छति। अस्मिन् अवसरे सः प्रदेशस्य जनतां हार्दिकाभिनन्दनानि शुभकामनाश्च प्रदाय उक्तवान् यत् स्वाधीनतायाः संरक्षणाय न कस्यचित् एकस्य समूहस्य, जातिविशेषस्य वा सम्प्रदायस्य दायित्वम् अस्ति, अपितु सामूहिकरूपेण देशस्य प्रत्येकस्य नागरिकस्य स्वातन्त्र्यरक्षणाय प्रयासः करणीयः।
Hindusthan Samachar / Dheeraj Maithani